अफ्गाने देवालये आत्मघात्यक्रमेण शतं जनाः निहताः।
काबूल्> अफ्गानिस्थाने कुण्टूस् नगरे प्रार्थनावेलायां गोसर् इ सयेद् अबाद् षियादेवालये आम्पन्ने आक्रमणे शतशः जनाः निहताः। शतशः जनाः व्रणिताश्च। त्रिशतं जनाः प्रार्थनार्थं देवालये सन्निहिताः आसन्। हतेषु शिशवः अपि सन्ति। देवालयस्य अन्तर्भागे स्थितः अक्रमी स्वयं आस्फोटितः इति मण्डलस्य आरक्षकसेनायाः उपाध्यक्षेण दोष्त् मुहम्मद् ओबैदेन प्रोक्तम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Saturday, October 9, 2021
सिड्नीनगरम् उद्घाटितम्।
सिडनी> १०६ दिनानि यावत् दीर्घितस्य सम्पूर्णपिधानस्य अन्ते आस्ट्रेलियायाः महत्तमा नगरी सिड्नी गुरुवासरे उद्घाटिता। ५० लक्षपरिमितं जनसंख्यायुक्ते अस्मिन् नगरे १६ वयोपरियुक्ताः ७०% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः इति कारणेनैव नगरे लाघवम् अनुमोदितम्।
किन्तु अन्ताराष्ट्रसीमाः पिहिताः एव वर्तिष्यन्ते। राष्ट्रे रोगबाधितानां प्रतिदिनसंख्या वर्धमानावस्थायामस्ति। बुधवासरे २०२६ जनाः आराष्ट्रं रोगबाधिताः अभवन्। समीपकालस्य उन्नता संख्येयम्।
मुख्यव्यालः भीमो न । कुक्कुटसमानः एव।
लण्डन्> भीमाकारो भविष्यति इत्यनुमानेन मुख्यव्यालः(chief Dragon ) इति नाम्ना आहूतस्य भीमगोधिकायाः आकारः कुक्कुटसमानः भवति। १९५० तमे संवत्सरे ब्रिट्टन् राष्ट्रे सौत्त् वेयिल्स् देशे शरीरावशिष्टात् प्रत्यभिज्ञाते पेन्ड्रेय्ग्स् (Pendrages ) नाम भीमगोधिकामधिकृत्य सूचनेयम्। ब्रिटणे अद्यावधि प्रत्यभिज्ञातेषु अतिप्राचीना मांसभोजी भीमगोधिका इयम्। दीर्घलाङ्गूलयुक्तकुक्कुटतुल्यः आकार एव अस्य अस्ति इति इदानीं प्रत्यभिज्ञातः। लाङ्गूलस्य आयतपर्यन्तम् आहत्य अस्य आकारः केवलं त्रिपादमितम् भवति। २१.५ कोटि संवत्सरात् पूर्वमेव आसीत् अस्य जीवनकालः।Friday, October 8, 2021
वातावरणव्यत्ययान् ज्ञातुं नूतनमार्गं आविष्कृतेभ्यः भौतिकवैज्ञानस्य नोबेल् पुरस्कारः।
स्टोक्होम्> वातावरणव्यत्यय-सदृशान् सङ्कीर्णाः समस्याः प्रत्यभिज्ञातुं क्षमतायुक्त प्रवचनं प्रसारयितुं च पर्याप्तं नूतनमार्गं आविष्कृताः त्रयः वैज्ञानिकाः २०२१ तमस्य भौतिकवैज्ञानस्य नोबेल् पुरस्कारेण समादृताः। सुक्कुरो मनाबः. क्लोस् हासिल्मानः, जोर्जोपरीसि च भवन्ति एते। पुरस्कारराशेः ११.४ डोलर् धनस्य अर्धभागः सुक्कुरो मनाबः, क्लोस् हासिल्मानः इत्येताभ्यां लभते । शेषः भागः परीसिमहोदयाय लभते।
गुह्यं भौमवातावरणानि ज्ञातानि इत्यनेन मनुष्याणां प्रवर्तनानि कथं भूमेः वातावरणान् बाधते इति अवगन्तुं कृतेभ्यः अध्ययनेभ्यः भवति पुरस्कारः। क्रमरहितान् पदार्थान् आकस्मिकान् प्रक्रियान् सङ्कीर्णसमस्याः प्रत्यभिज्ञातुं कृताध्ययनाय भवति परीसेः पुरकारः॥
Thursday, October 7, 2021
महानौकानां स्वच्छन्दतरणाय पर्याप्तं प्रथमलंबोर्ध्वसमुद्रसेतुः रामेश्वरे पाम्पन् सेतोः स्थाने निर्मीयते।
नवदिल्ली> रामेश्वरस्थे नूतनसेतोः मनोहरचित्राणि प्रकाशयत् भारतीय रेल् संस्थया तथा रेल्मन्त्रिणा अश्वनी वैष्णवेन च। भारते निर्मितः प्रथमः लम्बोर्ध्वसेतुः भविष्यति एषः। सेतोः मध्यभागं पूर्णतया समुत्थाप्य महानौकानां सन्तरणाय व्यवस्था कल्प्यते। राष्ट्रे इदंप्रथमतया एव सेतोः मध्यभागोत्थापनक्षमः सेतुः निर्मीयते। आगामिनि मार्च् मासे सेतोः निर्माणं सम्पूर्णं भविष्यति इति प्रतीक्ष्यते।
केरले वाक्सिनीकरणं लक्ष्यमुपागच्छति।
अनन्तपुरी> केरलराज्ये कोविड्वाक्सिनीकरणं लक्ष्यमुपगाच्छति। वाक्सिनं स्वीकरणीयेषु जनेषु ९३. ०४% संख्याकाः प्रथममात्रां स्वीकृतवन्तः इति सर्वकारेण निगदितम्। परन्तु सार्धाष्टलक्षं जनाः परं वाक्सिनीकरणीयाः सन्ति। २०२१ तमस्य जनसंख्यागणनमनुसृत्य १८.५लक्षं जना अवशिष्यन्ते तथापि कोविड्बाधिताः उपदशलक्षं जनाः मासत्रयानन्तरं वाक्सिनीकरणीयाः भवेयुः।
जनसंख्यागणनानुसारं राज्ये आहत्य वाक्सिनीकरणीयानां संख्या - २.६७कोटिः।
प्रथमात्रां स्वीकृतवन्तः - २,४८,५०३०७ [९३-०४%]
द्वितीयमात्रां स्वीकृतवन्तः - १,१४,४०,७७० [४२.८३%]
Wednesday, October 6, 2021
केरलेषु विद्यालयाः नवम्बर् प्रथमे दिने उद्घाट्यन्ते।
अनन्तपुरी> कोविड्महामारिहेतुना २० मासान् यावत् पिहिताः विद्यालयाः नवम्बरमासस्य प्रथमे दिने - केरलप्रसूतिदिने एव-पुनरुद्घाटयितुं राज्यसर्वकारेण निश्चितम्। राज्ये अनुक्रमेण कोविड्बाधा आकुञ्चतीति प्रकरणं विभाव्य एव सर्वकारः स्वास्थ्य-शिक्षादिभिः विविधविभागैः सह चर्चित्वा एतादृशनिर्णयः स्वीकृतः।
१ - ७ कक्ष्याः दशमी,+१,+२ कक्ष्याश्च नवम्बर् १ तमे आरभ्यन्ते। ८, ९ कक्ष्याः नवंबर १५ तमे च आरभ्यन्ते।
कोविड्प्रतिरोधकनिर्देशानि परिपाल्य एव कक्ष्याः प्रचालनीयाः। तदर्थं मार्गनिर्देशाः विज्ञापिताश्च।
तैलेन्धनस्य मूल्यम् ऊर्ध्वं गच्छति।
मुम्बई> अन्ताराष्ट्रविपण्याम् असंस्कृततैलेन्धनस्य मूल्यं प्रति बारल् परिमितस्य ८२.२५ डोलर् प्राप्तम्। अतः भारते पेट्रोल् डीसल् इन्धनद्वयस्य मूल्यम् ऊर्ध्वं गच्छति। असंस्कृततैलेन्धनोत्पादनस्य मन्दगतिः, आगोलतले विविधराष्ट्राणां इन्धनसञ्चयस्य आकुञ्चनं च इन्धनमूल्यवर्धनाय हेतुरिति सूच्यते।
मुम्बय्यां पेट्रोलस्य मूल्यं १०८.६७ रूप्यकाणि डीसलिन्धनस्य मूल्यं ९८.८० रूप्यकाणि चाभवन्। जयपुरे पेट्रोल्- डीसल् इन्धनयोः मूल्यं यथाक्रमं १०९.६६, १००.४२ च प्राप्तम्। दिल्ल्यामेतत् यथाक्रमं १०२.६४,९१.०७ च भवति। विविधराज्येषु तैलेन्धनस्य प्रतिदिनवर्धनं संदृश्यते।
राष्ट्रे इन्धनरूपस्य अङ्गारस्य दौर्लभ्यकारणेन ऊर्जोद्पादने समस्या भविष्यति इति आशङ्का।
नवदिल्ली> ऊर्जोत्पादनस्य क्रमशः वर्धनं तथा खनयः सर्वे जले निमग्नाः इत्यस्मात् कारणात् राष्ट्रे अङ्कारस्य दौर्लभ्यं अतिरूक्षं जातम्। केवलं चतुर्दिनानि यावत् वैद्युतिम् उत्पादयितुं शक्यं अङ्कारसञ्चयमेव निलयेषु वर्तते। अर्धाधिकनिलयानि समीपदिवसेषु प्रवर्तनरहितानि भविष्यन्ति। एषा स्थितिः अनुवर्तते सति भारतस्य साम्पत्तिकव्यवस्थां बाधिष्यते इति वैज्ञानिकाः वदन्ति।Tuesday, October 5, 2021
तापस्य स्पर्शस्य च रहस्यस्य प्रत्यभिज्ञानाय वैद्यविज्ञानपुरस्कारः।
स्टोक्होम्> मनुष्यशरीरे तापः स्पर्शः च संवेदयितुं सहायिकाः स्वीकरण्याः सन्ति इति प्रत्यभिज्ञातयोः अमेरिक्कायाः गवेषकद्वयोः २०२१ तम संवत्सरस्य वैद्यविज्ञाननोबल्पुरस्कारः लब्धः। जैवरसतन्त्रज्ञौ (biochemist) डेविड् जूलियस्, आर्डं पट्टपोषियन् च पुरस्कृतौ। १० लक्षं डोलर् धनं (७.२ कोटि रूप्यकाणि) पारितोषिकरूपेण लप्स्यते। स्पर्शः, वेदना, तापः च यदा भविष्यति तदा शरीरं तादृशान् भौतिकसंवेदान् कथं वैद्युतस्पन्दरूपेण सिराव्यूहं प्रापयति इति सुप्रधानज्ञानमेव तैः आविष्कृतम्। वेदनानिवारणाय नूतनमार्गदर्शकं भवत्येषः आविष्कारः।