OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, January 4, 2022

 १२,००० । किलो भारयुक्तं लोकयानं केशैः आकृष्य भारतीयवनितया गिन्नस् अभिलेखः विरचितः। 

 गिन्नस् अभिलेखेषु स्थानं प्राप्तानां विभिन्नक्षमतायुक्तानां वार्ताः सर्वसाधारण एव। एकहोराभ्यन्तरे सहस्रशः हस्तेषु अलक्तकेन वर्णचित्राणि विरच्य गिन्नस् अभिलेखेषु स्थानं प्राप्ता  भारतीयवनिता आदित्या समीपकाले वार्तामाध्यमद्वारा सर्वेषां प्रशंसाभाजनमभवत्। इदानीं  लोकयानं स्वकेशैः आकृष्य गिन्नस् अभिलेखे स्थानं प्राप्तायाः वनितायाः चलनचित्रखण्डं सर्वेषां श्रद्धां आकर्षति। आशाराणी नाम भारतीयवनिता एव स्वकेशैः लोकयानं आकृष्यति। उभयतः ग्रथितस्य केशस्य अग्रे स्थूलं  सूत्रमुपयुज्य निबध्य लोकयानेन सह योजयित्वा आकृष्यमाणं चित्रमेव चलनचित्रखण्डे मुद्रितम् वर्तते। गिन्नस् अभिलेखः एव अयम् इति विज्ञाय नेत्राभ्यां आनन्दाश्रूणि धारयन्तं रूपमपि चलनचित्रखण्डे द्रष्टुं शक्यते।

Monday, January 3, 2022

 कोविड् व्यापनम्> वंगदेशे विद्यालयाः पिहिताः। स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता।

कोल्कत्ता> कोविड् व्यापने वर्धिते पश्चिमवंगदेशे अतिनियन्त्रणानि ख्यापितानि। विद्यालयाः, चलनचित्रशालाः च कीलयिष्यति। सर्वकार - निजीय स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता। व्यायामकेन्द्राणि, प्लवनवाप्यः, क्षौरास्थानानि च कीलयितुं निश्चितानि। राज्ये यु के राष्ट्रात् विमानसेवाः स्थगिताः। गतदिने वंगदेशे कोविड् बाधितानां संख्या ४५१२ आसीत्। राष्ट्रे कोविड्रोगिणां संख्यासु तृतीयं स्थानम् आवहति पश्चिमवंगदेशः।

 कौमारवयस्कानां वाक्सिनीकरणं - पञ्जीकरणं ६.७लक्षमतीतम्। 

नवदिल्ली> १५ - १८ वयस्कानां कुमारीकुमारेभ्यः कोविड्वाक्सिनं दातुमुद्दिश्यमानं पञ्जीकरणं गतरात्रिपर्यन्तं ६,७९,०६४ अभवदिति केन्द्रस्वस्थ्यमन्त्रालयेण निगदितम्। ये २००७ तमे वर्षे ततःपूर्वं वा जन्म लेभिरे तेभ्य एव वाक्सिनं दीयते। 

  भारतबयोटेक् संस्थया आविष्कृतं कोवाक्सिनं नामकं प्रत्यौषधमेव दीयते। २८ दिनान्यनन्तरं द्वितीयमात्रा विधातव्या। वाक्सिनीकरणप्रक्रमाणाम् एकीकरणाय राज्यस्वास्थ्यमन्त्रिभिः सह केन्द्रस्वास्थ्यमन्त्री डो मनसुख माण्डव्यः चर्चां कृतवान्।

 केरले ४५ नूतनाः ओमिक्रोणरोगिणः। 

अनन्तपुरी> राज्ये ४५ जनेष्वपि ओमिक्रोण् नामकः कोविड्रोगः दृढीकृतः इति स्वास्थ्यमन्त्रिण्या वीणाजोर्जेन उक्तम्। चत्वारः संसर्गेण रोगबाधिताः अभवन्। 

  विविधजनपदेषु वर्तमानाः एते यू ए ई, खत्तरं,यू के, फ्रान्स्, फिलिप्पीन्स्, तुर्की, स्वीडन, कसाकिस्थानं,ऐर्लान्ट्, उक्रैनं, उगाण्टा, दक्षिणाफ्रिक्का इत्यादिभ्यः विदेशराष्ट्रेभ्यः राज्यं प्राप्ताः सन्ति। अनेन आहत्य ओमिक्रोणबाधिताः केरले १५२ जाताः।

हिमप्रदेशे अलास्कादेशे अपूर्वाधिकतापः रेखाङ्कितः।


अमेरिक्कादेशेषु बृहत्तमः हिमप्रदेशः भवति अलास्का। दिसम्बर् मासे तत्र हिमपातः सहज एव। किन्तु इदानीं तत्र प्रतिकूलवातावरणमेव। संवत्सरस्य अन्तिमपादे प्रदेशे तापमानम् अनियन्त्रितरूपेण वर्धितम् इति गणनाः सूचयन्ति। विश्ववातावरणसेवायाः (National weather service) गणनानुसारम् अलास्केषु कोटियक् द्वीपेषु तापमानं ६७° फारन् हीट्ट् (१९.४°¢) इति वर्धितम्। इतःपर्यन्तं रेखाङ्कितेषु अधिकतापमानं भवति एतत्। कोटियाक् विमानपत्तनेषु६५ फारन् हीट्ट् तापमानं रेखाङ्कितम्। अधिकतापमानं विविधेषु प्रदेशेषु वृष्टेः कारणमभवत्।

Sunday, January 2, 2022

 ओमिक्रोण् प्रकरणानि वर्धिष्यन्ते; चिकित्सालयाः सज्जाः भवितव्याः। 

नवदिल्ली> राष्ट्रे ओमिक्रोण् प्रकरणेषु अत्यधिका वर्धना भविष्यतीत्यतः आराष्ट्रं चिकित्सालयसंविधानानि कार्यक्षमाणि शक्तानि च करणीयानीति केन्द्रसर्वकारः राज्यसर्वकारानादिशत्। 

  एकान्तवासाय तल्पा‌ः, ऐ सि यू तल्पाः, बालकानां कृते सविशेषविभागः, प्राणवायुसम्भरण्यः, 'आम्बुलन्स्'यानानि, अवश्यौषधसञ्चयः इत्यादयः सज्जीकरणीयाः। कोविड्भावात्मकेषु ये तीव्रलक्षणाभावाः वर्तन्ते ते स्वगृहेषु एव एकान्तवासं समनुष्ठातव्याः। येषां कृते अतीव चिकित्सा अवश्यकी तान्  चिकित्सालयं नेतुमर्हन्ति। 

  रोगव्यापनस्य पूर्णनिरोधाय केन्द्रस्वास्थ्यमन्त्रालयस्य सर्वविधाभियोगः भविष्यतीति मन्त्रालयेन स्पष्टीकृतम्।

Saturday, January 1, 2022

 चेन्नै नगरे तीव्रवृष्टिः;त्रीणि मरणानि। 

चेन्नै> नगरे दिनद्वयं यावत् अनुवर्तमानया तीव्रवृष्ट्या सर्वत्र जलसञ्चयः जातः। गमनागमनं दुष्करमभवत्। त्रयः जनाः मृत्युभूताः अभवन्। जनजीवनं दुस्सहमभवत्। नगरस्य १५० प्रदेशाः जनसञ्चयेनावृतम्। जनजीवितं निश्चलमभवत्। 

  तमिल्नाटस्य विविधजनपदेषु पुतुच्चेरी, कारक्कल् प्रदेशेषु च आगामिदिनद्वयं यावत् तीव्रवृष्टिः भविष्यतीति पर्यावरणविभागेन  निगदितम्। वृष्टिबाधितप्रदेशान् मुख्यमन्त्री स्टालिनः सन्दृष्टवान्।

 कुमारेभ्यः वाक्सिनं - अद्य आरभ्य पञ्जीकरणम्। 

अनन्तपुरी> केरले १५ वयः आरभ्य १८ वयःपर्यन्तं कुमारीभ्यः कुमारेभ्यः च  कोविड्प्रतिरोधसूच्यौषधं दातुमुद्दिश्यमानं पञ्जीकरणम् अद्य आरभते। ओण् लैन् द्वारा वाक्सिनस्थानं प्राप्य साक्षाद्वा पञ्जीकरणं शक्यम्। येषां अन्तर्जालपञ्जीकरणं न शक्यते तेषां छात्राणां कृते विद्यालयैः पञ्जीकरणं कार्यम्। 

   सोमवासरादारभ्य कुमारेभ्यः वाक्सिनवितरणमारप्स्यते। तदर्थं ५ लक्षं वाक्सिनवृन्दं राज्यं प्राप्स्यते।

 नूतनसंवत्सराय स्वागतं व्याहृत्य विश्वम्। विनोद विस्फुलिंङ्गप्रदर्शनेन नूतसंवत्सराय स्वागतं व्याहृत्य न्यूसिलान्ड्  राष्ट्रम्।


समावो> नूतनशुभप्रतीक्षया विश्वे २०२२ संवत्सरस्य समारम्भः। पसफिक् समुद्रे समोव, टोम्ग, किरिबात्ति द्वीपेषु एव नूतनसंवत्सरः प्रथमतया समागतः। ततःपश्चात् न्यूसिलाण्ड् राष्ट्रे नूतनसंवत्सरः समागतः।न्यूसिलान्ड् राष्ट्रेण संवत्सरोत्सवकर्यक्रमैः तथा प्रस्फोटनेन विनोद-विस्फुलिंगप्रदर्शनेन च नूतनसंवत्सराय स्वागतं व्याजहार।

न्यूसिलाण्डे ओक्लण्डे एव नूतन संवत्सरस्य प्रारम्भः प्रथमतया समागतः। ततः पश्चात् ओस्ट्रेलियायां समागमिष्यति। पुनः जापान्, दक्षिणकोरिया, चीना, भारतम् इति क्रमेण नूतन संवत्सरस्य समारम्भः भविष्यति।

वार्ता - रमा टी के -

Friday, December 31, 2021

 मुम्बैदेशे खलिस्थान् भीकराः आक्रमणं कुर्यात् इति पूर्वसूचना। अतिजाग्रतापालनाय निर्देशः।

मुम्बै> खलिस्थान् भीकराः मुम्बैयां आक्रमणं कुर्यात् इति सुरक्षादलस्य पूर्वसूचना। नगरे अतिजाग्रतानिर्देशः दत्त:। अवकाशं स्वीकृत्य कर्मसु विरमिताः सर्वे अवकाशं परित्यक्त्वा प्रत्यागन्तुं निर्देशो दत्तः। नूतनसंवत्सरदिने मुम्बै नगरे विविधप्रदेशेषु खलिस्थान् भीकराः आक्रमणम् आयोजयितुं आसूत्रणं करोति इति मुम्बैदेशस्य आरक्षकदलाय लब्धे केन्द्रीयरहस्यान्वेषणविभागस्य प्रतिवेदने अस्ति। एतदनुसृत्य अवकाशं स्वीकृताः सर्वे आरक्षकाः प्रत्यागमनाय आहूताः। एतान् सर्वान् नगरे विविधप्रदेशेषु सुरक्षायै नियोजयिष्यतिI