OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 20, 2022

 आयुधैः सह नौका संदृष्टा। महाराष्ट्रेषु जाग्रतापालनाय निर्देशः।

मुम्बै> ए के ४७ भुशुण्डिभिः दूरवेधिनीगौलिकाभिः तादृशैः आयुधैः सह रायगड् तीरे नौका संदृष्टा। महाराष्ट्रेषु सर्वत्र रक्षिपुरुषैः जागरूकतानिर्देशः प्रदत्तः। रायगड् जिल्लायां हरिहरेश्वर् तीरे एव नौका संदृष्टा। ए के४७ भुशुण्डयः नौकायाम् आसीत् इति रक्षिपुरुषैः दृढीकृतम्। परन्तु नौकासंबन्धीनि अधिकविवरणानि रक्षिपुरुषैः बहिः न प्रकाशितानि। ओस्ट्रेलियायां निर्मिता नौका एव रक्षिपुरुषैः संगृहीता इति सूचना अस्ति।

Friday, August 19, 2022

 काबूलस्थे आराधनालये स्फोटनं - २१ मरणानि। 

काबूल्> अफ्गानिस्थाने काबूलस्थे कैर्खानप्रदेशे इस्लामाराधनालये संवृत्तेन बोम्बस्फोटनेन २१ जनाः हताः। बुधवासरे सायाह्ने आसीत् स्फोटकाक्रमणम्। किन्तु इतःपर्यन्तं तस्य उत्तरदायित्वं केनापि न स्वीकृतम्।

   प्रमुखः इस्लामिकपण्डितः अमीर् मुहम्मदः अपि हतेषु अन्तर्भवतीति दृढीकृतम्। चत्वारिंशदधिकाः व्रणिताः जाताः। दुर्घटनायामस्यां तालिबानसर्वकारः दुःखं प्राकाशयत्। ये स्फोटनस्य कारणभूताः भवन्ति ते शीघ्रमेव दण्डनीतिमनुसृत्य दण्डनार्हाः भविष्यन्तीति सर्वकारप्रवक्ता साबिहुल्ला मुजाहिद् इत्यनेन निगदितम्।

 भारतस्य विप्रतिपत्तिं विगणय्य चीनस्य गुप्तचरनौका श्रीलङ्कायाः तीरं प्राप्ता।


कोलम्बो> भारतस्य विप्रतिपत्तिं आशङ्कां च विगणय्य चीनस्य "युवान् वाङ् ५" इति गुप्तचरनौका श्रीलङ्कायाः नौकाश्रयं प्राप्ता। अस्य मासस्य २२ दिनाङ्कपर्यन्तं  नैकाश्रये भवितुमर्हति इत्यस्ति प्रतिवेदनम्। प्रथमवारे भारतस्य प्रतिषेधकारणेन लङ्कातीरं प्राप्तुम् श्री लङ्कया अनुज्ञा न दत्ता। किन्तु चीनस्य सम्मर्दतन्त्रेण श्रीलङ्कायाः मनोगतिः परिवर्तिता।  

७५० किलो मीट्टर् दूरपरिधौ जायमानानि तरङ्गानि गृहीतुं अनया नौकया शक्यते।

Thursday, August 18, 2022

 आङ् सान् स्यूची षड्संवत्सरीयकारागृहवासाय पुनरपि दण्डिता। 


बाङ्कोक्क्> म्यान्मारराष्ट्रस्य सार्वलौकिकनेत्री आङ् सान् स्यूची पुनरपि भ्रष्टाचारापराधिता सती कारागृहवासाय दण्डिता। प्रकरणचतुष्टयमारोप्य  षड्संवत्सरीयदण्डनमेव विहितम्। 

   गोप्यरूपेण आसीत् प्रकरणानाम् उपधा संवृत्ता। भ्रष्टाचारः, देशद्रोहमित्याद्यपराधान् प्रकल्प्य पूर्वमेव स्यूची ११ वर्षाणां कारागारदण्डनाय विहिता आसीत्। गतवर्षस्य फेब्रुवरिमासे म्यान्मरे प्रजातन्त्रीयसर्वकारं प्रतिलोमरूपेण तिरस्कृत्य सैनिकशासनं प्रतिष्ठितम्। ततः परं स्यूची बाह्यलोकात् अदृष्टा वर्तमाना भवति।

Wednesday, August 17, 2022

 काश्मीरे बस्यानं नदीं पतित्वा ७ सैनिकाः वीरमृत्युं प्राप्ताः। 

श्रीनगरं> अमरनाथतीर्थाटनस्य सुरक्षाकार्यं समाप्य प्रतिनिवृत्तेषु  सैनिकेषु सप्त भटाः बस् यानदुर्घटनया वीरमृत्युं प्राप्ताः। जम्मुकाश्मीरस्य पहल्गाम प्रदेशे बस् यानं नदीं पतित्वा एव अपमृत्यवः जाताः।

   ३२ सैनिकाः आहताः वर्तन्ते। तेषु अष्टानामवस्था कठिनतरा भवति। 'इन्डो-टिबटन् सीमा आरक्षकाः' [ऐ टि बी पि] एव दुर्घटनाविधेयाः अभवन्। चन्दनवाटीस्थात् आरक्षककेन्द्रात् कार्यनिर्वहणं समाप्य श्रीनगरं प्रति निवर्तमानाः  आसन्।  

   दुर्घटनायां राष्ट्रपतिः द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीपधन्करः इत्यादयः अनुशोचितवन्तः।

भारतीय-प्रौद्योगिकी-संस्थानम्-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्।

संस्कृतसप्ताहमालक्ष्य भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्। शिबरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती।
शिबिरस्य उद्घाटनं डाॅ सोहम चक्रवर्ती वर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत्, श्री नवल किशोर पन्तः, श्री विष्णुदत्तगौड़ महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजी दीक्षितः सरस्वती वन्दनां कृतवान्। आचार्या शालिनीदीक्षित द्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति इति संस्थायाः अध्यक्षेण निगदितम् ।

 नवदिल्ल्यां कोविड् प्रकरणानि वर्धन्ते। प्रतिदिनं ८-१० मरणानि प्रतिवेदयन्ति। जाग्रतापालनाय निर्देशः दत्तः।


 नवदिल्ली> नवदिल्ल्यां कोविड्रोगबाधितानां तथा रोगबाधया आतुरालये नीतानां च संख्या वर्धिते सन्दर्भेऽस्मिन् मुखनासिकावरणघारणं, कोविडं विरुध्य पूर्वोपायाः च अनवधानतया पालयितुं अधिकारिणः सामान्यजनान् प्रति दृढनिर्देशो दत्तवन्तः। राष्ट्रे कोविड् प्रकरणानि वर्धन्ते, कोविड् भावात्मकतामानस्य आधिक्यःअनुवर्तते इति दिल्ली उप-राज्यपलेन lieutenant Governor) विनय् कुमार् सक्सेनावर्येण ट्वीट् कृतम् ।

Tuesday, August 16, 2022

 भारतस्य विदेशनयं प्रकीर्त्य इम्रान् खानः। 

इस्लामबादः> भारतस्य स्वतन्त्ररूपः विदेशनयः पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणा इम्रानखानेन पुनरपि प्रकीर्तितः। लाहोरे सम्पन्ने सामान्यसम्मेलने आसीत्  'ब्राट्टिस् लावा उच्चशिखरमेलने' भागं स्वीक्रियमाणं भारतविदेशकार्यमन्त्रिणं एस् जयशङ्करं प्रकीर्त्य इम्रानखानस्य प्रभाषणम्। 

  रूस् राष्ट्रात् भारतस्य  तैलेन्धनक्रयमुद्दिश्य  अमेरिक्कायाः विरुद्धोक्तिविषये जयशङ्करेण कृतं प्रतिवचनं इम्रानखानः प्रशशंस।

 भारतस्य अभिमानः अकाशपर्यन्तम्; लक्षपादाधिके ऊर्ध्वतायां राष्ट्रध्वजःपरिलसितः।


  स्वतन्त्रतायाः ७५ तमवर्षस्य भागतया अमृतमहोत्सवानुबन्धतया भारतस्य राष्ट्रध्वजम् भूतलात् लक्षपादाधिके ऊर्ध्वतायां उड्डयितम्। वायुफेनकस्य साहाय्येन ध्वजः १०६००० पादोन्नत्याम् उड्डयितः। बाह्याकाशे उड्डयितस्य राष्ट्रध्वजस्य चलनचित्रखण्डः सामाजिकमाध्यमेषु त्वरितप्रसारणमभवत्। 'स्पेस् किड्स् इन्ट्या' इति सङ्घटनेन छात्रान् बाह्याकाशवैज्ञानिके विषये प्रभावयितुम् उद्दिश्य आसीत् अयं विशेषोड्डयनम्।

Monday, August 15, 2022

 स्तन्त्रतायाः अमृत महोत्सवः

ऐतिहासिकं दिनमिति प्रधानमन्त्री नरेन्द्रमोदी ।

 नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसंवत्सरोत्सवः भारतस्य ऐतिहासिकदिनमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। रक्तदुर्गे राष्ट्रध्वजमुत्तोलयित्वा भारतराष्ट्रं अभिसंबुद्ध्य भाषमाणः आसीत्सः। अवसरेऽस्मिन् सर्वेभ्यः नागरिकेभ्यः स्वतन्त्रतादिनाशंसाः अपि तेन अर्पिताः। राष्ट्रस्य पञ्चसप्ततितमसंवत्सरेषु प्रयाणं सुखकरं न आसीत्, कालेऽस्मिन् पुरोगतिरधोगतयः मध्ये मध्ये राष्ट्रेण अभिमुखीकृताः इति तेन निगदितम्। अद्य राष्ट्रस्य एकैकेषु कोणेषु अपि राष्ट्रध्वजः परिलसति इति प्रधानमन्त्रिणा प्रोक्तम्।