OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, October 5, 2022

 पुनः प्रकोपनम् - जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अग्निबाणः विक्षिप्तः। 


डोक्कियो> जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अनिबाणः विक्षिप्तः। पञ्चसंवत्सराभ्यन्तरे प्रथमतया भवति कोरियस्य जप्पानस्य आकाशमार्गेण  अग्निबाणविक्षेपणः। किङ् जोङ् उन्नस्य अणुयोजनामधिकृत्य आशङ्काम् अनुवर्तमाने अवसरे एव कोरियस्य नूतनं परीक्षणम्। जप्पानात् ३२००० कि. मि दूरे पूर्वभागे शान्तसमुद्रे एव अग्निबाणः पतितः।

 मङ्गलयानस्य सेवा पूर्णतामाप्नोति।

इन्धनं विद्युत्कोशशक्तिश्च समाप्यते। 

बङ्गलुरु> कुजग्रहस्य पर्यवेक्षणाय भारतेन २०१३ तमे विक्षिप्तस्य मङ्गलयानस्य प्रवर्तनं समाप्तिमेतीति ऐ एस् आर् ओ संस्थया निगदितम्। यानस्य इन्धनं विद्युत्कोशशक्तिश्च क्षयं प्राप्तमिति कारणत्वेन सूचितम्। 

  अष्टवर्षाणि यावत् मङ्गलयानस्य सेवा अभिमानार्हरीत्या लब्धा। कुजग्रहे जलसान्निध्यं, अन्तरिक्षक्रमः अणुविकिरणरीतिः इत्यादीनां पर्यवेक्षणाय आसीत् मङ्गलयानस्य विक्षेपणं कृतम्।

 केरलराज्ये कोविड् रोगिणां संख्या वर्धते।

केरलम्> राज्ये कोविड्रोगिणां संख्या वर्धते। रोगबाधया गुरुतरावस्थां प्राप्तानां संख्या अपि वर्धते।ज्व रबाधिताः सर्वे कोविड्रोगनिर्णय परिशोधना करणीया। विषयेऽस्मिन् अवधानता आवश्यकी। सेप्तंबर् मासे कोविड्रोगहेतुना ३३६ जनाः मृताः। वैराणुज्वरबाधया सहस्रशः जनाः प्रतिदिनम् आतुरालयमागच्छन्ति। रोगाणुबाधया वृद्धानाम् अनुबन्धरोगिणां स्वास्थ्यस्थितिः अतिशोचनीयावस्थां प्राप्नोति। श्रावणोत्सववेलायां जनाः सामूहिकदूरपालने मुखावरणधारणे हस्तप्रक्षालने च जागरूकाः नाभूत् इत्येतत् कोविड्रोगस्य प्रसारणे हेतुरभवत् इति स्वास्थ्यनिरीक्षकाः वदन्ति।

उत्तरखण्डे हिमपातः। दश पर्वतारोहकाः मृताः। एकादश अप्रत्यक्षाः जाताः।

डेराडूण्> उत्तरखण्डे द्रौपदीदण्डपर्वतशृङ्गे जाते हिमपाते दश पर्वतारोहकाः मृताः। अपराणां एकादश अप्रत्यक्षजनानां कृते विचेष्टनम् अनुवर्तते। प्रदेशे रक्षाप्रवर्तनानि अपि अनुवर्तन्ते । नेहरू पर्वतारोहणसंस्थायाः परिशीलकसंघः एव हिमपाते स्खलिताः। सोमवासरे नववादने आसीत् दुर्घटनेयं दुरापन्ना।

Tuesday, October 4, 2022

दुबाय्देशस्थे अतिबृहत्तमः हैन्दवदेवालयः अद्य उद्घाटितः।

दुबाय्> दुबाय् देशे जबल् अलि नाम स्थले निर्मितः अतिवृहत्तमः हैन्दवदेवालयः भक्तानां कृते उद्घाटितः। यु ए इ सहिष्णुतासहवर्तित्वमन्त्री शैख् नह्यान् बिन् मुबारक् अल् नह्यान् देवालयसमर्पणकार्यक्रमे सन्निहितः। भारतस्य राजदूतः सञ्जय् सुधीर् मुख्यातिथिः आसीत्। अतिबृहत्तमस्य हैन्दवदेवालस्य पूर्तीकरणाय त्रिसंवत्सरकालः आवश्यकः अभवत्।

 स्वान्ते पेबो इत्याख्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः।

स्टोक्होम्> मनुष्यपरिणामस्य जनितकरहस्यानां याथातथ्यं प्रकाशयितुं प्रयत्नं कुर्वते स्वीडनीयः जनितकशास्त्रज्ञः स्वान्ते पेबो इत्याख्याय अस्य संवत्सरस्य वैद्यशास्त्रनोबलपुरस्कारः लभते। 

  कुलनाशं गतानां जीविवर्गाणां जनितकरेखां पुनर्निर्मीय विशकलनं क्रियमाणायाः  'पालियोजिनोमिक्स्' इत्याख्यायाः शास्त्रशाखायाः उपज्ञातृषु प्रमुखः भवति पेबोवर्यः।

अमेरिक्कस्य ऐतिहासिकोपलब्धिः। वैद्युतेः साहाय्येन प्रवर्तमानं प्रथमं विमानम् आकाशोड्डयनम् कृतम्।

वाषिङ्टण्> विश्वस्मिन् इदंप्रथमतया वैद्युतेः साहाय्येन प्रवर्तमानं  अमेरिक्केन निर्मितं विमानं प्रथमं आकाशे उड्डयनं कृतम्। अमेरिक्कस्य ऐतिहासिकोपलब्धिः भवति एषः। आलीस् इति नामधेयं प्रथमं सम्पूणवैद्युतयात्रिकाविमानं वाषिङ्टण् ग्रान्ट् कौण्टि अन्ताराष्ट्रिय-विमानपत्तनात् सप्तंबर्२९ तमे दिने प्रातःकाले सप्तवादने आकाशे उड्डयनं कृतम्। नव यात्रिकाः द्वौ वैमानिकौ इति क्रमेण यात्रां कर्तुं विमाने सुविधा सज्जीकृता अस्ति। अष्ट निमेषं निरीक्षणोड्डयनानन्तरं विमानं सुरक्षितरीत्या भूस्पर्शमकरोत्। आकाशोड्डयनसन्दर्भे इन्धनबहिर्गमनेन जायमानं अन्तरिक्षमलिनीकरणं परित्यज्य भाविनि संशुद्धान्तरिक्षसृजनमेव वैद्युतविमानस्य लक्ष्यम्।

Monday, October 3, 2022

 गान्धिस्मरणायां भारतम्। 

नवदिल्ली> भारतस्य राष्ट्रपितुः महात्मागान्धिनः १३४ तमं जन्मदिनं आभारतं विविधैः कार्यक्रमैः आघुष्टम्। गान्धिवर्यस्य समाधिस्थाने राजघट्टे राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः पुष्पार्चनां कृत्वा गान्धिदर्शनस्य महत्वं प्रसक्तिं च संस्तुतवन्तः। 

   राष्ट्रियशुचित्वदिनरूपेण आचर्यमाणेSस्मिन् दिने बहूनां राजनैतिक-छात्र-कर्मकर-सन्नद्धसेवासंघटनानां नेतृत्वे तत्तत्प्रादेशिकेषु सामान्यस्थानेषु शुचीकरणप्रवर्तनानि आयोजितानि। विविधराज्येषु उन्मादकवसुतुविरुद्धाः अवबोधनकार्यक्रमाश्च आयोजिताः।

 इन्डोनेष्यायां पादकन्दुकक्रीडाङ्कणे संघर्षः - १२५ मरणानि। 

मलाङ् [इन्डोनेष्या]> इन्डोनेष्यायां कञ्चुरुहान् क्रीडाक्षेत्रे पादकन्दुकक्रीडायाः अन्ते आराधकानां मध्ये जाते संघर्षे जनसम्मर्दे च १२५ जनाः मृत्युवशं गताः। क्रीडास्पर्धायाः अन्ते आराधकेषु क्रीडाङ्कणमतिक्रामितेषु आरक्षकैः अश्रुजनकास्त्रं प्रयुक्तम्। एतदासीत् दुरन्तकारणम्। मतेषु बालकाः अपि अन्तर्भवन्ति। 

  शनिवासरनिशाया‌ः अन्तिमयामे आसीत् दुर्घटना। अरीमा एफ् सि क्लब् नामकस्य क्रीडादलस्य गृहाङ्कणं भवति कुञ्चुरुहान् क्रीडाङ्कणम्। शनिवासरे 'पेर्सिबाय सुरबाय' नामकं दलं विरुद्ध्य सम्पन्ने प्रतिद्वन्द्वे अरीमादलं ३ - २ इति क्रमेण पराजितमभवत्।पेर्सिबायं प्रति गृृहाङ्कणे २३ संवत्सराभ्यन्तरे अरीमायाः प्रथमः पराजयः आसीदयम्। पराजयमसहमानाः आराधकाः क्रीडाङ्कणमतिक्रामितवन्तः अक्रमासक्ताः अभवन् च। तान् निरोद्धुं आरक्षकदलेन बलप्रयोगः कृतः।

 सार्धहोरापर्यन्तम् अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च।

महाराष्ट्रस्य कस्मिंश्चन ग्रामे सार्धहोरापर्यन्तं अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च कुर्वन्ति। 

  अस्मिन् काले शिशवः अपि दूरवाण्यां समयः यापयन्ति। दूरवणीं वा दूरदर्शनं विना क्षणकालमपि उपवेष्टुं न शक्यते। किन्तु इदानीं महाराष्ट्रे सांग्लि जिल्लायां माहत्यांचेवट ग्रामे भवति सार्धहोरा पर्यन्तम् अन्तर्जाल दूरवाण्योः परित्यागः। ग्रामे प्रतिदिनं सप्तवादने 'सयरण्' ध्वनिः भविष्यति। जनानां दूरवाणी दूरदर्शनादयः कीलनाय निर्देशः भवति अयम्। ग्रामणिः  विजयमोहिते भवति अस्य आशयस्य उपज्ञाता।  जनाः सामोदं निर्देशं पालयन्ति। 

कोरोणाकाले छात्राः दूरवाण्याः अधिकोपयोगेन दूरवाण्याश्रिताः अभवन्। अत एव भवति नूतनरीत्या इयं योजना समारब्धा। अनया छात्रान् वाचने लेखने च प्रभावितान् कर्तुं शक्यते इति अधिकारिणः वदन्ति।