नागरिकविमानन-महानिदेशालयेन अन्ताराष्ट्रिय-वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य ३०दिनाङ्कं यावत् स्थगिता
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Friday, October 29, 2021
Thursday, October 28, 2021
दुर्भिक्षया दूयमानाः उत्तरकोरियाः
प्योङ्याङ्> राष्ट्रस्य नागरिकाः अशने न्यूनता करणीया इति कोरियराष्ट्रस्य अधिपेन किं जोङ् उन्नेन आदिष्टाः। 2025 पर्यन्तं राष्ट्रं भैक्ष्यविषये न्यूनताम् अभिमुखीकरिष्यति इति तेन उक्तम्। राष्ट्रस्य सीमानः पिधानीकृताः सन्ति। उद्घाटनाय चत्वारि वर्षाणि प्रतिपालयन्तः स्युः। तदभ्यन्तरे काले कालयापनाय खाद्यादिकं सावधानम् उपयोक्तव्यम् इति तेन जनाः आदिष्टाः। कोराणा व्यापनस्य कारणत्वेन उत्तरकोरियेन गतसंवत्सरे चीनेन सह विभक्तं सीमानं पिधानं कृतम्। 2025 संवत्सरात् पूर्वं सीमायाः उद्घाटनं न स्यात् इति कोरियस्य अधिकारिभिः प्रतिवेद्यते।
Wednesday, October 27, 2021
मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता
मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता। तद्देशस्य प्रधानमन्त्रिणा जस्टिन ट्रुडे इत्यमुना लिबरल पार्टीति दलस्य पुनरेकवारं शासनावाप्तेः एकमासानन्तरं मन्त्रिमण्डले परिवर्तनं कृतम्।
सुश्री आनन्दः सुदीर्घकालं कानडा देशस्य रक्षामन्त्री पदासीनस्य मूलतो भारतीयस्य हरजीत-सज्जनस्य स्थानं प्राप्तवती। हरजीत-सज्जनेन सैन्यदुष्कर्मविषयस्य निराकरणम् आलक्ष्य आलोचना सम्मुखीक्रियते। कानाडा देशस्य
नूतने मन्त्रिमण्डले महिला सदस्यानां सन्तुलिता सहभागिता दृश्यते। सुश्री आनन्दः एकस्य समवायस्य अधिवक्त्रित्वेन अपि कार्यं कृतवती। निरस्तीकृते मन्त्रिमण्डले सम्मिलिताः मूलतो भारतीयाः हरजीत-सज्जनः अनीता आनन्दः बार्दिश-छग्गडः च गतमासे सम्पन्ने संसदीये निर्वाचने विजयं प्राप्तवन्तः।
शिशुभ्यः अपि द्विचक्रिकायां शिरस्त्राणम् निर्बन्धम्।
पर्यावरणव्यत्यये भारतस्य गतवर्षे ६.५ लक्षं कोटिरूप्यकाणां नष्टः।
नवदिल्ली> पर्यावरणव्यत्ययेन जातेषु प्रकृतिदुरन्तेषु गतसंवत्सरे भारतस्य ६.५लक्षं कोटिरूप्यकाणां [८७००कोटि डोलर्] नष्टः अभवदिति विश्वपर्यावरणसंघटनस्य [WMO] आवेदनपत्रे सूच्यते।
उष्णमण्डलचक्रवाताः, जलोपप्लवः, अनावृष्टिः इत्यादयः प्रकृतिदुष्प्रभावाः एष्यन् राष्ट्रेषु कथं बाधन्ते इति विव्रियमाणे आवेदनपत्रे एवायं वृत्तान्तः। स्कोट्लान्ट् मध्ये अस्मिन् मासे आयोज्यमाने संयुक्तराष्ट्रसंघटनस्य पर्यावरणशिखरसम्मेलने आवेदनपत्रमिदं चर्चिष्यतेति सूच्यते। प्रकृतिदुष्प्रभावैः अधिकतमः नष्टः चीनदेशे अभवत्। द्वितीयतृतीयस्थानयोः यथाक्रमं भारतं जापानं च वर्तेते।
तमिष़नाड् राज्ये प्रस्फोटकापणे अग्निबाधा - पञ्चजनाः मृताः।
चेन्नै> तमिष़नाड् राज्ये प्रस्फोटकापणे आपन्ने विस्फोटे पञ्चजनाः मृताः। नैके जनाः व्रणिताः च। तेषाम् अवस्था गुरुतरा इति प्रतिवेद्यते। कल्लाकुरिच्चि जनपदस्य शङ्कर पुरस्थे प्रस्फोटकापणे आसीत् दुर्घटना। अग्निं नियन्त्रणाधीनं कर्तुं श्रमः अनुवर्तते।अन्तर्वाहिनीसंबन्धिविज्ञानानि रहसि अपहृतानि। त्रयः नाविकसेनाकर्मकराः निगृहीताः।
नवदिल्ली> अन्तर्वाहिनीनौकासंबन्धीनाम् अति गूढविज्ञानानाम् अपहरणप्रकरणे त्रयः जनाः निगृहीताः। नाविकसेनायां सेनाध्यक्षपदवीं अलङ्कृतः एकः कर्मकरः, सेवानिवृत्तौ द्वौ कर्मकरौ च निगृहीतौ। भारतीय नाविकसेनायाः जलमग्ननौकायाः (submarine) नवीकरणसंबन्धीनि अतिगूढविज्ञानानि सेवानिवृत्तेभ्यः कर्मकरेभ्यः अपहृत्य अदात् इत्येव प्रकरणम्। घटनायाम् उन्नतस्तरान्वेषणमपि प्रख्यापितम्। नौसेनायाः उपाध्यक्षेण सहोपाध्यक्षेण च सहितः पञ्चाङ्गसंघः विषयेऽस्मिन् विशदान्वेषणं करिष्यति।
Tuesday, October 26, 2021
मध्यप्रदेशे वाक्सिनस्य मात्राद्वयं स्वीकृतेषु षड्जनेषु कोविडस्य ए वै ४ विभेदः दृढीकृतः।
भोपाल्> मध्यप्रदेशे इन्डोर् जनपदे वाक्सिनीकरणं पूर्तीकृतेषु षड्जनेषु कोविड् वैराणोः ए ४ वै नाम नूतनप्रभेदः दृढीकृतः। नवदिल्ली राष्ट्रियरोगनियन्त्रणकेन्द्रेण (National centre for disease control) आयोजिते परीक्षणे एव नूतनप्रभेदः दृढीकृतः। गते सेप्तम्बर् मासे एतेषां वैराणूनां जनितकश्रेणीनिर्णयाय प्रेषितः इति मध्यप्रदेशस्य मुख्यभैषज्य स्वास्थ्याधिकारिणा (Madhya Pradesh chief medical and health officer) बि एस् सत्येन प्रोक्तम्। प्रथमतया एव राज्ये कोविडस्य एषः प्रभेदः दृढीकृतः इत्यपि सः व्यजिज्ञपत्। रोगबाधितैः सर्वैरपि पूर्वं वाक्सिनीकरणं पूर्तीकृतम् आसीत्। अधुना चिकित्सिताः ते सुखं प्राप्ताः इत्यपि सः उक्तवान्।
वर्षाकालः अपसृतः; तुलावर्षाः संप्राप्तः।
अनन्तपुरी> भारतस्य दक्षिणाग्रे तुलावर्षनाम्ना व्यवह्रियमाणः उत्तरपूर्वीयवर्षाकालः सम्प्राप्तः। तथा च जूण्मासे आरब्धः वर्षाकालः राष्ट्रात् निर्गतश्चेति केन्द्रपर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीये वंगसमुद्रे कुजवासरे चक्रवातमण्डलं रूपीकरिष्यते। अस्य प्रभावात् आगामिनि ४८ होराभ्यन्तरे न्यूनमर्दः भविष्यति।
पञ्चदिनानि यावत् वज्रनिर्घोषैः सह शक्ता वर्षा भविष्यति। केरले अद्य श्वः च जाग्रतानिर्देशः कृतः।
Monday, October 25, 2021
चीने पुनरपि कोविडः - 'मारत्तण्' व्याक्षिप्तम्।
बेय्जिङ्> चीनदेशे बहुकालानन्तरं कोविड्रोगः व्याप्यते। रविवासरे २६ जनाः अपि रोगबाधिताः अभवन्। अतः वुहाननगरे गतदिने आयोज्यमानं 'मारत्तण्'नामिका धावनक्रीडा किञ्चित्कालं यावत् व्याक्षिप्ता। आगामिसप्ताहे आयोज्यमानं बीजिङ् मारत्तणमपि विलम्बायितं कृतम्।
कोविडस्य प्रत्यागमनेन चीनदेशे सर्वत्र नियन्त्रणानि तीव्राणि कृतानि। केषुचित्स्थानेषु लोकयान - टैक्सी सेवनानि समापितानि।राष्ट्रं प्राप्तेभ्यः विनोदयात्रिकेभ्यः डेल्टा प्रभेदः व्याप्तः इति कारणतः एव रोगव्यापनं जातमिति सूच्यते।