OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, September 8, 2022

 केरलेषु श्रावणोत्सवलहरी। 

कोच्ची> निप्पा-प्रलय-कोविड्महासङ्कटानामन्ते त्रिचतुरवर्षाणामनन्तरं केरलीयाः सर्वे स्वकीयदेशीयोत्सवलहर्याम् आमग्नाः वर्तन्ते। तीव्रवृष्टेः आशङ्कामतिजीव्य केरलीयाः ऐकमत्यस्य साहोदर्यस्य सौहार्दस्य समत्वस्य च उत्सवम् आघोषयन्ति। 

  "माबलिशासनकाले देशे मानवास्सर्वे समाना एव" इति प्रथां स्मरन्तः केरलीयाः प्रतिवर्षं श्रावणमासे श्रावणनक्षत्रे इममुत्सवं समाघोषयन्ति। महाबलिः प्रतिवर्षम् अस्मिन् दिने स्वप्रजाः द्रष्टुं केरलानागच्छतीति ऐतिह्यमस्ति। 

  सप्ताहपर्यन्तमनुवर्तमानाः उत्सवकार्यक्रमाः मुख्यमन्त्रिणा पिणरायि विजयेन रविवासरे उद्घाटिताः। राष्ट्रपतिः, प्रधानमन्त्री, राज्यपालः इत्यादयः सर्वेभ्यः केरलीयेभ्यः 'ओणाशंसान्' प्रकाशितवन्तः।

भारते जनाः अधिकतया अन्टिबयोटिक् गिलन्ति।

   कोरोणा-कालानन्तरं पूर्वं च जनाः आवश्यं विनापि अन्टिबयोटिक् औषधानि उपयुज्यन्ते इत्यस्ति सर्वेषणम्। असित्रोमैसिन् इति औषधमेव अनेन प्रकारेण अधिकतया उपयुज्यन्ते। औषधायोगस्य अङ्गीकारमि एतादृशानाम् औषधानां नास्ति। लन्सेन्ट् इति औषधविज्ञानीयपत्रिकायां प्रकाशितमस्ति इदं विवरणम्।

Wednesday, September 7, 2022

 भारत-बङ्गलादेशराष्ट्राभ्यां सप्त सन्धयः हस्ताक्षरिताः। 

नवदिल्ली> उभयोः राष्ट्रयोः वाणिज्य-व्यापारव्यवहारवर्धनाय समग्रार्थिकसहयोगं दृढीकर्तुं अचिरेणैव चर्चां कर्तुं भारत-बङ्गलादेशराष्ट्राभ्यां निर्णयः कृतः। तस्य भूमिकारूपेण सप्त सन्धयः राष्ट्रद्वयेन हस्ताक्षरिताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी  बङ्गलादेशस्य प्रधानमन्त्री शैख् हसीना इत्येतयोर्मध्ये गतदिने सम्पन्ने उपवेशने आसीदयं निर्णयः। 

  भारतस्य आर्थिकसाह्येन बङ्गलादेशे निर्मितस्य रुष्प रेल्मार्गसेतुोः, राम्पाल् तापोर्जनिलयस्य च उद्घाटनमपि सम्पन्नम्।

Tuesday, September 6, 2022

 दिल्ल्यां गंगाराममार्गस्थेन बालभारती पब्लिक स्कूल् इत्यनेन हर्षोल्लासेन मानित: शिक्षकदिवस:

वार्ताप्रेषक: युवराज: भट्टराई

(समवाप्त साहित्याकादेमीयुवपुरस्कार:)

नवदिल्ली> करोलबागमध्ये सर-गंगाराम चिकित्सालयमार्गस्थिते प्रतिष्ठिते शैक्षणिकसंस्थाने बालभारती पब्लिकस्कूल इत्याख्ये विद्यालये शिक्षक-दिवस समारोह: नितान्तमेव हर्षोल्लासेन परिपालित:।   विद्यालयस्य विशाल-सभागारे आयोजितस्य शिक्षकदिवस-कार्यक्रमस्य अवसरे विद्यालयस्य प्री प्राइमरी कक्षात: उच्चमाध्यमिक-कक्षा-पर्यन्तं अध्यापननिरताः सर्वे शिक्षका: सर्वा: शिक्षिकाश्च प्रतिभागितां कृतवन्तः। शिक्षक-दिवस-समारोह-कार्यक्रमस्य आरम्भ: प्रधानाचार्योपप्रधानाचार्यसहितै: समस्त-शिक्षकाभिभावक-संघस्य सदस्यैः दीप-प्रज्वालन-पूर्वकं कृतम्। तदनु पूर्व राष्ट्रपते: डा० सर्वपल्ली राधाकृष्णन् वर्यस्य चित्रे पुष्पार्पणमपि विहितम्। एतस्मिन् अवसरे सर्वै: शिक्षकै: पूर्वराष्ट्रपते: डा० सर्वपल्ली राधाकृष्णन् वर्यस्य स्वप्नानां साकारीकरणस्य दृढसंकल्प: कृत:।
तस्य अनुक्षणमेव विद्यालयस्य एव संस्कृत-विभाग-द्वारा प्रकाशिताया: अभिनव-पत्रिकाया: संस्कृतसौगन्धिका इत्यस्याः लोकार्पणं माननीयस्य

ओमिक्रोण् प्रतिरोधक्षमता रक्षाकवचं भविष्यति। इतः परं पुनः तरङ्गसाध्यता नास्ति इति वैज्ञानिकाः।

नवदिल्ली> राष्ट्रे कोविड्व्यापनं गण्यतया आकुञ्चति। अतः अपरतरङ्गसाध्यता नास्ति इति स्थास्थ्यविशारदाः अभिप्रयन्ति। जनसंख्यायाः प्रतिशतं अधिकजनाः कोविडस्य तृतीयतरङ्गे ओमिक्रोण् बाधिताः सन्तः रोगमुक्तिं प्रापुः। रोगबाधया आर्जिता प्रतिरोधक्षमता तेषां रक्षाकवचं भविष्यति। नातिगुरुतराः त्रिशताधिकाः ओमिक्रोण् विभेदाः भारते दृश्यन्ते। १८-५९ वयस्केषु  ८८% जनाः प्रतिरोधवाक्सिनस्य अनुमोदकमात्रा न स्वीकृताः तथापि एतत् कोविड्व्यापनस्य कारणं न भविष्यति। नूतनप्रभेदान् संद्रष्टुं जाग्रता, परिशोधना, निरीक्षणं च दृढं करणीयमिति एन् टि ए जि ऐ मेधावी डो. एन् के अरोरया प्रोक्तम्।

भारतबयोटेक् इत्यस्य नासिका-वाक्सिनाय अनुज्ञा लब्धा।

नवदिल्ली> भारतबयोटेक् इत्यस्य नासिकाद्वारा दीयमानाय वाक्सिनाय  अनुज्ञा लब्धा। सेन्ट्रल् ड्रग् स्टान्टेर्ड् और्गनैसेषन् (CDSCO) इत्यतः एव अनुमतिः लब्धा। मात्राद्वयस्य कोविषील्ड् वा कोवाक्सिन् वा स्वीकृतेभ्यः १८ अष्टादशोपरि वयस्केभ्यः एतत् नासिकाद्वारा दीयमानं वाक्सिनं लभते। ४००० जनेभ्यः वाक्सिनं दत्वा कृतं परीक्षणं विजयं आसीत्। परीक्षितेभ्यः एकस्यापि विपरीतफलानि न उद्पादितानि। अत एव  अधुना अनुज्ञा लब्धा।

 केरले लक्षद्वीपे च तीव्रवृष्टिसाध्यता। 

अनन्तपुरी> केरले लक्षद्वीपे च गुरुवासरपर्यन्तम् अतितीव्रवृष्टेः साध्यता वर्तते इति केन्द्रपर्यावरणविभागेन निगदितम्। अद्य तिरुवनंतपुरं, कोल्लं, पत्तनंतिट्टा, इटुक्की जनपदेभ्यः रक्तजागरणनिर्देशः दत्तः। अन्येषु जनपदेषु 'ओरञ्च्' जागरणनिर्देशः विहितः। लक्षद्वीपे च घोरवातेन सह तीव्रवृष्टिर्भविष्यति। अतः तत्र मत्स्यबन्धनादिकं सामुद्रिकयत्नं निरुद्धम्। 

  केरलेषु अद्य  श्रावणिकोत्सवः समारभ्यते इत्यतः विविधोद्योगमण्डलेषु व्यापरन्तः जनाः केरलीयाश्च आशङ्काकुलाः वर्तन्ते।

 उद्योगप्रमुखः सैरस् मिस्त्री कार् यानदुर्घनया मृतः। 

मुम्बई> टाटा सण्स् नामकोद्योगसंस्थायाः भूतपूर्वाध्यक्षः सैरस् मिस्त्री मुम्बय्याः समीपे पाल्घरजनपदस्थे चरोट्टीनाकस्थाने दुरापन्नया कार् यानदुर्घनया मृतः। मिस्त्री तस्य परिवारमित्राणि च  कार् यानेन अहम्मदाबादतः मुम्बयीं सञ्चरन्तः आसन्। मुम्बयीतः १३५ कि मी दूरे सूर्यनद्याः सेतुमध्ये विद्यमाने  विभजके घट्टनं कृत्वा एव दुर्घटना जातेति आरक्षकाधिकारिभिः उक्तम्। सहयात्रिकेषु जहांगीर् बिन्षा पन्डोल् नामकः अपि दुर्घटनास्थाने एव मृतः। अन्ये सर्वे मुम्बयीस्थं रिलयन्स् आतुरालयं प्रवेशिताः। 

  दुर्घटनामधिकृत्य विशदमन्वेषणं कर्तुं महाराष्ट्रस्य उपमुख्यमन्त्री तथा च गृहमन्त्री देवेन्द्र फट्नाविसेन आदिष्टम्। मिस्त्रीमहोदयस्य आकस्मिकनिर्याणे प्रधानमन्त्री नरेन्द्रमोदी, राहुलगान्धी, विविधाः नेतारः इत्यादयः अनुशोचितवन्तः।

 ब्रिट्टने लिस् ट्रस् प्रधानमन्त्री भविष्यति। 


लण्टन्> ब्रिट्टने इदानींतनविदेशकार्यमन्त्री लिस्ट्रस् महाभागा प्रधानमन्त्री भविष्यति। 'कणसर्वेटीव् पार्टी' इति राजनैतिकदलस्य नेतृस्थानाय निर्वाचने लिस् ट्रस् विजयं प्राप्तवती इति हेतोः एव अस्याः प्रधानमन्त्रिपदप्राप्तिः। भारतवंशजः भूतपूर्वः वित्तमन्त्री ऋषि सुनकः अनया पराजितः। 

  मार्गरट् ताच्चरः, तेरेसा मे इत्यनयोः अनन्तरं प्रधानमन्त्रिपदं प्राप्नुवन्ती महिला भवति लिस् ट्रस्। अद्य स्कोट्लान्टे सम्पद्यमाने कार्यक्रमे सा पदं स्वीकरिष्यति।

Monday, September 5, 2022

 युक्रैन् संघर्षे कोविड् संक्रमणवेलायां च भारतेन अत्यधिकं साहाय्यं दत्तम्। मोदिनं प्रशंस्य शैख् हसीना।

धाक्का> रष्या-युक्रैनयोः च मिथः जातायां संघर्षवेलायां पूर्वयूरोप्पे स्थगितान् बङ्गलादेशीयान् विद्यार्थिनः स्वदेशं प्रति प्रत्यानेतुं नेतृत्वं दत्तवान् भारतस्य प्रधानमन्त्री  नरेन्द्रमोदी बड्लादेशस्य प्रधानमन्त्रिण्या शैख् हसीनया प्रशंसिता। सर्वत्र कोविडस्य अतिशीघ्रव्यापनवेलायां 'वाक्सिन् मैत्री' नाम परियोजनया कोविड् प्रतिरोधवाक्सिनं दातुं मोदिना प्रकाशिताय सौमनस्याय च शैख् हसीना मोदिनं प्रशशंस।