संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः।
आजीवनं सः संस्कृतसंवर्धनाय प्रयत्नरतः आसीत्। एतदर्थम् सर्वत्र देशे तस्य भ्रमणम् आसीत्। बहूनि पुस्तकानि सः रचितवान्। महाराष्ट्रे सर्वकारीयरचनायां संस्कृतसंघटकरूपेण सः कार्यं कृतवान्, पाठ्यपुस्तकमण्डल्याम् अध्यक्षत्वेन तेन महत्कार्यं कृतम्। विश्वसंस्कृतप्रतिष्ठाने स महामन्त्री रुपेण कार्यं कृतवान्। प्रतिष्ठाने संस्कृतकार्ये सर्वदा तस्य मार्गदर्शनं प्रोत्साहनं च आसीत्। तस्य निर्गमनेन संस्कृतजगतः महती हानिः जाता अस्ति।
तस्य कुटुम्बे पुत्रः बदिउज्जमा बिराजदार, कन्याद्वयं, पौत्रादयाः च सन्ति। अद्य अन्त्ययष्टिः भविष्यति।