दूरदर्शनस्य "वार्तावली" कार्यक्रमः ३०० तमं संस्करणं सम्प्राप्तम्।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Wednesday, August 18, 2021
Tuesday, August 17, 2021
अफ्गानिस्थाने सर्वत्र अरक्षितावस्था इति अभयार्थिनः।
अफ्गानः पूर्णतया तालिबानस्य नियन्त्रणे जाते जनैः प्राणरक्षार्थं संघशः पलायनम् आरब्घम्। अफ्गानस्य अध्यक्षः अषरफ् गनिः तस्य सहचराः च ओमान् राष्ट्रं प्रति पलायनम् अकुर्वन्। अन्यराष्ट्रैः च अफ्गानस्य नागरिकाणां कृते सीमाः उद्घाटिताः। अस्मिन् अवसरे विविधानां प्रमुखनेतृणां अभयकेन्द्रमभवत् भारतम्। भारते समागतानां अभयार्थिनां सकलानाम् एका तालिबान कथा वक्तुम् अस्ति। सा एवं भवति 'वयं सर्वे तालिबानस्य अतिक्रूरपीडनम् असहमानाः पलायिताः भवामः' इति अभयार्थिनः अकथयन्।
Monday, August 16, 2021
सैनिकविद्यालये इतः परं बालिकाप्रवेशः।
नवदिल्ली> सैनिकविद्यालये इतः परं बालिकाभ्यः अपि प्रवेशाय अनुमतिः। भारतस्य पञ्चसप्ततितम स्वतन्त्रता-समारोहदिने रक्तदुर्गे (Red Fort) कृते भाषणे एव प्रधानमन्त्रिणा नरेन्द्रमोदिना एवं प्रख्यापितम्। सैनिकविद्यालये प्रवेशं दातव्यम् इति उक्त्वा बह्यः बालिकाः मह्ययं पत्रिकाम् प्रेषितवत्यः वर्तन्ते इति प्रधानमन्त्रिणा प्रोक्तम्। इदानीं राष्ट्रे ३३ सैनिकविद्यालयाः सन्ति। सार्धद्विसंवत्सरात् पूर्वं मिसोरामदेशस्थे सैनिकविद्यालये परीक्षणार्थम् इदंप्रथमतया बालिकाभ्यः प्रवेशानुमतिः दत्ता आसीत्।
हेय्ति देशे जाते भूकम्पे मरणानि ३०० अतीतानि।
Sunday, August 15, 2021
भारतस्य पञ्चसप्ततितमस्वतन्त्रतादिनसमारोहे पञ्चसप्तति 'वन्दे भारत' रेल्यानानि प्रख्यापि तानि।
महिलानां विजयप्राप्तिः राष्ट्रविकासस्य मार्ग निर्देशिका - भारतराष्ट्रपतिः।
क्रीडामण्डलेन सह जीवितस्य विविधकर्मक्षेत्रेषु महिलानां भागभागित्वं विजयसाफल्यं च महत्परिवर्तनाय कारणं भवतीति ओलिम्पिक्स् मध्ये वनिताक्रीडकाणाम् उद्योगं विजयप्राप्तिं च स्मृत्वा राष्ट्रपतिना निरीक्षितम्।
भारतस्य पञ्चसप्ततितमं स्वतन्त्रतादिनम् आभारतम् आघुष् समाचर्यते।
St. Thoma's HS Ayroor Aluva. |
आगामि जूलाय् मासादारभ्य सकृदुपयोगाय निर्मितानां पलास्तिकवस्तूनां निरोधनम् भविष्यति।
अफ्गानिस्थाने स्त्रीणाम् अधिकारान् तालिबानः दमयति। तासाम् अवस्था भीतिजनका हृदयभेदका च भवति।
युणैट्टड् नेषन्स् > अफ्गानिस्थाने तालिबानेन स्वायत्तीकृतेषु प्रदेशेषु स्त्रीणां बालिकानां च अधिकारस्योपरि तालिबानः कठिननियन्त्रणं आनयति इति भीतिदानि प्रतिवेदनानि बहिरागच्छन्ति इति यु एन् मुख्यकार्यदर्शिना अन्टोणियो गुट्टरसेन प्रोक्तम्। स्वाधीनप्रदेशेषु तालिबानः विशिष्य स्त्रियः तथा माध्यमप्रवर्तकान् च लक्ष्यीकृत्य मनुष्याघिकारस्योपरि कठिननियन्त्रणानि आनयन्ति इत्येतत् माम् अस्वस्थं करोति इति गुट्टरसः माध्यमान् प्रति अवोचत्। सामान्यजनान् लक्ष्यीकृत्य कृतानि आक्रमणानि मानविकनियमस्य लङ्घनं तथा युद्घापराधकृत्यसमं च भवति इति गुट्टरसेन प्रोक्तम्।
Saturday, August 14, 2021
ओलिम्पिक्स् विजयिनां कृते नानाकर्ममण्डलव्यवहर्तॄणाम् अभिनन्दनानि संस्कृतभाषया - संस्कृतसमित्योः सविशेषः पदक्षेपः।
संस्कृतभाषया क्रीडकाभिनन्दनकार्यक्रमस्य उद्घाटनं वीडियोप्रकाशनेन प्रोफ. एम् के सानुवर्यः निर्वहति। |
कार्यक्रमस्यास्य उद्घाटनं केरलस्य प्रमुखः साहित्यनिरूपकः प्रोफ. एम् के सानुवर्यः 'वीडियोप्रकाशनेन' अकरोत्। भाषाप्रचारणाय सविशेषः आदर्शभूतश्च उद्यम एवायमिति सानुवर्यः उक्तवान्। सोSपि संस्कृतेन अभिनन्दनानि समार्पयत्। संस्कृतभाषायाः सामान्यजनेषु प्रचारः तद्वारा आभिमुख्यसंवर्धनमेवानेन कार्यक्रमेण लक्ष्यं कल्पते इति दक्षिणचिट्टूरविद्यालयस्य संस्कृतशिक्षकः तथा च 'केरल संस्कृताध्यापकफेडरेषन्' संघटनस्य एरणाकुलं जनपदाध्यक्षः अभिलाष् टि प्रतापः उक्तवान्। तस्य पत्नी शारीदासः कर्तेटं विद्यालयस्य शिक्षिका अस्ति।