उत्तराखण्डे प्रलयः।
डेहराडूणः> अतिशक्ता वृष्टिः अनुवर्तते उत्तराखण्डे। वृष्टिदुर्भावेण अनेकाः मृतिवशंगताः। सर्वत्र विनाशः प्रतिवेद्यते। नैनित्ताल जनपदे ७ जनाः मृताः इति राज्यस्य आपदकालीनप्रवर्तक संस्थाया प्रतिवेदितम्। सोम वासरे नेपालदेशस्थाः त्रयः कर्मकराः अन्ये द्वे च वृष्ट प्रदुर्भावेण मृताः आसन्। द्वे व्रणिताः च। बद्रिनाथ राजमार्गे गच्छत् कार्यानं भूभ्रंशे निबद्धम् अभवत्। सुरक्षाप्रवर्तकैः यात्रिकाः रक्षिताः। अस्याः घटनायाः चित्रम् इदानीं सामाजिकमाध्यमेषु सद्यप्रसृताः वर्तते।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Wednesday, October 20, 2021
Tuesday, October 19, 2021
आरबसागरात् उद्भूतानां चक्रवातानां संख्या, तीव्रता च अवर्धत।
नवदिल्ली>आरबसागरे समुद्भूतानां चक्रवातानां आवृत्तिः तीव्रता च गतद्विदशकाभ्यन्तरे अवर्धत इति अध्ययनप्रतिवेदनम्। इत्थम् अनुवर्तते चेत् समीपभाविनि भारतस्य पश्चिमतीरेषु प्रकृतिदुरन्ताः निरन्तरम् आवर्तयिष्यति इति वैज्ञानिकाः पूर्वसूचनां ददति।१९८२-२०१९ संवत्सराभ्यन्तरे चक्रवातानां संख्यासु ५२% वर्धनमभवत्। प्रत्युत बंगसमुद्रे समुत्पन्नानां चक्रवातानां संख्यासु तीव्रतायां च ८% ह्रासमभवत् इति प्रतिवेदनं सूचयति।
केरले त्रयः सेतुकवाटाः उद्घाटयन्ति। जनै: जाग्रता पालनीया इति मुख्यमन्त्री पिणराई विजयः।
अनन्तपुरी> राज्ये वृष्टिमनुवर्तमाने साहचर्ये अधिकजलनिर्गमनार्थं सेतुकवाटः उद्घाटयितुं निश्चिनोत्। अतः सेतोः समीपप्रदेशस्थाः जनाः अतीव जागरूकाः भवितव्याः इति केरलस्य मुख्यमन्त्रिणा आदेशः दत्तः। अवधानतां स्वीकृत्यैव सेतुकवाटाः उद्घाटयन्ते। इडुक्कि सेतोः कवाटः मङ्गलवासरे प्रातः एकादशवादने, इटमलयार् तथा पम्पासेतुकवाटाः च प्रातः षड्वादने च उद्घाटयिष्यन्ते। सेतोः जलस्तरनिरीक्षणाय सर्वकारेण नियुक्तायाः समितेः निश्चयमनुसृत्यैव अधिकजलनिर्गमनाय पूर्वोक्तसेतूनां कवाटाः उद्घाटयितुं निश्चितः।
केरले अतिवृष्टिदुष्प्रभावः - मरणानि ३३ अभवन्।
अनन्तपुरी> राज्ये अतिवृष्टिदुष्प्रभावेण भूस्खलनेन च दिनत्रयेण ३३ जनाः कालवशं गताः। कोट्टयं, इटुक्की, पत्तनंतिट्टा, आलप्पुष़ा तृश्शूर् जनपदेषु भूस्खलनेन जलोपप्लवेन एतदनुबन्धदुर्घटनेन च एते जनाः मृताः।
कोट्टयं जनपदे कूट्टिक्कल् प्रदेशे, इटुक्की जनपदस्य कोक्कयार् प्रदेशे च जाते भूस्खलनेन मृदन्तर्भागे पतितानां मृतशरीराणि दुरन्तनिवारणसेनया कृते अन्वेषणे लब्धानि। अदृष्टाणां सर्वेषां मृतदेहाः उपलब्धाः इति जनपदाधिकारिभिः निगदितम्।
Monday, October 18, 2021
चीनस्य बृहत्भित्त्याः बृहदाकारकम् ई - मालिन्यसञ्चयः। विश्वं दुर्घटे।
विश्वस्मिन् नूतन-वैद्युतकोपकरणानां विधानानां रूपकल्पनाः तथा आविष्काराः च वर्धन्ते। तदनुसृत्य पुनरुपयोगं कर्तुं क्षमताहीनानां वैद्युतक ई - मालिन्यानां (electronic waste) परिमाणमपि भूमौ क्रमातीतं वर्धयत् अस्ति इति वैज्ञानिकैः संसूच्यते। लोह-पलास्तिक-धातुप्रभृतीनां पुनरुपयोगक्षमताहीनानां वस्तूनाम् निर्मार्जनं महतीं समस्यां जनयति। सामान्यतया एतादृशानि वस्तूनि भूसमीकरणाय उपयुज्यते अथवा अग्निना भस्मीकुर्वन्ति। किन्तु मालिन्यस्य आधिक्यं मालिन्यसंस्करणं दुष्करं करोति। इ - मालिन्यानां पुनरुपयोगः तथा नूतनविभवानां न्यूनोपयोगः च अस्याः समस्यायाः परिहारः इति वैज्ञानिकाः अभिप्रयन्ति।अफ्गानस्य विषये सुरक्षाकर्मकराणां मेलनम् आयोजयितुं सज्जमभवत् भारतम्।
पाकिस्थानः अपि भागं स्वीकरिष्यति।
नवदिल्ली> अफगानस्य विषये चर्चितुं विविधराष्ट्राणाम् उन्नतस्तर - सुरक्षाकर्मकराणां मेलनम् आयोजयितुं भारतं सज्जते। भारतं, रष्यः, चीनः, यु एस् प्रभृतयः राष्ट्राः मेलने भागं स्वीकरिष्यन्ति इति प्रतीक्षते। नवम्बर् मासस्य द्वितीये सप्ताहे एव मेलनं भविष्यति इति टैंस् आफ् इन्ट्या पत्रिकया प्रतिवेदितम्।
मेलने भागं गृहीतृन् अतिथीन् अधिकृत्य औद्योगिकस्थिरीकरणम् इदानीं न लब्धम्। मेलने तालिबानस्य आमन्त्रणपत्रिकासमर्पणसाध्यता नास्ति। किन्तु पाकिस्थानम् आमन्त्रयिष्यति इति सूचना अस्ति। पाकिस्थानस्य सुरक्षाकर्मकराय मोयिद् युसूहाय आमन्त्रणपत्रिकायाः प्रेषणं विलम्बायितम् इत्यपि प्रतिवेदनमस्ति।
Sunday, October 17, 2021
केरलराज्यस्य चलनचित्रपुरस्कारः प्रख्यापितः - जयसूर्यः नटः, अन्ना बन् नटी, दि ग्रेट् इन्डियन् किच्चन् श्रेष्ठचित्रम्।
अनन्तपुरी > 'कप्पेला' इति चलच्चित्रे जेसी इति कथापात्रं श्रेष्ठरीत्या अवतारिता अभिनेत्री अन्नाबन् केरलराज्यस्य २०२० तमस्य श्रेष्ठनटीपुरस्कारार्हा विहिता। 'वेल्लम्' इति चलच्चित्रे मुरलिः इति कथापात्ररूपेण परिणमितः जयसूर्यः श्रेष्ठनटरूपेण चितः। दि ग्रेट् इन्डियन् किच्चन् भवति श्रेष्ठं चलच्चित्रम्।
अन्ये पुरस्काराः एवम् -
श्रेष्ठः निदेशकः - सिद्धार्थ शिवः [चित्रं 'एन्निवर्], जनप्रीतिभूतं चलच्चित्रं - 'अय्यप्पनुं कोशियुम्' , दृश्यकथाकारः - जियो बेबिः [चित्रं दि ग्रेट् इन्डियन् किच्चन् ]
काश्मीरे द्वौ लष्करभीकरौ सैन्येन निहतौ।
श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामायां पाम्पोर् प्रदेशे एकं कमान्डर् स्थानीयमभिव्याप्य द्वौ लष्कर् ई तोय्बा भीकरौ भारतसैन्येन निहतौ। सैन्येन अन्विष्यमाणेषु १० आतङ्कवादिषु अन्यतमः कमान्डर् उमर मुष्ताख् खान्डे नामकः भवति प्रतिद्वन्द्वे मृतयोः प्रमुखः। द्वितीयः न प्रत्यभिज्ञातः।
पूञ्च् प्रदेशे गतदिने संवृत्ते प्रतिद्वन्द्वे अदृष्टयोः द्वयोः सैनिकयोः मृतदेहौ काननान्तर्भागे दृष्टौ। अनेन साप्ताहिकद्वयाभ्यन्तरे वीरमृत्युभूतानां सैनिकानां संख्या नव अभवत्। निहताः भीकराश्च १३ अभवन्।
केरले अतिवृष्ट्या भूस्खलनेन च नवजनाः मृताः २० जनाः अप्रत्यक्षाः च।
अनन्तपुरम्> दक्षिणकेरले मध्यकेरले च अतिवृष्टिः अनुवर्तते। कोट्टयं जनपदे कुट्टिक्कल् प्रदेशे महान् भूस्खलनं च अभवत्। नव जनाः मृताः। विंशति जनाः अप्रत्यक्षाः च। रक्षाप्रवर्तनानि अनुवर्तते। अति वृष्टिः वातः भूस्खलनं जलोपप्लवः च रक्षाप्रवर्तनान् बाधन्ते।Saturday, October 16, 2021
प्राणवायोः परिमाणं न्यूनं भविष्यति। भूमौ जीवनाशः भविष्यति।
भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्ष्यते।
पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।