आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति अध्ययनप्रतिवेदनम्।
१९७० संवत्सरात् परम् आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति प्रतिवेदनम्। वेल्ड् वैल्ड्लैफ् फण्ट् इति संस्थया प्रकाशितां गणनामनुसृत्यैव निगमनमिदम्। प्रतिसंवत्सरं २.५% इति क्रमेण आकुञ्चति इति २०२० तमे संवत्सरे आयोजिते अध्ययने निर्णीतः आसीत्। जनसंख्यावर्धनेन जायमानः आवासव्यवस्थानाशः, मलिनीकरणम्, वातावरणपरिवर्तननि इत्यादयः एव अस्याः समस्यायाः कारणानि इति सूचयन्ति।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Saturday, October 15, 2022
जनमनांसि हठादाकर्षयन् केरलेषु नीलसहचरे कुसुमोद्गमः।
Friday, October 14, 2022
व्याजवार्तां रोद्धुं नियमाः निर्मीयन्ते तुर्किना ।
व्याजवार्ताप्रलयान् प्रतिरोद्धुं तुर्कीराष्ट्रेण नियमाः निर्मीयन्ते। एतान् व्याजवार्ता-विरोधनियमान् अनुसृत्य व्याजवार्ता संस्थाभ्यः, सामाजिकमाध्यमानाम् उपयोक्तृभ्यश्च दण्डः भविष्यति। संवत्सरत्रयाणां कारागृहवासः एव दण्डः। स्वतन्त्र - पत्रकारितायाः उपरि हस्तक्षेपः भवन्ति अयं नियमाः इति आक्षेपाः इदानीम् उद्गच्छन्ति। नियमविधेयकं राष्ट्रपतेः पुरतः अङ्गीकाराय समर्पितम् अस्ति। तुर्कीराष्ट्रे कतिपयमासानन्तरं राष्ट्रपतिनिर्वाचनं भविष्यति। ततः पूर्वं भवति अयं रोधनप्रक्रमः इत्येतत् चिन्तनीयः विषयः इति तुर्किस्थाः पत्रकाराः अभिप्रयन्ति॥
Wednesday, October 12, 2022
भारत-दक्षिणाफ्रिक्का क्रिकेट परम्परा भारतेन स्वायत्तीकृता।
नवदिल्ली> भारत-दक्षिणाफ्रिक्कयोः क्रिक्कट् दलयोः मिथः सम्पन्नेषु त्रिषु एकदिनप्रतिद्वन्देषु द्वयमपि विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने दिल्ल्यां सम्पन्ने तृतीये प्रतिद्वन्द्वे भारताय एकपक्षीयं विजयं करगतमभवत्।
तृतीयस्पर्धायाः प्रथमे चरणे दक्षिणाफ्रिक्कां भारतं ९९ धावनाङ्केषु संकोचनमकरोत्। ततः प्रतिचरणे २० क्षेपणचक्रात्पूर्वमेव ताडकत्रयस्य विनष्टे लक्ष्यं प्राप्तम्।
गुलिकाप्रहारितोऽपि न प्रतिनिवृत्तः। द्वयोः भीकरयोः वधाय मार्गदर्शकः करसेनायाः शुनकः अतिव्रणितः।
श्रीनगर्> द्वौ लष्कर् इ तोय्बा भीकरयोः वधाय मार्गदर्शकः स्थलसेनायाः शुनकः अतिव्रणितः। स्थलसेनायाः असोल्ट् डोग् सूम् एव कश्मीरराज्ये अनन्तनागे भीकराणां सुरक्षासेनायाः च मिथः जाते प्रतिद्वन्दे अतिव्रणितः जातः। प्रतिद्वन्दे एकः सैनिकः अपि व्रणितः। ह्यः प्रभाते एव भीकराः निलीय स्थिताः इति संशयिते गृहे सूं इति शुनकः प्रेषितः। भीकरान् प्रत्यभिज्ञातुं विशेषपरिशीलनं लब्धः शुनकः आसीदयम्।
Tuesday, October 11, 2022
युक्रैन् संघर्षे भारतेन आशङ्का आवेदिता। समस्यापरिहाराय भारतस्य साहाय्यम्।
नवदिल्ली> युक्रेने संघर्षे अतिरुक्षे जाते सन्दर्भे भारतेन आशङ्का प्रकाशिता। समस्यापरिहाराय कृतपरिश्रमान् अङ्कीकर्तुं भारतं सज्जमिति भारतेन पुनः प्रोक्तम्। युक्रैने रष्येन कृते आक्रमणे दश जनाः हताः। बहवः जनाः व्रणिताश्च। ततः परमेव भारतस्य प्रतिकरणम्॥
Monday, October 10, 2022
Sunday, October 9, 2022
अतिवृष्ट्या गृहं भग्नम् - त्रयः मृताः।
Saturday, October 8, 2022
संस्कृताध्यापकफेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः सम्पन्नः।
संस्कृतदिनानुबन्धितया संघटनेन छात्रेभ्यः आयोजितायां राज्यस्तरीयस्पर्धायां प्रथमस्थानं प्राप्तेभ्यः चलच्चित्रनटेन शिवजी गुरुवायूर् महाभागेन सम्मानाः वितीरिताः।
Thursday, October 6, 2022
फ्रञ्च् लेखिका अनी एर्नु साहित्यनोबल् पुरस्काराय चिता।
स्टोक्होम्> उत्तमसाहित्यस्य कृते दीयमानः नोबल् पुरस्कारः फ्रञ्च् लेखिका अनी एर्नु महोदयायै लप्स्यते। व्यक्तिगत-स्मरणायाः धीराः सूक्ष्माः च आविष्काराः भवन्ति तस्याः कृतयः इति पुरस्कारसमित्या निर्णयः कृतः। साहित्य -अध्यापिकायाः अनी एर्नोः कृतयः प्रायेण आत्मकथापराः भवन्ति। १९७४ संवत्सरे प्रकाशिता आत्मकथापरा 'क्लीन् औट् ' भवति तस्याः प्रथमकृतिः। ए मान्स् प्लेय्स्, ए वुमण्स् स्टोरि, सिम्पिल् पाषन् इत्यादयः कृतयः प्रशंसार्हाः अभवन्। तस्याः बहवः कृतयः आङ्ग्लभाषायां अनूदिताः सन्ति।