OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, May 4, 2021

 प्राणवायुदुर्भिक्षः - कर्णाटके २४ कोविड्रोगिणः मृताः। 

  मैसुरु> कर्णाटकराज्ये चामराजनगरस्थे 'चामराजनगर् इन्स्टिट्यूट् ओफ् मेडिकल् सयन्स्' नामके सर्वकारातुरालये प्राणवायोः दौर्लभ्यतया २३ कोविड्रोगिणः अन्यस्मिन् निजीयातुरालये एकः रोगी अपि गतदिने मृत्युमुपगताः। कृत्रिमश्वसनसहाय्यां [Ventilator] प्रवेशिताः रोगिणः एव मृताः। 

   सर्वकारातुरालये सोमवासरे उषस्येव प्राणवायोरभावः स्यादिति वार्ता बहिरागता आसीत्। अतः मैसुरु वैद्यककलालयात् ५० गोलकानि प्रेषितानि। किन्तु तानि अपर्याप्तानि जातानि।

Monday, May 3, 2021

 केरले 'विजयतरङ्गः'।


    कोच्ची> केरले विधानसभानिर्वाचने मुख्यमन्त्रिणः पिणरायि विजयस्य व्यक्तिप्रभावेण सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यः तस्य शासनस्यानुवर्तनं दृढीचकार। १४० स्थानेषु ९९ स्थानानि वामसख्येन प्राप्तानि। मुख्यविपक्षदलं कोण्ग्रस् नेतृत्वे विद्यमानः ऐक्यजनाधिपत्यसख्यः अवशिष्टानि ४१ स्थानानि प्राप। स्वप्रभावं प्रकाशयितुम् भाजपानेतृत्वे विद्यमानेन एन् डि ए सख्येन अत्युत्साहेन कृतः भगीरथप्रयत्नः विफलः जातः। किञ्च हस्तागतं स्थानमेकं विनष्टं जातं च।

 तमिल्नाडे डि एम् के सख्यः विजयीभूतः। 


  चेन्नै> संवत्सरदशकस्यानन्तरं तमिलनाट् राज्ये एं के स्टालिनेन नीयमानस्य डि एम् के दलस्यनेतृत्वे विद्यमानाय सख्याय राज्यशासनं प्रत्यागच्छति। २३४ स्थानेषु १५६ अधिकानि स्थानानि डि एम् के सख्याय लब्धानि। विद्यमानशासनपक्षेण ए ऐ ए डि एम् के सख्येन ७८ स्थानानि प्राप्तानि। 

   नूतनराजनैतिकदलं रूपीकृत्य १८० अधिकेषु स्थानेषु स्पर्धितवते चलच्चित्राभिनेतुः कमलहासस्य 'मक्कल् नीतिमय्यं' दलाय च शून्यं स्थानमलभत। कमलहासः अपि कोयम्पत्तूर् मण्डले पराजितः।

Sunday, May 2, 2021

 संस्कृतपण्डितश्रेष्ठः प्रोफ. आर् वासुदेवन् पोट्टिः दिवंगतः। 


   अनन्तपुरी> भारतस्य संस्कृतपण्डितेषु अग्रगण्यः राष्ट्रपतिपुरस्कारजेता महामहोपाध्यायः आर्. वासुदेवन् पोट्टिवर्यः [९२] अद्य अनन्तपुर्यां दिवं प्राप्तः। 

  संस्कृतव्याकरण-वेदान्त-साहित्यादिविषयेषु लब्धावगाहः 'पोट्टिवर्यः' हिन्दीमलयालभाषयोरपि पण्डित आसीत्। कर्णाटकराज्यस्य दक्षिणकन्नडजनपदे लब्धजन्मनः तस्य विद्याभ्यासादिकं केरले एव सम्पन्नम्। अनन्तपुर्यामुषित्वा शिक्षामण्डले उन्नतबिरुदान् सम्पादितवान्। संस्कृतव्याकरणे महोपाध्याया इति बिरुदं, न केवलं तत्, ततःपरं वेदन्ते साहित्ये च आचार्यः इति बिरुदे, ततः मलयालभाषायां साहित्यविशारदं हिन्दीभाषायामाचार्यपदं च सः सम्पादितवान्। 

  केरलस्य विविधकलालयेषु वेदान्तविभागे प्राचार्यः, श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये वेदान्तविभागस्य 'डीन्', 'केरल भाषा इन्स्टिट्यूट्' मध्ये मलयालशब्दकोशस्य सहसम्पादकः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठं नामकमानितविश्वविद्यालये प्रयुक्तिपुरुषमुख्यः इत्यादिरूपेण सः स्वस्य कर्ममण्डले व्यराजत। सेवानिवृत्यनन्तरं दीर्घकालं सः केरलसर्वकारस्य संस्कृतपाठपुस्तकसमित्याः अध्यक्षो भूत्वा संस्कृतशैक्षिकक्षेत्रं सम्पन्नं कारितवान्। तथाच केन्द्रसाहित्य-अक्कादम्यां संस्कृतोपदेशसमित्यङ्गः , एन् सि ई आर् टि संस्थायाः पाठपुस्तकसमित्यङ्गः , केरलस्य विभिन्नकलाशालासु परीक्षा-प्रश्नपत्रसमित्यङ्गः, सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् मध्ये 'ओणररि प्रोफसर्' इत्यादिरूपेण स्वस्य वैज्ञानिकधिषणां बहुधा प्रकाशितवान्। 

 वरदराजाचार्यस्य लघुसिद्धान्तकौमुदी, केरलवर्मणः गुरुपुरेशस्तवं, बल्लालसेनस्य भोजप्रबन्धः, शङ्कराचार्यस्य आत्मानात्मविवेकः इत्यादीनां शास्त्रग्रन्थानां कैरल्यां संस्कृते च अनुवादव्याख्यानानि तस्य मुख्यकृतिषु अन्यतमाः विराजन्ते। 

   बहुविधैः पुरस्कारैः वासुदेवन् पोट्टिमहोदयः बहुवारं पुरस्कृतः आसीत्। तृप्पूणित्तुरा विद्वत्सभातः वेदान्तसुवर्णमुद्रा, पट्टाम्पी श्रीनीलकण्ठविद्वत्सभायाः शास्त्ररत्नसुवर्णमुद्रा, विश्वसंस्कृतप्रतिष्ठानस्य पण्डितरत्न-एम् एछ् शास्रीपुरस्कारौ, उडुप्पी तुलु ब्राह्मणसमाजात् श्रीराघवेन्द्रसाहित्यपुरस्कारः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठात् महामहोपाध्यायपदं, राष्ट्रपतेः बहुमतिपत्रं च तेन लब्धेषु पुरस्कारेषु कतिपयाः भवन्ति। 

  संस्कृतमातुः प्रियपुत्रस्य देहवियोगः संस्कृतवाङ्मये महतीं शून्यतां जनयति इति तदीयाः सहस्रशः शिष्याः गणयन्ति। पोट्टिमहोदयस्य अन्त्येष्टिः पुत्तन्कोट्टा रुद्रभूमौ सम्पन्ना।

 निर्वाचनफलम् अद्य। 

   नवदिल्ली> असमः, केरलं, तमिल् नाड् , पश्चिमवंगः इत्येतेषु राज्येषु तथा पोण्टिच्चेरि केन्द्रशासनप्रदेशे च सम्पन्नानां विधानसभानिर्वाचनानां मतगणना अद्य प्रातः अष्टवादने समारभ्यते। नववादनादारभ्य प्रथमफलसूचनाः लप्स्यन्ते। सायं सम्पूर्णं फलं प्रतीक्षते। 

   कोविड्मार्गनिर्देशान् कर्कशं परिपाल्य एव मतगणनाकार्यक्रमाः प्रचलन्ति। संघीभूय आह्लादप्रकाशनानि निर्वाचनायोगेन निरुद्धानि सन्ति।

 ओक्टोबर् मासे तृतीयतरङ्गमिति जाग्रतासूचना। 

   बङ्गलुरु> ओक्टोबर् नवम्बर् मासद्वये कोविड्महामार्याः तृतीयः तरङ्गः भविष्यतीति कर्णाटकस्य साङ्केतिकोपदेशसमित्या जाग्रतासूचना दत्ता। कर्णाटकराज्यं भवेदस्य प्रभवकेन्द्रः। अलब्धवाक्सिनेषु बालकेषु रोगव्यापनं तीव्रं भविष्यति इति सर्वकारेण नियुक्तायाः समित्याः पर्यवेक्षणम्।

Saturday, May 1, 2021

भारते कोविड्बाधा प्रतिदिनं चतुर्लक्षमुपगच्छति। 

   नवदिल्ली> गतदिने भारते कोविड्बाधितानां संख्या ३,८६,४५२ जाता। इतःपर्यन्तम् अत्युन्नता गणना। अनेन राष्ट्रे आहत्य १,८७,६२,९७६ जनाः कोविड्बाधिताः अभवन्। 

    विविधराज्येषु ३१,७०,२२८ रोगिणः परिचर्यायां वर्तन्ते। केन्द्रस्वास्थ्यमन्त्रालयस्य गणनामनुसृत्य गत२४होरासु ३,४९८ जनाः कोविड्बाधया मृत्युमुपगताः। आहत्य मृत्युसंख्या २,०८,३३० अभवत्। इतःपर्यन्तं १,५३,८४,४१८ जनाः स्वस्थीभूताः जाताः। 

Friday, April 30, 2021

 भारताय साहाय्यहस्तं प्रसार्य लोकराष्ट्राणि।

  नवदिल्ली> कोविड् महामार्यााः तृतीयतरङ्गं प्रतिरोद्धुं भारताय चत्वारिंशत्परं राष्ट्राणि साहाय्यं वाग्दानमकुर्वन्। विविधेभ्यः राष्ट्रेभ्यः ५५० प्राणवायोः उद्पादनोपकरणानि ४००० कोण्सेन्ट्रेटर् उपकरणानि, १०,००० प्राणवायुसम्भरण्यः च प्रतीक्षन्ते इति भारतस्य विदेशकार्यकार्यदर्शिना हर्षवर्धन श्रृङ्गलेन प्रोक्तम्। 

  अमेरिक्का, रूस्, ब्रिट्टनं, फ्रान्स्, जर्मनी, जापानं, गल्फ राष्ट्राणि, भारतस्य प्रातिवेशिकराष्ट्राणि च भारतसेवायै सन्नद्धानि भवन्ति।

Thursday, April 29, 2021

 कोविड् वाक्सिनस्य त्रितीयमात्रया आजीवनान्तरोगप्रतिरोधं साध्यम् वा ? 

   चेन्नै> भारत बयोटेक् संस्थया निर्मितं कोवाक्सिन् इति औषधस्य त्रितीयमात्रया आजीवनान्तरोगप्रतिरोधं भविष्यति वा इति अनुसन्धानां प्रचलति। अस्य भागतया चेन्नै मध्ये सप्तजनाः वाक्सिनः स्वीकृताः। कोवाक्सिन् स्वीकृत्य षण्मासानन्तरं भवति एतैः तृतीयमात्रा स्वीकृता इति आवेद्यते। नवदिल्ली पट्न हैद्राबाद इत्यादि अष्टसु प्रदेशेषु आहत्य १९० जनाः प्रतिरोध-वाक्सिनस्य त्रितीय मात्रां स्वीकरिष्यन्ति। एतस्मिन् गणे १८ तः ५५ वयोमिताः भवन्ति। तान् षण्मासपर्यन्तं निरीक्ष्ये इति अनुसन्धानस्य अधिकारिणा डो. सत्यजित् मोहापत्रया उक्तम्।

Wednesday, April 28, 2021

 वाक्सिनस्य प्रथममात्रया गृस्य कोविड्व्यापनं ५०% न्यूनीकृतम् - यू के सर्वेक्षणम्। 

   लण्टन्> आस्ट्रोसैनिका वाक्सिनस्य प्रथममात्रया कुटुंबपरिवारेषु कोविड्व्यापनं ५०% न्यूनीकृतम् इति यू के सर्वेक्षणस्य फलं प्रकाशितम्। प्रथममात्रां स्वीकृत्य सप्ताहत्रयानन्तरं रोगबाधितात् तस्यपरिवारे रोगव्यापनाय सन्दर्भः ३८ -४९% न्यूनः इति पब्लिक् हेल्त् इंग्लन्ट् द्वारा कृते सर्वेक्षणे अवगतम्। २४००० गृहेषु ५७००० परिवारेषु सर्वेक्षणं कृत्वा लब्धं फलं भवति इदम्। ब्रिट्टणस्य वाक्सिनीकरणप्रक्रियया ६० उपरि वयस्कानां गणेषु १०४०० मरणानि रोधितानि इति पूर्वम् अवगतम् आसीत्।