OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 2, 2021

 आयुर्वेदस्य मूख्यलक्ष्यं स्वस्थस्य स्वास्थ्यसंरक्षणम्- प्रो. मेधावीलालशर्मा


 उदयपुरम्> विश्व -संस्कृतप्रतिष्ठान -राजस्थानम् -उदयपुरेण "वर्तमानपरिप्रेक्ष्ये आयुर्वेदस्य भूमिका" इति विषयमाधृत्य संस्कृतविदुषः डा. शक्तिकुमारशर्माणः स्मृतौ व्याख्यानमालारूपेण ओनलाइन-माध्यमेन संगोष्ठी आयोजिता| अस्यां व्याख्यानमालायां डा. राधाकृष्णन राजस्थान - आयुर्वेद-विश्वविद्यालयस्य मौलिकसिद्धान्त - संस्कृतविभागे सहाचार्यपदम् अलंकुर्वती डा. मोनिकावर्मामहोदया मुख्यवक्त्री आसीत्| डा. वर्मा अकथयत् यत् साम्प्रतं विप्लवकालः| नास्ति कश्चन संदेहः यत् विज्ञानस्योन्नत्या सममेव पर्यावरणप्रदूषणम् , आधयः,व्याधयः,सामाजिकापचाराः अपि वर्धिताः| अस्यां शृखलायां महारोगः कोविड -19 अप्यस्ति| यदा रोगस्य चर्चा भवति आयुर्वेदः सद्यः मस्तिष्के समुद्भवति| आयुर्वेदः वस्तुतः न केवलं चिकित्साशास्त्रं अपितु लोकयात्रायाः सुव्यवस्थितनिर्वहणमार्गोऽपि|आयुर्वेदः प्रकृतिगामी कलाविद् वर्तते|मोक्षैकलक्ष्यता एनम् आध्यात्मशास्त्रस्य समानं स्थापयति, पदार्थमीमांसा दार्शनिकस्वरूपं प्रददाति| तथा च सदाचारोन्मुखता नीतिशास्त्ररूपेण प्रतिष्ठापयति|

संक्षेपेण वक्तुं शक्यते यत् आयुर्वेदः समग्रजीवनपद्धतिं व्यनक्ति| सहस्रेभ्यः वर्षेभ्यः भारतीयाः आयुर्वेदमनुसरन्तः जीवेम शरदः शतम् इति चरितार्थं कृतवन्तः आयुर्वेदस्य प्रमुखोद्देश्यं स्वास्थ्यसंरक्षणमस्ति।

कार्यक्रमस्य अध्यक्षवर्येण गुजरातsयुर्वेदविश्वविद्यालयस्य जामनगरस्य पूर्व कुलपतिना प्रो. मेधावीलालशर्मा वर्येण भणितं यत् आयुर्वेदः इति

भारतीय वैद्यशास्त्रम्।

स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथमं भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम्। व्याख्यानकारः चक्रपाणिरपि एवं वदति

'आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।

'आयुर्वेद’ - शब्दस्य व्युत्पत्तिं साधयद्भिराचार्यैः प्रकटीकृतम् - आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। 'भावप्रकाश’ - टीकाकारोपि’आयुर्वेद’ शब्दम् एवं विशदीकरोति -

अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।

तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। 

अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।


चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति। मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।

आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।

हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।

मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥

मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।

आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।

संगोष्ठ्यां नैके संस्कृतसुधयः सम्मान्याः चोपस्थिताः अभवन्| राजस्थान विद्यापीठस्य संस्कृतविभागाध्यक्षः डा. महेश-आमेटमहोदयः कार्यक्रमममुं समचालयत्| अवसरेऽस्मिन् डा. शक्तिकुमारशर्माणः जीवनवृत्तं, कृतित्वं च विश्वसंस्कृतप्रतिष्ठानस्य चित्तौडप्रान्तस्य महिलाप्रमुखा डा.पङ्कजमरमटमहोदया प्राकाशयत्| संगोष्ठयामस्यां प्रदेशोपाध्यक्षः डा. प्रमोदकुमारवैष्णवः, श्रीप्रदीपभट्टः,श्रीमुकेशशर्मा, श्रीनारायणदीक्षितः, वर्षाजोशीमहोदया, डा. रमेशटांकः,डा. भगवतीशङ्करव्यासः, अन्तिमजैनः, अभिषेकदाधीचः इत्यादयः विद्वांसः प्रतिष्ठिताः च उपस्थिताः आसन्। कार्यक्रमे विश्वसंस्कृतप्रतिष्ठानस्य चितौडप्रान्तस्याध्यक्षः डा. भगवतीशङ्करव्यासमहोदयः अतिथीनां प्रतिभागिनां च धन्यवादमज्ञापयत्| डा. व्यासः अवदत् यत् स्व. डा. शक्तिकुमारशर्माणः विचारवीथिमनुसरन् संस्कृतं मातृभाषां कर्तुं प्रयतितव्यम्|

वीथीशुनकेभ्यः अपि भोज्याय अधिकारः अस्ति। तेभ्यः आदरः देयः इति दिल्ली उच्चन्यायालयेन आदिष्टम्।

नवदेहल्ली> वीथीशुनकेभ्यः भोज्याय तथा तेभ्यः भोज्यं दातुं नागरिकाणां च अधिकारः अस्ति इति दिल्ली उच्चन्यायालयेन निरीक्षितम्। पशूनां संरक्षणं नागरिकाणां धार्मिकं कर्तव्यं भवति। वन्ध्यंकृतान् तथा वाक्सिनीकृतान् शुनकान् गृहीतुं नगरसभाधिकारिणाम् अधिकारः नास्ति। कारुण्येन, आदरेेण च  वीथीशुनकाः पालयितव्याः इति उच्चन्यायालयेन आदिष्टम्। शुनकेभ्यः अवश्यं जलं अन्नं च लभते इति दृढीकरणमपि करणीयम्। खाद्य-पेयेभ्यः प्रत्येकं स्थलम् अपि सज्जीकरणीयम् इति राष्ट्रिय-जन्तुसंरक्षणसभां प्रति देहल्याः उच्चन्यायालयेन आदेशो दत्तः।

 यूरो चषकः - तुरीयपादस्पर्धाः अद्य आरभन्ते। 

> पादकन्दुकक्रीडाराधकाणाम् उत्साहं वितीर्य 'यूरोकप्' नामक पादकन्दुकक्रीडापरम्परायाः Samora चतुर्थांशपादस्पर्धाः अद्य रात्रौ सार्धनववादने [भारतसमयः] आरभन्ते। रूस्थे सेन्ट्पीटेर्स् बर्ग क्रीडाङ्कणे सम्पत्स्यमाना स्पेयिन-स्विट्सर्लान्ट् स्पर्धा एव चतुर्थांशक्रीडासु प्रथमा। 

  २४ दलैः सम्पन्ना यूरोचषकयुद्धभूमिः अष्टराष्ट्राणां स्पर्धाक्षेत्ररूपेण आकुञ्चितास्ति। स्पेयिन-स्विट्सर्लान्ट् स्पर्धां विना इट्टली-बल्जियम्, चेक् रिप्पब्लिक्-डेन्मार्क्, इङ्लण्ट् - युक्रैन् स्पर्धाश्च शुक्रशनिदिनयोः सम्पत्स्यन्ते। कुजवासरे बुधवासरे च पूर्वान्तिमस्पर्धा, तदनन्तरं रविवासरे अन्तिमस्पर्धा च सम्पत्स्यते।

 विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः-भारतस्य अभिमन्युः नूतनं प्रमाणं व्यरचयत्।

न्यूयोर्क्> विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः इति पदं भारतस्य बालकः प्राप्तवान्। द्वादशवयस्कः अभिमन्यु मिश्रः भवति एषः बालकः। हङ्गरिराष्ट्रस्य बुडापेस्ट नगरे आयोजिते चतुरङ्ग स्पर्धायामेव अस्य प्रामाणिको विजयः। १५ वयस्कं प्रति द्वन्दिं लियोण् लूक् मेन्डोण्के इत्याख्यं  विजित्य भवति अस्य प्रामाणिको विजयः।

Thursday, July 1, 2021

 अद्य राष्ट्रिय वैद्यदिनम्। 

कोविड् द्वितीयतरङ्गे आराष्ट्रं मृताः वैद्याः ७९८। 


  नवदिल्ली> भारते कोविड् महामार्याः द्वितीयतरङ्गे विनष्टप्राणानां वैद्यानां संख्या ७९८ इति भारतीय वैद्यक संघटनेन [ऐ एम् ए] प्रोक्तम्। दिल्लीमध्ये एव अधिकाधिकं वैद्याः मृताः -१२८ । अन्येषु राज्येषु एवम् - बिहारः [११५], यू पि [७९], महाराष्ट्रं [२३], केरलं [२४], पश्चिमवंगः [६२], राजस्थानं [४४], झार्खण्डः [३९],आन्ध्रप्रदेशः [४०] । 

  कोविडं विरुद्ध युद्धे अग्रिमस्थानमावहन्तः वैद्याः अनुमोदनमर्हन्तीति प्रधानमन्त्री नरेन्द्रमोदी प्राशंसयत्।

 वै. अनिलकान्तः केरलस्य आरक्षकाधिकारी। 

 अनन्तपुरी> राज्यस्य ३४तम आरक्षकाधिकारिरूपेण [डि जि पि] दिल्ली प्रदेशीयः १९८८ विभागस्थ ऐ पि एस् अधिकारी च वै अनिलकान्तः पदं स्वीकृतवान्। केरलस्य मार्ग सुरक्षा कम्मीषणर् स्थाने वर्तमानः सः लोकनाथ बेह्रस्य सेवानिवृत्त्या जाते स्थाने एव नियुक्तः। 

   गतदिने आरक्षकास्थाने सम्पन्ने कार्यक्रमे लोकनाथ बह्रातः अधिकारदण्डं स्वीकृत्य नूतनपदं समारोहयत्।

 विनोदसञ्चारिणः स्पृहयन् अट्टपाटिदेशस्य सूर्यकान्तिकेदारः।


 अट्टपाटि (केरलम्)> कुन्नन्चालप्रदेशेषु सूर्यकान्तिः विकसिता। प्लामरं सरसिक्कमुक्कस्थे यानमार्गस्य पार्श्वे पलनिस्वामिकौण्डर् नामकस्य कृषकस्य केदारे अर्ध एकर् परिमितौ भूमौ एव सूर्यकान्तिः प्रफुल्लिता। सूर्यकान्तिक्षेत्रं द्रष्टुं बहवः विनोदसञ्चारिणः विविधेभ्यः प्रदेशेभ्यः आगच्छन्ति। अर्ध एकर् परिमितौ भूमौ सार्धद्विकिलो मितं बीजम् उप्त्वा अनेन कृषिः समारब्धा। एतस्मात् १५० किलो परिमितं तैलबीजं लप्स्यते। तस्मात् ६० लिट्टर् तैलमपि लप्स्यते। विंशति वर्षात् पूर्वं पलनिस्वामिकौण्डरः सूर्यकान्त्याः कृषिं कृतवान् आसीत्। अन्ये कृर्षकाः अपि सूर्यकान्तिकृषिं अधिकतया कृतवन्तः आसन्। तत्समये तैलमर्दनाय यन्त्रशाला समीपे आसीत्। इदानीं कृषकाः सूर्यकान्तिकृषिं परित्यक्तवन्तः तदा यन्त्रशालायाः प्रवर्तनमपि स्थगितम्। इदानीं तैलमर्दनाय सुविधा विदूरस्थे कोयम्पत्तूर् देशे भवति।

कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चेतव्य:।

 नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासः दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्त-बाधितानाम् आर्थिक-समाश्वासं दातुं व्यवस्था अस्ति। तत्समानमेव राष्ट्रियदुरन्त-निवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि  अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारी अपि प्रकृतिदुरन्तत्वेन प्रख्यापिता अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टम्।

Wednesday, June 30, 2021

 सुधर्मा  पत्रिकायाः सम्पादक: के.वी.सम्पत्कुमारः दिवङ्गतः।


 बडुलूरु> संस्कृतजगति प्रथितयशः पद्मश्री के.वी.सम्पत्कुमारः अद्य पञ्चत्वे निलीनः।  सुधर्मेति दैनिक संस्कृतवार्तापत्रस्य सम्पादकः सम्पत्कुमारः वार्तासम्पादनाय प्रतिदनमिव अद्यापि कार्यालयं सम्प्राप्तः। वार्तासम्पादनकाले जायमानेन हृदयाघातेन असौ संस्कृतपुत्रः चिरकालाय परमेश्वरस्य चरणौ अगच्छत्। समग्रं संस्कृतजगदनेनाघातेन पीड्यमानो विद्यते। 'सम्प्रतिवार्ताः'-पत्रिकायाः पक्षतः तस्मै विनम्रश्रद्धाञ्जलिः समर्प्यते। तदीयात्मनः शान्तये प्रार्थयामः।

 संस्कृत-चलनचित्र गानानि  यू ट्यूब् द्वारा प्रकाशितानि।


 अनन्तपुरी> संस्कृतभाषायां प्रप्रथमतया निर्मितस्य  शिशुकेन्द्रीकृत-चलन-चित्रस्य गीतानि यूट्यूब् द्वारा ( https://youtu.be/E_y787RowWM ) प्रकाशितानि। मधुरस्मितम् इति चलन-चित्रस्य मधुरगीतानि एव एते। 

अस्य चलनचित्रस्य निदेशकः सुरेष् गायत्री भवति। गीतानां रचयितारः बिजिला किशेरः सुरेष् विट्टियरं  डा. कुमार् च भवन्ति। राजेष् नारायणेन गीतानि संङ्गीतनिर्देशेन पुष्टी कृतानि। रुग्मा, ऐफुननुजुं,  आर्या एं नायर्, अपर्णा श्रीकुमार्, अद्वैत् प्रभृतिभिः गीतानि श्रवणसुभगतया आलपितानि।  चलनचित्रस्य चित्रस्य प्रदर्शनकाले बहवः विद्यालयछात्राः चलनगृहं गत्वा चित्रं दृष्टवन्तः सन्ति।