सिक्किं राज्ये हिमपातः। दुर्घटने ६ जनानां मृत्युः अभवत्।
सिक्किं राज्ये हिमपातः। दुर्घटने ६ जनानां मृत्युः अभवत्। ११ जनाः व्रणिताः अभवन्। नातुलायाः समीपे आसीत् हिमपातः। मृताः सर्वे पर्यटकाः आसन् । रक्षा प्रवर्तनानि प्रचलन्ति।
शिंलायां राष्ट्रपतिभवने सामान्यजनानामपि सन्दर्शनावसरः।
भारतस्य राष्ट्रपतेः विरामकालभवनेषु अन्यतमस्य हिमाचलप्रदेशे शिंलायां विद्यमानस्य राष्ट्रपतिभवनस्य सन्दर्शनाय सामान्यजनानामपि अधिकारः कल्पितः। एप्रिल् मासस्य त्रयोविंशतिदिनाङ्कादारभ्य सन्दर्शनाय अधिकारः दीयते। नवदिल्लीस्थे राष्ट्रपतिभवने तथा शिंलायां सेक्कन्त्राबादे च विद्यमानेषु औद्योगिकभवनेषु च सर्वेषां भारतीयानाम् अधिकारः अस्ति इति राष्ट्रपतिना द्रौपदीमुर्मुणा पूर्वं ख्यापितमासीत्। पञ्चाशत् रूप्यकाणि चीटिकाशुल्करूपेण दातव्यानि।
सप्तमी श्रीमद्भगवद्गीता पाक्षिक-राष्ट्रियसंगोष्ठी सम्पन्ना।
वार्ताहरः डॉ॰ अम्बरीशमिश्रः।
प्रत्येकादशि समायोज्यमाना राष्टियसंगोष्ठी अप्रैलमासस्य द्वितीयदिनाङ्के संस्कृतविभाग-भाषासाहित्यभवन-गुजरात-यूनिवर्सिटी- अहमदाबाद- गुजरात, राजकीय-महिला-महाविद्यालय-डी.एल. डब्ल्यू. वाराणसी, चातुर्वेद-संस्कृत-संस्थानम्-काशी इत्येतेषां संयुक्ततत्त्वावधाने "विश्वसंस्कृतकुटुम्बकम्" आमुखपटले सप्तमी" एकादशी श्रीमद्भगवद्गीता पाक्षिकराष्ट्रीय-व्याख्यानसंगोष्ठी सकुशलं सम्पन्नाऽभूत्! अस्यां संगोष्ठ्यां विशिष्टवक्तार: डॉ॰ कनैया ठाकरमहोदया: गीतायां नैतिकमूल्यानि" विषयमधिकृत्य गभीरं चिन्तनम् अल्पैनैव शब्देन समुद्घाटितम्। मुख्यवक्तार: सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वेदान्तविभागप्रमुखा:, कुलसचिवा श्चाचार्यरामकिशोरत्रिपाठिन: आसन्!
उज्जयिनीस्थपाणिनिसंस्कृत- विश्वविद्यालये
देवीपूजनपाठविधान-प्रशिक्षणम् इत्यस्य शुभारम्भ:
(वार्ताहर:- डॉ.दिनेश: चौबे )
उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृत-वैदिक-विश्वविद्यालयस्य संस्कृतशिक्षण-प्रशिक्षणज्ञान
विज्ञानसंवर्धन-केन्द्रस्य तत्त्वावधाने वैक्रमाब्द: २०८० चैत्रशुक्लएकादश्यां तदनु एकतमे दिनाङ्के "देवीपूजनपाठविधान प्रशिक्षणम्" इत्यस्य शुभारंभ: आभासीयपटलमाध्यमेन सञ्जात: प्रशिक्षणमिदं एकदिनाङ्कदारभ्य नवविंशतिदिनाङ्कपर्यन्तं भवेदिति। अस्मिन् प्रशिक्षणे देवीपूजनस्यविधानमंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदास्यते। विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजीवर्यस्य निर्देशने विश्वविद्यालयस्य केन्द्रेण अस्य प्रशिक्षणस्यामायोजनं क्रियते। उद्घाटनकार्यक्रमे मुख्यवक्तृरुपेण वेदव्याकरणविभागाध्यक्ष: प्रभारिनिदेशकः संस्कृतप्रशिक्षणकेन्द्रम्
भारते एप्रिल् मासादारभ्य जूण् मासपर्यन्तम् अतितापः भविष्यति इति पूर्वसूचना।
नवदिल्ली> एप्रिल् मासादारभ्य जूण् मासपर्यन्तं राष्ट्रस्य विविधभागेषु अतितापः भविष्यति इति वातावरणमन्त्रालयेन पूर्वसूचना प्रदत्ता। आगामिनि दिनेषु भारतस्य पूर्व -पश्चिम - दक्षिण - उत्तर - मध्यभागेषु सर्वत्र उष्णतरङ्गस्य साध्यता अस्ति इति पूर्वसूचना अस्ति। भारते १९०१ संवत्सरेभ्यः पश्चात् अस्मिन् संवत्सरे फेबुवरिमासे अतितापमानं प्रथमतया रेखाङ्कितम् अस्ति।
भारतेन साह्यकरणम् इच्छति 'नाट्टो'; भारतपसफिक् बन्धस्य दृढीकरणं लक्ष्यम् इति जूलियन् स्मित्।
न्यू योर्क्> भारतेन सह अधिकं साह्यकरणम् इच्छति इति नाट्टो सख्यस्य राजदूतः जूलियन् स्मित् इत्याख्यया उक्तम्। राजनैतिका-र्थिकमण्डलयोः सहयोगः एव उद्दिश्यते। अन्येभ्यः राष्ट्रेभ्यः भारतेन कृतं साहाय्यम् अभिनन्दनमर्हति इति सा उक्तवती। युक्रेन् देशस्य शान्तये भारतस्य साह्ययम् अनिवार्यम् इति तया स्पष्टतया उक्तमासीत्।
भारत-पसफिक् बन्धस्य दृढीकरणमेव इदानीन्तनं लक्ष्यम्। ४० राष्ट्राणि इदानीं नाट्टोसख्ये सन्ति। भारताय द्वारम् उद्घाटितम् अस्ति। भारतस्य प्रतिस्पन्दं प्रतीक्ष्य तिष्ठन्तः स्मः इत्यपि वार्तामेलने सा उक्तवती।
पुस्तकं पठितुमधिकारः नास्ति। विद्यालयं गन्तुमधिकारः नास्ति। अफ्गानस्थानीयबालिकानां भविष्यः अन्धकारेण आवृतः।
भयं विना महाविद्यालयेषु पठितुम् इष्टवस्त्राणि धर्तुं च पूर्वतनकाले अफ्गानिस्थानीयबालिकाभ्यः अर्हता आसीत्। १०२१ तमे संवत्सरे आगस्त् मासस्य पञ्चदशदिनाङके यदा तालिबानः अफ्गानिस्थानं बलात्कारेण स्ववशं कृतं तदा आरभ्य स्त्रीभ्यः शिक्षा निषिद्धा। मानवाधिकाराः च उल्लङ्घिताः। गतवर्षस्य अन्तिमे पादे स्त्रीणां शिक्षाकार्येषु तालिबानेन अतिनियन्त्रणानि आनीतानि। अस्मिन् सप्ताहे अध्ययनसंवत्सरे समारब्धे सन्दर्भेऽस्मिन् बालिकाः सर्वाः गन्तुम् अवसरं निषिध्य दुःखसागरे पतिताः।
"संस्कृतभाषाशिक्षणवर्गः" इत्यनेन "गृहे गृहे संस्कृतम्" सम्पूर्णं राज्यं लाभं प्राप्स्यति - विनय श्रीवास्तव: ।
वार्ताहरः - सचिन शर्मा, उत्तरप्रदेशः ।
उत्तरप्रदेश संस्कृत-संस्थानम् उत्तरप्रदेश-सर्वकारस्य भाषाविभागस्य अन्तर्गतं मार्चमासे प्राविधिकस्तरं क्रियमाणानां कक्षानां समाप्तौ, जेसी अतिथिगृहे सप्तदिवसीयस्य शिक्षकप्रशिक्षणस्य च समाप्तेः अवसरे, गृहे गृहे संस्कृतयोजना अन्तर्गत निरालनगरे संस्थाननिदेशकः विनयश्रीवास्तवः कार्यक्रमे प्रशिक्षुभ्यः प्रशिक्षकेभ्यः च प्रमाणपत्रं वितरितवान्। प्रशिक्षून् सम्बोधयन् सः अवदत् यत् भवन्तः मण्डलस्तरस्य संस्थायाः राजदूतरूपेण कार्यं करिष्यन्ति। उत्तरप्रदेशस्य संस्कृतसंस्थानं शीघ्रमेव जिलास्तरस्य समन्वयकान् स्थापयिष्यति, न केवलं ऑनलाइन, अपितु प्रथमचरणे प्रत्येकस्मिन् गृहे संस्कृतभाषास्तरं सुदृढं कर्तुं प्रयतते।
अतुल्यः अभिनेता इन्नसेन्ट् दिवंगतः।
कोच्ची> कैरलीचलच्चित्रमण्डले हास्यनटानां चक्रवर्तिपदे विराजमानः अतुल्यः नटः इन्नसेन्ट् रविवासरस्य रात्रौ कालयवनिकां प्राप्तः। ७५ वयस्कः आसीत्। मार्च्मासस्य प्रथमवारे ह्रस्वकालीयाम् अमेरिकायात्रां समाप्य प्रतिनिवृत्तः सः 'न्युमोणिया'ज्वरबाधया सप्ताहत्रयं यावत् कोच्चीनगरस्थे आतुरालये परिचर्यायामासीत्।
नववत्सरेभ्यः पूर्वं अर्बुदरोगबाधितः इन्नसेन्ट् वर्यः चिकित्सया सह निश्चयदार्ढ्येन मनःस्थैर्येण च रोगमुक्तः सन् सहस्रशः अर्बुदबाधितेभ्यः आत्मविश्वासं प्रादात्। ७५,००० प्रतिकृतिभिः 'क्यान्सर् वार्डिले चिरि' [अर्बुदप्रकोष्ठे हासः] नामकः तस्य अर्बुदकालजीवितानुभवग्रन्थः सुतरां प्रशस्तोSभवत्। आङ्गल-तमिल-कन्नट-इटालियभाषासु तस्य ग्रन्थस्य अनूदितानि जातानि। उपसप्तशतेषु चलच्चित्रेषु तस्य अभिनयप्रवीण्यं प्रकट्तवान् सः सहनटस्य राज्यपुरस्कारं च प्राप्तवान्।
२०१४ तमे वर्षे चालक्कुटि मण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। १५ संवत्सराधिककालं 'अम्मा' नामकचलच्चित्रसंघटनस्य अध्यक्ष आसीत्। इन्नसेन्टवर्यस्य देहवियोगे प्रधानमन्त्री नरेन्द्रमोदी अनुतापं प्रकाशितवान्।
वाक्सुधा कार्यशाला अद्य सुसम्पन्ना
आधुनिककाले संस्कृतम् संस्कृतानुवादस्य प्राधान्यं च इति विषयमधिकृत्य समारब्धा त्रिदिवसीया कार्यशाला सुसम्पन्ना। अमृतविद्यापीठस्य कोच्ची परिसरे आयोज्यमानायां कार्यशालायां विविधान् विषयान् चर्चितवन्तः।
संस्कृतस्य अन्यभारतीयभाषाणां च मिथः संबन्धः, भाषान्तरीकरणस्य रीतिशास्त्रं, संस्कृतस्य सङ्गणकीयभाषा इति रीत्या वैज्ञानिकाध्ययनं, सङ्गणकमण्डले संस्कृतस्य स्थानं, शब्दशालायोजना, सरल-मानक-संस्कृतं, भारतीयायाम् आङ्गलेयभाषायां संस्कृतस्य प्रभावः,