अद्य विश्व-बालविरुद्ध श्रमदिनम्।
https://livesanskrit.com/Sansgreet
कर्णाटके ११ जनपदेषु पिधानं दीर्घीकृतम्।
बेंगलुरु> कर्णाटकराज्ये कोविड् व्यापनं तीव्रतया वर्तितेषु ११ जनपदेषु पिधानं जूण् २१तम दिनाङ्कं यावत् दीर्घीकृतम्। रोगदृढीकरणमानम् आकुञ्चितेषु बेंगलुरु अभिव्याप्तेषु २० जनपदेषु १४ तमादारभ्य पिधाने लाघवं भविष्यति।
मुख्यमन्त्रिणः बी एस् यदूरियप्पस्य नेतृत्वे कृते मन्त्रिणां अधिकारिणां च उपवेशने आसीदयं निर्णयः।
केरले सर्वत्र अन्तर्जालसेवां सज्जीकर्तुं परियोजना - मुख्यमन्त्री।
अनन्तपुरी> केरलानां सर्वेभ्यः छात्रेभ्यः 'ओण् लैन् शिक्षां' दृढीकर्तुं सर्वेषु प्रदेशेषु अन्तर्जालसुविधां लब्धुं समयानुरोधिनीं परियोजनाम् आविष्करिष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। एतदर्थं ऐ टि सचिवमुख्यस्य संयोजकत्वे टेलिकों सेवादातॄणाम् अनुबन्धविभागानां सचिवप्रमुखानां च समितिः रूपीकृता। चतुर्दिनाभ्यन्तरे प्रवर्तनरूपरेखा सज्जीकरणीया इति मुख्यमन्त्रिणा निर्दिष्टम्।
कोविडस्य तृतीयतरङ्गं प्रतीक्षमाणेSस्मिन्नवसरे ओण् लेन् शिक्षणमनुवर्तनीयम्। तदर्थं अन्तर्जालसुविधा तटस्थं विना संचालनीया। एतदनुयुक्ताः अभियोजनाः आविष्कर्तुं सेवादातारः अभ्यर्थिताः।
विमानम् अपहृत्य पाकिस्थानं नेष्यति इति युवकस्य भीषा। युवकः आरक्षकेण संग्रहीतः।
भोपाल> भोपाल इन्डोर् इत्यादि विमानपत्तनात् विमानम् अपहृत्य पाकिस्थानं नेष्यति इति भीषयन्तः युवकः मध्यप्रदेशस्य आरक्षकेण संग्रहीतः। मङ्गलवासरे सायाह्ने लब्धां भीषां आधारीकृत्यैव युवकः रक्षिपुरुषेण संगृहीतः।
भोपाले राजा भोजविमानपत्तने एव दूरवाणीसन्देशः लब्धः। अनन्तरं विमानपत्तनाधिकारिणः आरक्षकालये वार्तां आवेदयत्। मङ्गलवासरे रात्रौ एव भोपालतः शतं कि. मि. दूरतः षुजल्पूर् देशात् युवक: संग्रहीतः कारागारे बन्धित: च इति गान्धिनगरस्य आरक्षककार्यालयस्य उपाधिपेन अरुण् शर्मणा आवेदितम् । भीषासन्देशानन्तरं भोपाले विमानपत्तनस्य सुरक्षाम् अवर्धयत्। मङ्गलवासरे भोपालतः मुम्बे देशं प्रति प्रस्थितं विमानं सूक्ष्मपरिशोधनानन्तरम् एव प्रस्थितम्।
केरले 'ट्रोलिंङ्' निरोधः समारब्धः।
कोच्ची> केरलस्य तीरसमुद्रे अद्य आरभ्य ट्रोलिंङ् नामकस्य यन्त्रवत्कृत-यानमुपयुज्य मत्स्यबन्धनस्य निरोधः विहितः। मण्सूण् वर्षाकालः मत्स्यानां प्रजननकालः इत्यतः समुद्रे मत्स्यसम्पत्ति-संरक्षणाय कालानुसृतमयं निरोधः अनुवर्तमानः अस्ति। जुलाई ३१ दिनाङ्कपर्यन्तं ५२ दिनानि यावत्ट्रोलिंङ् निरोधः विहितः।
पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।
नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।
चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।
विमानं व्योमावर्ते निपत्य त्रयः जनाः व्रणिताः।
निश्शुल्कवाक्सिनं दास्यति- नीतिमार्गं परिवर्त्य केन्द्रशासनम्।
नवदिल्ली> कोविड्वाक्सिनस्य प्रदाननीतिमार्गे सुप्रधानं परिवर्तनं केन्द्रप्रशासनेन आयोजितम्। १८ वयोपर्युक्तानां कृते अस्य मासस्य २१ दिनाङ्कादारभ्य निश्शुल्केन वाक्सिनं दास्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। कोविड्व्यापनानन्तरं विधत्ते नवमे राष्ट्राभिसम्बोधने आसीत् प्रधानमन्त्रिणः इदमुद्घोषणम्।
राष्ट्रे उत्पाद्यमानानि ७५% वाक्सिनानि केन्द्रप्रशासनं साक्षात्संभृत्य राज्येभ्यः वितरिष्यति। अवशिष्टानि २५% वाक्सिनानि निजीयातुरालयैः क्रेतुम् शक्यन्ते। एतदर्थं राज्यसर्वकाराणां निरीक्षणं नियन्त्रणं चावश्यकम्।
चीने त्र्यधिकवयस्कान् वाक्सिनीकर्तुम् अनुज्ञा।
बय्जिङ्> चीनराष्ट्रे त्रिभ्य आरभ्य सप्तदशवयःपर्यन्तं बालेभ्यः अपि 'कोरोणावाक्'नामकं वाक्सिनं दातुमनुज्ञा दत्ता। सर्वकारस्य स्वामित्वे वर्तमानेन ग्लोबल् टैम्स् माध्यमेन एवेयं वार्ता बहिः प्रसारिता।
मनुष्येषु वाक्सिनस्य प्रथम द्वितीयस्तरपरीक्षणानि पूर्णतां प्राप्तानि। १-१७ वयस्काः शतशः बालसन्नद्धप्रवर्तकाः परीक्षणस्यास्य अंशाः अभवन्। वाक्सिनं फलप्रदमिति सिनोवाक् वाक्सिननिर्माणसंस्थायाः अध्यक्षेण यिन् वेय्तोङ् इत्यनेनोक्तम्।
अनुसर अथवा प्रत्याघाताय सज्जा भव इति ट्विटर् प्रति भारतसर्वकारस्य अन्त्यशासनम्।
-उणिकृष्णन् कुशस्थली -
उपराष्ट्रपतिः वेङ्कयनायिडुवर्यस्य वैयक्तिक-ट्विट्टर् लेखात् (personal Account) ट्विट्टर् सत्यापनपदकं (twitter verification badge) अपाकृतम् आसीत्। अस्मिन् सन्दर्भे आसीत् सर्वकारस्य अतित्वरितं अन्त्यशासनम्। गतषण्मासपर्यन्तं प्रवेश: (Login) न कृतः इति कारणात् एव ट्विट्टर् द्वारा blue tick निर्मार्जितम्।