संगणकलिपिः पराजयिष्यते। विश्वहस्तलेखनस्पर्धायाम् आन्मरिया प्रथमस्थानं प्राप्तवती।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Tuesday, August 23, 2022
Sunday, August 21, 2022
उत्तरभारते अतिवृष्टिदुष्प्रभावः - ३० मरणानि, बहुत्र विविधानि नाशनष्टानि।
नवदिल्ली> उत्तरभारतस्य ओडीशा,झार्खण्डः, उत्तरखण्डः,उत्तरप्रदेशः, हिमाचलप्रदेशः, इत्यादिषु राज्येषु अतिवृष्टिदुष्प्रभावेण त्रिंशदधिकाः जनाः मृत्युवशं गताः। उपदशजनाः अप्रत्यक्षाः अभवन्निति सूच्यते। हिमाचलप्रदेशे अतिवृष्ट्यनन्तरं सम्भूतेन भूस्खलनेन जलोपप्लवेन च २२ जनाः मृताः। तेषु अष्ट एकपरिवारीयाः भवन्ति। उत्तरखण्डे ओडीशायां च चतुश्शः झार्खण्डे एकश्च मृत्युमुपगताः।
हिमाचले धर्मशालायां चक्कीनद्यां निर्मितः रेल्सेतुः विशीर्णः। जलोपप्लवे विविधाः प्रदेशाः निमग्ना अभवन्। माण्डि, कान्ग्रा, चम्पा जनपदेष्वेव अत्यधिकाः विनाशाः जाताः। विविधराज्येषु राजमार्गान् अभिव्याप्य ७४३ मार्गेषु गमनागमनानि स्थगितानि।
उत्तरखण्डे दह्राडूणस्थे रायपुरे मेघविस्फोटनेन सञ्जातया अतिवृष्ट्या नद्याः कूलङ्कषाः जाताः। सेतवः प्रवाहिताः।
वृष्टिदुष्प्रभावितस्थानेषु रक्षाप्रवर्तनानि समारब्धानि।
Saturday, August 20, 2022
न्यूयोर्के गान्धिप्रतिमा भञ्जिता।
न्यूयोर्क्> न्यूयोर्कनगरस्थे हैन्दवमन्दिरस्य पुरतः स्थापिता महात्मागान्धिनः पूर्णकायप्रतिमा कैश्चित् अज्ञातैः भञ्जिता। 'दक्षिण रिच् मण्ट् हिल्' इत्यस्य पुरतः वर्तमानस्य तुलसिमन्दिरस्य पुरतः आसीदियं प्रतिमा स्थापिता।
प्रादेशिकसमयमनुसृत्य मङ्गलवासरस्य मध्याह्ने सार्धैकवादने आसीदियं घटना प्रवृत्ता। अक्रमिसंघे षट् जनाः आसन्निति स्पष्टीकृतम्। सप्ताहद्वयाभ्यन्तरे द्वितीयवारमेव गान्धिप्रतिमां प्रति आक्रमणं प्रवृत्तम्।
घटनामिमां न्यूयोर्कस्थः भारतीयस्थानपतिः अपालपत्। न्यूयोर्कस्थैः आरक्षकैः अन्वेषणमारब्धम्।
आयुधैः सह नौका संदृष्टा। महाराष्ट्रेषु जाग्रतापालनाय निर्देशः।
मुम्बै> ए के ४७ भुशुण्डिभिः दूरवेधिनीगौलिकाभिः तादृशैः आयुधैः सह रायगड् तीरे नौका संदृष्टा। महाराष्ट्रेषु सर्वत्र रक्षिपुरुषैः जागरूकतानिर्देशः प्रदत्तः। रायगड् जिल्लायां हरिहरेश्वर् तीरे एव नौका संदृष्टा। ए के४७ भुशुण्डयः नौकायाम् आसीत् इति रक्षिपुरुषैः दृढीकृतम्। परन्तु नौकासंबन्धीनि अधिकविवरणानि रक्षिपुरुषैः बहिः न प्रकाशितानि। ओस्ट्रेलियायां निर्मिता नौका एव रक्षिपुरुषैः संगृहीता इति सूचना अस्ति।
Friday, August 19, 2022
काबूलस्थे आराधनालये स्फोटनं - २१ मरणानि।
काबूल्> अफ्गानिस्थाने काबूलस्थे कैर्खानप्रदेशे इस्लामाराधनालये संवृत्तेन बोम्बस्फोटनेन २१ जनाः हताः। बुधवासरे सायाह्ने आसीत् स्फोटकाक्रमणम्। किन्तु इतःपर्यन्तं तस्य उत्तरदायित्वं केनापि न स्वीकृतम्।
प्रमुखः इस्लामिकपण्डितः अमीर् मुहम्मदः अपि हतेषु अन्तर्भवतीति दृढीकृतम्। चत्वारिंशदधिकाः व्रणिताः जाताः। दुर्घटनायामस्यां तालिबानसर्वकारः दुःखं प्राकाशयत्। ये स्फोटनस्य कारणभूताः भवन्ति ते शीघ्रमेव दण्डनीतिमनुसृत्य दण्डनार्हाः भविष्यन्तीति सर्वकारप्रवक्ता साबिहुल्ला मुजाहिद् इत्यनेन निगदितम्।
भारतस्य विप्रतिपत्तिं विगणय्य चीनस्य गुप्तचरनौका श्रीलङ्कायाः तीरं प्राप्ता।
७५० किलो मीट्टर् दूरपरिधौ जायमानानि तरङ्गानि गृहीतुं अनया नौकया शक्यते।
Thursday, August 18, 2022
आङ् सान् स्यूची षड्संवत्सरीयकारागृहवासाय पुनरपि दण्डिता।
बाङ्कोक्क्> म्यान्मारराष्ट्रस्य सार्वलौकिकनेत्री आङ् सान् स्यूची पुनरपि भ्रष्टाचारापराधिता सती कारागृहवासाय दण्डिता। प्रकरणचतुष्टयमारोप्य षड्संवत्सरीयदण्डनमेव विहितम्।
गोप्यरूपेण आसीत् प्रकरणानाम् उपधा संवृत्ता। भ्रष्टाचारः, देशद्रोहमित्याद्यपराधान् प्रकल्प्य पूर्वमेव स्यूची ११ वर्षाणां कारागारदण्डनाय विहिता आसीत्। गतवर्षस्य फेब्रुवरिमासे म्यान्मरे प्रजातन्त्रीयसर्वकारं प्रतिलोमरूपेण तिरस्कृत्य सैनिकशासनं प्रतिष्ठितम्। ततः परं स्यूची बाह्यलोकात् अदृष्टा वर्तमाना भवति।
Wednesday, August 17, 2022
काश्मीरे बस्यानं नदीं पतित्वा ७ सैनिकाः वीरमृत्युं प्राप्ताः।
श्रीनगरं> अमरनाथतीर्थाटनस्य सुरक्षाकार्यं समाप्य प्रतिनिवृत्तेषु सैनिकेषु सप्त भटाः बस् यानदुर्घटनया वीरमृत्युं प्राप्ताः। जम्मुकाश्मीरस्य पहल्गाम प्रदेशे बस् यानं नदीं पतित्वा एव अपमृत्यवः जाताः।
३२ सैनिकाः आहताः वर्तन्ते। तेषु अष्टानामवस्था कठिनतरा भवति। 'इन्डो-टिबटन् सीमा आरक्षकाः' [ऐ टि बी पि] एव दुर्घटनाविधेयाः अभवन्। चन्दनवाटीस्थात् आरक्षककेन्द्रात् कार्यनिर्वहणं समाप्य श्रीनगरं प्रति निवर्तमानाः आसन्।
दुर्घटनायां राष्ट्रपतिः द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीपधन्करः इत्यादयः अनुशोचितवन्तः।
भारतीय-प्रौद्योगिकी-संस्थानम्-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्।
संस्कृतसप्ताहमालक्ष्य भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्। शिबरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती। शिबिरस्य उद्घाटनं डाॅ सोहम चक्रवर्ती वर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत्, श्री नवल किशोर पन्तः, श्री विष्णुदत्तगौड़ महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजी दीक्षितः सरस्वती वन्दनां कृतवान्। आचार्या शालिनीदीक्षित द्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति इति संस्थायाः अध्यक्षेण निगदितम् ।
नवदिल्ल्यां कोविड् प्रकरणानि वर्धन्ते। प्रतिदिनं ८-१० मरणानि प्रतिवेदयन्ति। जाग्रतापालनाय निर्देशः दत्तः।
नवदिल्ली> नवदिल्ल्यां कोविड्रोगबाधितानां तथा रोगबाधया आतुरालये नीतानां च संख्या वर्धिते सन्दर्भेऽस्मिन् मुखनासिकावरणघारणं, कोविडं विरुध्य पूर्वोपायाः च अनवधानतया पालयितुं अधिकारिणः सामान्यजनान् प्रति दृढनिर्देशो दत्तवन्तः। राष्ट्रे कोविड् प्रकरणानि वर्धन्ते, कोविड् भावात्मकतामानस्य आधिक्यःअनुवर्तते इति दिल्ली उप-राज्यपलेन lieutenant Governor) विनय् कुमार् सक्सेनावर्येण ट्वीट् कृतम् ।