संस्कृते समकालिकसाहित्यानां अनिवार्यता अस्ति-डो. जनार्दनहेग्डे।
वार्ताहरा - रमा टी के
केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरनाट्टुकरस्थगुरुवायूर्-परिसरेण चेम्मण्टस्थ-शारदागुरुकुलेन च भारतशासनस्य शिक्षामन्त्रालयाधीनायाः भारतीयभाषासमित्याः च सहयोगेन समकालीन -ज्ञान - पाठ्यपुस्तकानां अनुवादः इति विषयम् अधिकृत्य समायोजिता त्रिदिवसीयकार्यशाला अद्य समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकस्य प्रोफ. ललितकुमारसाहोः आध्यक्षे समारब्धायाः कार्यशालायाः उद्घाटनं सम्भाषणसन्देशस्य सम्पादकेन विद्वान् जनार्दनहेग्डे महाभागेन कृतम्। संस्कृते अपि समकालिकसाहित्यानां अनिवार्यता अस्ति। तदर्थम्