OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 4, 2022

अतिशीघ्रं परिवर्तनं व्यापनं च। नूतनाः कोविड् विभेदाः पुनः भवेयुः - इ एम् ए।


दि हेय्ग्> कोविडस्य नूतनविभेदाः पुनः भवेयुः इति यूरोप्यन् मेडिसिन्स् एजन्सि इत्यनेन पूर्वसूचना प्रदत्ता। अतिशीघ्रं कोविड् विभेदानां परिवर्तनम् अनुवर्तते इति इ एम्. ए इत्यनेन स्पष्टीकृतम्। गणनानुसारं यूरोप्पे ओमिक्रोण् बि ५ विभेदः प्रसरन् अस्ति। नूतनतरङ्गस्य स्वभावः साहचर्यं च अभिमुखीकर्तुं सज्यते इति इ एम् ए अङ्गेन मार्को कावल्रिना उक्तम्। किन्तु नूतनप्रभेदान् अधिकृत्य वक्तुं श्रमकरं भवति इत्यपि तेन निगदितम्।

Saturday, September 3, 2022

भारतीयसमुद्रसीमायै अद्य प्रभृति विक्रान्त् सुरक्षा।


भारतेन स्वकीयेन निर्मिता विमानवाहिनी महानौका विक्रान्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। समुद्रसुरक्षार्थं भारतस्य उत्तरं, अभिमानः च भवति विक्रान्तः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। ३३३ नीलतिमिङ्गलानां तुल्यः आकारः च अस्ति विक्रान्तस्य। ४४,५०० टण् भारः, २६२ मीट्टर् आयतिः,६३ मीट्टर् विस्तृतिः.५९ मीट्टर् उन्नतिः च अस्ति । पादकन्दुक-क्रीडाङ्कणद्वयतुल्या विस्तृतिः अपि अस्ति। १६०० अधिकसैनिकान् वोढुं पर्याप्ता भवति एषा विमानवाहिनी महानौका। २० युद्धविमानानि १० उदग्रयानानि च युगपत् संरक्षितुं शक्यते।

Friday, September 2, 2022

अतिशक्तः चक्रवातः भविष्यति। वेगः होरायां ३१४ कि.मी


डोक्कियो> विश्वस्मिन् संवत्सरीये अतितीव्रः चक्रवातः पूर्वचीनासमुद्रे प्रबलः भविष्यति इति प्रतिवेदनम्। एषः चक्रवातः जाप्पानः फिलिप्पीन्स् चीना राष्ट्रान् बाधिष्यते इति प्रतिवेदनं बहिरागच्छति। १५ किं मि. उपरि समुद्रतरङ्गस्य दुष्प्रभावः भविष्यति इति पूर्वसूचना अस्ति। हिन्ननोर् इति ख्यातस्य चक्रवातस्य होरायां २५७ कि मि. आरभ्य ३१४ कि.मि. पर्यन्तं शीघ्रताम् आर्जयितुं शक्तः भवति इति सूचना अस्ति। अमेरिक्कायाः चक्रवातसूचना-विभागेन तथा जापानस्य वातावरणनिरीक्षणविभागेन च संयुक्ततया एव पूर्वसूचना प्रदत्ता।

Thursday, September 1, 2022

 मिखायेल् गर्बच्चोवः यशःशरीरोSभवत्। 

मोस्को> विंशशतकस्य चरित्रगतेः परिवर्तनं कृतवान्, तृतीयविश्वमहायुद्धस्य अग्रात् लोकं रक्षितवान् , सोवियट् राष्ट्रसमूहस्य अन्तिमः राष्ट्रपतिः मिखायेल् गर्बच्चोवः दिवं गतः। मोस्कोस्थेन 'सेन्ट्रल् क्लिनिक्कल्' आतुरालयेन वृत्तान्तमिदं गतदिने निगदितम्। 

  सोवियट् यूणियन् इति राष्ट्रस्य समग्रप्रगत्यर्थं गर्बच्चोवेण आविष्कृतं 'ग्लास्नोस्ट्' [विशालमनः],  पेरिस्ट्रोयिक्का' [पुनर्निर्माणं] इति कृतनामधेयं परिष्करणद्वयं विधिवैपरीत्येन पराजयमभवत्। प्रबलराष्ट्रेषु अनुवर्तिताभ्यः  आणवस्पर्धाभ्यः गर्बच्चोवस्य प्रतिनिवर्तनं पाश्चात्यराष्ट्रैः सह शीतयुद्धस्य विरामकारणमभवत्। तेन  प्रक्रमेण सः १९९० तमस्य शान्तिनोबल् सम्मानार्हः जातः।

 प्रधानमन्त्री अद्य कोच्चीं सम्प्राप्नोति। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी अद्य सायं चतुर्वादने कोच्चीं सम्प्राप्नोति।   भारतेन स्वकीयतया निर्मिता प्रथमा विमानवाहिनियुद्धमहानौका 'विक्रान्तः' इत्यस्य राष्ट्रसमर्पणं प्रधानमन्त्रिणा करिष्यति। श्वः कोच्ची महानौकानिर्माणशालायामेव कार्यक्रमः सम्पत्स्यते। 

  अद्य कोच्ची अन्ताराष्ट्रविमाननिलये अवतीर्यमाणः प्रधानमन्त्री सायं कालट्यां आदिशङ्करजन्मभूमिमन्दिरं सन्द्रक्ष्यति। पेट्टा - तृप्पूणित्तुरा मेट्रो रेल् सेवायाः समुद्घाटनं, एरणाकुलं जेङ्शन्,  एरणाकुलं टौण्, कोल्लम् इत्येतेषां रेल् निस्थानकेन्द्राणां नवीकरणस्य निर्माणोद्घाटनं च प्रधानमन्त्रिणः अद्यतनकार्यक्रमेषु अन्तर्भवन्ति।

Wednesday, August 31, 2022

 केरले अतिवृष्टिदुष्प्रभावः - भूस्खलनेन पञ्च जनाः मृताः।

इटुक्की> केरलस्य पर्वतसमीपजनपदेषु अतिवृष्टिः अनुवर्तते। वयनाट्, पालक्काट्, कोष़िक्कोट्, पत्तनंतिट्टा, इटुक्की इत्यादिषु जनपदेषु वृष्टिदुष्प्रभावः तीव्रः जातः। 

  इटुक्किजनपदे तोटुपुष़ासमीपे कुटयत्तूरुग्रामे सोमवासरस्य प्रत्युषसि दुरापन्ने भूस्खलने एकस्मिन्नेव परिवारे पञ्च जनाः अपमृत्युमुपगताः। संगमं नामकचत्वरस्य समीपं पन्तप्पिलाव् चिट्टटिच्चालिल् भवने सोमः [५३] ,तस्य माता , पत्नी, पुत्री, पञ्चवयस्कः  पौत्रः इत्येते मृदन्तर्धानेन प्राणविनष्टाः जाताः। 

  बहुषु स्थानेषु शीघ्रवृष्टिरेव आकस्मिकजलोपप्लवस्य भूस्खलनस्य कारणमिति पर्यावरणविचक्षणैः कथितम्।

Monday, August 29, 2022

 २०-२० क्रिक्कट् क्रीडा - भारतं विजितम्।

दुबाय्> एष्या चषक २०-२० क्रिक्कट् स्पर्धायाः द्वितीये प्रतिद्वन्द्वे पाकिस्थानस्य उपरि भारतस्य विजयः। पञ्च द्वारकैः भारतं विजयं प्राप्तवत्। पाकिस्थानेन उन्नीतः १४८ धावनाङ्कानां विजयलक्ष्यं ५ द्वारकाणां विनष्टेन भारतेन प्राप्तम्।

  अन्तिमे क्षेपचक्रे विजयाय ७ धावनाङ्काः अपेक्षिताः। किन्तु मुहम्मद नवासेन क्षिप्ते क्षेपचक्रे प्रथमक्षेपणेन जडेजः बहिर्भूतः। द्वितीयेन एकः धावनाङ्कः। तृतीयक्षेपः धावनाङ्करहितः आसीत्। क्षेपणत्रये अवशिष्टे भारताय ६ धावनाङ्काः आवश्यकाः। अनन्तरक्षेपं ताडकः हार्दिक पाण्ड्यः षड्काय डायितवान्। भारतस्य उज्वलविजयः।

Sunday, August 28, 2022

वातावरणव्यत्ययेन महादुरन्तः भारतेन अभिमुखीक्रियते। 

उष्णमण्डले विद्यमानं भारतम् अन्ये राष्ट्राणि च प्रति संवत्सरं चत्वारिवासरं यावत् उष्णतरङ्गो मग्नं भविष्यति। वातावरणे क्लिष्टता स्यात् चेत् भूमेः भूरिप्रदेशेषु उष्ण तरङ्गः व्याप्स्यते इति कम्युनिक्केशन् आन्ट् एर्त् पत्रिकायां  प्रकाशितम्। आगामि शताब्दस्य मध्ये भूमेः मध्य-अक्षांशप्रदेशे उष्णः ३९.४° डिग्रि सेल्स्यस् अथवा इतोऽपि अधिकः भविष्यति। २० आरभ्य ५० वारम् एवम् उष्णसम्मर्दः भविष्यति। हार्वार्ड् विश्वविद्यालयस्य वातावरण विभागस्य वैज्ञानिकाः एव विषयेस्मिन् अनुसन्धानं कृतवन्तः।

 यू यू ललितः शपथवाचनमकरोत्। 

 


नवदिल्ली> भारतस्य ४९तमः मुख्यन्यायाधिपरूपेण न्याय. यू यू ललितः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। ईश्वरनाम्नि एव ललितः सत्यशपथं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः जगदीपधन्करः, निवृत्तः मुख्यन्यायाधिपः एन् वि रमणः, भूतपूर्वः राष्ट्रपतिः रामनाथकोविन्दः, भूतपूर्वः उपराष्ट्रपतिः वेङ्कय्या नायिडुः इत्यादयः सन्निहिताः आसन्। 

  न्याय. ललितः केवलं ७४ दिनान्येव मुख्यन्यायाधिपपदे अनुवर्तिष्यते। नवम्बर् अष्टमदिनाङ्के सः निवर्तिष्यते।

 'एष्या चषक' २०- २० क्रिकेट स्पर्धाः आरब्धाः - अद्य भारत पाकिस्थानप्रतिद्वन्द्वः।

दुबाय्> एष्याकप् नामक २०-२० क्रिक्कट्क्रीडास्पर्धापरम्परा ह्यः दुबायनगरे समारब्धा। अफ्गानिस्थान-श्रीलङ्कयोः  प्रथमे प्रतिद्वन्द्वे अफ्गानिस्थानं विजयं प्राप्तवत्। श्रीलङ्का अष्ट द्वारकैः पराजिता। लब्धसंख्या - श्रीलङ्का १९. ४क्षेपणचक्रैः १०५ धावनाङ्कैः सह बहिर्नीता। अफ्गानिस्थानं तु १०. १ क्षेपणचक्रैः द्वारकद्वयेन १०६ धावनाङ्कान् प्राप्तवत्। 

  परम्परायाः द्वितीये प्रतिद्वन्द्वे अद्य भारत-पाकिस्थानयोः प्रतिद्वन्द्वः सम्पत्स्यति। गतवर्षे २०-२० विश्वचषकस्पर्धायां भारतं पाकिस्थानेन पराजितमासीत्। ततःपरं प्रथमतया एव अनयोः दलयोः अभिमुखस्पर्धा सम्पद्यते। भारतस्य नायकः रोहितशर्मा तथा पाकिस्थानस्य नायकः बाबर् असमः च भवतः।