गर्वेण अपहृतम् हीरकं प्रत्यर्पयतु; एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं दक्षिण आफ्रिकादेशस्य जनाः ब्रिटेनदेशेन कृतानां सर्वेषां हानिनां क्षतिपूर्तिं याचन्ते स्म।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Tuesday, September 20, 2022
Monday, September 19, 2022
एलिसबत् राज्ञ्याः अन्त्येष्टिक्रियाः अद्य ।
भारतात् राष्ट्रपतिः लण्टनं प्राप्नोत्।
लण्टन्> दशदिनात्मकस्य दुःखाचरणस्य अनन्तरं दिवंगतायाः एलिसबत् राज्ञ्याः भौतिकशरीरम् अद्य लण्टनस्थे 'वेस्ट् मिन्स्टर् आबी' नामकस्थाने मृद्विलयं प्राप्नोति। प्रभाते ११ इति प्रादेशिकसमये [भारतस्य अपराह्ने ३. ३०] परम्परागतरीतिमनुसृत्य अन्त्येष्टिक्रियाः आरप्स्यन्ते। ब्रिट्टनस्य राजपरिवाराङ्गाः ५०० लोकनेतारश्चाभिव्याप्य उपद्विसहस्रं जनाः कार्यक्रमेSस्मिन् भागभाजः भविष्यन्ति।
कार्यक्रमे भागं गृहीतुं भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू महाभागा ह्यः लण्टनं प्राप्तवती। लङ्गास्टर् हौस् इत्यत्र स्थापिते अनुशोचग्रन्थे हस्ताक्षरं कृतवती। अनन्तरं वेस्ट् मिन्स्टर् आबीं प्राप्य राज्ञ्यै श्रद्धाञ्जलिं समर्पितवती।
लण्टनस्थे विन्स्टर् राजमन्दिरस्थे जोर्ज् षष्ठस्मारके देवालये भवति तस्याः अन्त्यविश्रान्तिस्थानम्।
Sunday, September 18, 2022
चित्रकैः मानवैः मिथः संघर्षः भवेत् इति निर्णयः। दिवा नक्तं च पूर्णनिरीक्षणम्।
शिशुनां सैन्दर्यसंरक्षकसुवासकानां मानकः नास्ति ।
जोण्सण् आन्ट् जोण्सणस्य सुवासकनिर्माणानुज्ञा विनष्टा।
जोण्सण् आन्ट् जोण्सणस्य महाराष्ट्र राज्ये विद्यमानस्य सुवासकनिर्माणासंस्थयाः अनुज्ञा विनष्टा अभवत्। शिशूनां सुवासकानां निर्दिष्ट मानकः नास्ति इति महाराष्ट्रस्य फुड् अन्ट् ड्रग्स् अड्मिनिस्ट्रेषन् द्वारा एव अनुज्ञा निवृत्ता।
एषः युद्धाय कालः नास्तीति पुतिनं प्रति मोदी।
समर्खण्डः> एषः युद्धाय अनुयुक्तः कालः नास्तीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रष्यायाः राष्ट्रपतिनं व्लादिमर् पुतिनं समस्मारयत्। गतदिने उस्बक्किस्थानस्य समर्खण्डे सम्पन्ने एस् सि ओ संघटनस्य उच्चशिबिरे आसीत् उभयोरपि राष्ट्रनेत्रोः सम्मुखोपवेशनम्। शान्तेः मार्गः एव अस्मिन् काले स्वीकरणीय इति मोदिवर्यः स्मारितवान्।
युक्रैने रूसस्य अधिनिवेशाक्रमणानन्तरं प्रथमतया एव पुतिन-मोदी अभिमुखचर्चा सम्पन्ना।
Saturday, September 17, 2022
रोजर् फेरडरः निवर्तते।
> विश्वविख्यातः टेन्निस् क्रीडकः रोजर् फेडररः क्रीडायाः निवर्तते। आगामिनि सप्ताहे सम्पत्स्यमाना 'लेवर् चषक' स्पर्धा स्वस्य अन्तिमा क्रीडा भविष्यतीति तेन निगदितम्। ग्रान्ड्स्लाम् क्रीडायामपि सः परं न क्रीडिष्यति।
४१ वयस्कः रोजर् फेडररः १९९८ संवत्सरादारभ्य इतःपर्यन्तं १०३ किरीटानि प्राप्तवान्। आस्त्रेलियन् ओपण्, फ्रञ्च् ओपण्, विम्बिण्डण्, यु एस् ओपण् एतानि समेत्य २० ग्रान्डस्लामकिरीटानि च तेन प्राप्तानि। तस्य क्रीडामण्डले तस्मिन् १२५१ स्पर्धासु विजयं प्राप्तासु केवलं २७५ क्रीडासु पराजयमनुभूतवान्।
स्विट्सर्लान्ट् देशीयः फेडररः जनप्रियः क्रीडकः इति प्रथां प्राप्य एव क्रीडाङ्कणात् विरमति।
Friday, September 16, 2022
यूबर् जालके सुरक्षाच्युतिः। जालकृतिः भञ्जिता इति दृढीकृता।
सान्फ्रान्सिस्को> यूबर् जालकृतिः भञ्जिता इति दृढीकृता। सैबर् सुरक्षासमस्याः अभिमुखीक्रियन्ते। विषयेऽस्मिन् अन्वेषणं प्रचलति इति यूबर् इत्यनेन ट्वीट्ट् कृतम्। यूबर् विधानेषु पूर्णप्रवेशः नियन्त्रणं च भञ्जकेन स्वायत्तीकृतमिति यूबर् अभियन्तृणा आवेदितम्।
नरेन्द्रमोदी उस्बस्किस्थाने।
नवदिल्ली> षाङ्हाय् सहयोगसंघटनस्य २२तमे उच्चसम्मेलने भागं गृहीतुं प्रधानमन्त्री नरेन्द्रमोदी उस्बस्किस्थानं प्राप्तवान्।तत्रस्थे समर्खण्डे सम्पद्यमाने सम्मेलने चीनः,रष्या, इरानः इत्येतेषां राष्ट्रपतयः पाकिस्थानस्य प्रधानमन्त्री च भागं कुर्वन्ति।
चीन-रष्ययोः राष्ट्रपतिभ्यां सह नरेन्द्रमोदी पृथक् पृथक् चर्चां करिष्यतीति विदेशकार्यमन्त्रालयेन निगदितम्।
पूर्वोक्तानि राष्ट्राणि समेत्य ताजिकिस्थानं, उस्बकिस्थानम् इत्यादिनि १५ राष्ट्राणि एस् सि ओ नामके अस्मिन् सहयोगसंघटने सन्ति।
Thursday, September 15, 2022
गुजरातसमुद्रे उन्मादकवस्तुभिः सह पाकिस्थानीयाः ग्रहीताः।
अहम्मदाबादः> २०० कोटिरूप्यकाणां मूल्यपरिमितैः ४० किलोपरिमितैः उन्मादकवस्तुभिः सहितमेकं पाकिस्थानीयं जलयानं भारतीयतटरक्षासेनया गुजरातीयारक्षकविभागस्य आतङ्कवादविरुद्धविभागेन च सह निगृहीतम्। तत्रस्थाः षट् पाकिस्थाननागरिकाः च निगृहीताः।
कच्चिल् जक्कावु महानौकापत्तनस्य समीपं भारतसमुद्रसीमायाः ६ कि मी अन्तराले आसीत् पाकिस्थानस्य नौका निगृहीता। पञ्चाबे कारागारबद्धः कश्चन विदेशीयः एवास्य कुकर्मणः सूत्रधार इति ए टि एस् अधिकारिभिः उक्तम्।
कोविडस्य नूतनविभेदः अमेरिक्कादेशे ब्रिट्टणे च प्रसरति ।
लण्डन्> कोविडस्य नूतनविभेदः अमेरिक्कादेशे बिट्टणे च प्रसरति इति प्रतिवेदनम्। कोविडस्य ओमिक्रोण् विभेदस्य उपविभेदः बि.ए.४.६ एव अधिकतया प्रसरति। ब्रिट्टणे आगस्त१४ दिनाङ्कादारभ्य लब्धासु गणनासु बि ए ४.६ विभेदस्य व्यापनं ३.३% प्रतिदर्शेषु संदृष्टः। सि डि सि पि इत्यस्य गणनानुसारं अमेरिक्कासु नूतनोपभेदस्य व्यापनं ९% भवति। विश्वस्मिन् अन्येषु राष्ट्रेषु अपि एषः विभेदः संदृष्टः इति प्रतिवेदनमस्ति।