"माता भूमि: पुत्रोऽहं पृथिव्या:"
लेखः-दीपकवात्स्यः www.samprativartah.in/sanskrit literature
भारते प्रतिदिनकोविड्रोगिणः त्रिलक्षसमीपं प्राप्तम्।
नवदिल्ली> भारते कोविड्रोगिणः प्रतिदिनसंख्या भीतिदा संवर्धते। गतदिने २,९५,०४१ जनाः कोविड्बाधिताः अभवन्। अनेन आहत्य १,५६,१६,१३० जनाः कोविड्बाधिताः इति सर्वकारगणनातः स्पष्टीक्रियते।
ह्यः एव २०२३ जनाः कोविड्बाधया मृत्युपुरिं प्राप्ताः। आहत्य १,८२,५५३ जनाः अनेन रोगेण कालवशं गताः। इदानीं २१,५७,८३८ रोगिणः परिचर्यायां वर्तन्ते। ह्यः १,६७,४५७ जनाः रोगमुक्ताः जाताः। १३ कोट्यधिकाः वाक्सिनीकृताः इति सर्वकारप्रस्तावे सूच्यते।
वाक्सिनस्य निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां साहाय्यं निश्चितम्।
नवदिल्ली> राष्ट्रस्य वाक्सिन् निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां धनसाहाय्यं प्रदातुं केन्द्रसर्वकारेण निश्चितम्। सीरं इन्स्टिट्यूट् भारतबयोटक् इत्याख्ये संस्थे च औषधनिर्माणं कुर्वत:। पूर्वधनराशिरूपेण सीरं इन्स्टिट्यूट् संस्थायै ३००० कोटि रूप्यकाणि लप्स्यन्ते भारतबयोटक् संस्थायै १५६७ कोटि रूप्यकाणि च लप्स्यन्ते। आहत्य ४५०० कोटि रूप्यकाणां साहाय्यं भविष्यति। मेय् मासस्य प्रथम दिनाङ्कतः अष्टादश वयस्कादारभ्य सर्वेभ्यः नागरिकेभ्यः वाक्सिनौषधं दास्यति इति ख्यापनानन्तरम् आसीत् धनसाहाय्यम् अधिकृत्य विज्ञापनम्।
संस्कृतनगरपदमाप्तुं वाराणसी ।
लख्नौ> प्रधानमन्त्रिणः मण्डले अन्तर्भूतं वाराणसीनगरं भारतस्य प्रथमं संस्कृतनगरम् इति पदप्राप्त्यर्थं उत्तरप्रदेशसर्वकारेण प्रयत्नमारभ्यते। अधुना ११० अधिकाः संस्कृतविद्यालयाः वाराणसी नगरे प्रवर्तन्ते।
संस्कृतभाषाप्रवृद्ध्यर्थं सविशेषं निदेशकस्थानं [Directorate] स्थापयिष्यति। वार्तालेखाः संस्कृते प्रकाशयितुमारब्धाः। मुख्यमन्त्री योगी आदित्यनाथः स्वकीयट्वीट्सन्देशान् संस्कृते कर्तुमारब्धवान्।
उत्तरप्रदेशस्य 'सेकन्टरि संस्कृत शिक्षासमित्याः' अधीने ११६४ संस्कृतविद्यालयाः सन्ति। तेषु ९७,०००अधिकाः छात्राः अध्ययनं कुर्वन्ति च।
१८ वयोपर्यन्तेभ्यः अपि वाक्सिनम्।
नवदिल्ली> भारते १८ वयोपरि ४५ वयस्केभ्यः युवकेभ्य अपि कोविड्वाक्सिनसुविधां निर्णीय केन्द्रसर्वकारेण स्वीयवाक्सिननये समग्रं परिष्करणं कृतम्। गतदिने प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे समायोजिते उपवेशने एवायं निर्णयः कृतः। मेय्मासस्य प्रथमदिनादारभ्य युवकेभ्यः वाक्सिनीकरणसुविधा लप्स्यते।
परिष्कृतमार्गनियमान् अनुसृत्य सामान्यविपण्यामपि वोक्सिनौषधं लप्स्यते। मूल्यविषये निर्णयः करणीयः। उत्पाद्यमानानाम् औषधानामर्धभागः केन्द्रसर्वकाराय राज्यसर्वकारेभ्यश्च वितरणं करणीयम्।
कुजग्रहे उदग्रयानम् अटयत्। 'नास' संस्थायै प्रयत्नसाफल्यम्
आविश्वं कोविड्बाधिताः १४.१४कोटिः।
वाषिङ्टण्> रविवासरस्य गणनामनुसृत्य आविश्वं कोविड्बाधितानां संख्या १४कोट्यधिक १४लक्षमतीता। रोगबाधया मृतानां संख्या ३० लक्षमतीताः। १२कोट्यधिकाः रोगमुक्तिं प्राप्ताः च।
त्रिकोट्यधिक२१लक्षाधिकेषु जनेषु रोगदृढीकृतं यू एस् राष्ट्रमेव रोगव्यापने अग्रस्थं भवति। भारतं, ब्रसील्, फ्रान्स्, रूस्, ब्रिट्टन्, तुर्की, इट्टली, स्पेयीन्, जर्मनी इत्येतेषु राष्ट्रेषु अत्यधिकाः रोगिणः वर्तन्ते।
८७कोटि वाक्सिनं स्वीकृताः - आविश्वं कोविडस्य प्रत्यौषधं स्वीकृतवन्तः जनाः ८७ कोट्यतीताः। शनिवासरपर्यन्त-गणनामनुसृत्य १६५ राष्ट्रेषु ८७ कोट्यधिक८०लक्षं जनाः स्वीकृतवाक्सिनाः सन्ति। किन्तु केषुचन राष्ट्रेषु वाक्सिनवितरणं मन्दगत्यामेव प्रचलति।
३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति।
नवदिल्ली> राष्ट्रे ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति। तेषु राष्ट्रस्य मुख्य औषध निर्माणसंस्थायाः औषधान्यपि अन्तर्भवन्ति। वेदनासंहारिणः, अन्टीबयोटिक्, अलर्जी, कासादि रोगेषु उपयुज्यमानानि विंशत्यधिकत्रिशतात्परं औषधसंयुक्तानि (३२०+) निरोधनाय निर्णीतेषु औषधसंयुक्तानां पट्टिकायां सन्ति। औषधानां फलप्राप्तिम् अधिकृत्य विशेषसमितेः शङ्कानिवारणाय उपवेशनं भविष्यति। तदनन्तरमेव विषयेस्मिन् अन्तिमनिर्णयः स्वीकरिष्यति। ४०८ संयुक्तौषधानि एवं पूर्वं निरोधितानि सन्ति।
केरले कोविड्व्यापनमतितीव्रम् ; गतदिने त्रयोदशसहस्राधिकाः नूतनरोगिणः।
अनन्तपुरी> केरले कोविड्रोगस्य द्वितीयं तरङ्गमतिशक्तम्। गतदिने ८१,२११ जनानां स्रवशोधने सम्पन्ने १३,८३५ जनेषु कोविड्बाधा दृढीकृता। परिशोधनायाः स्पष्टतामानं [rate of test positivity] १७.०४ इति वर्धितम्। किन्तु मृत्युमानं ०.४ इति न्यूनातिन्यूनमस्ति।
गतदिनद्वयेषु राज्ये आयोजिते बृहत्परिमाणस्रवविमर्शे [massive swabtest] त्रिलक्षाधिकाः स्रवादर्शाः सञ्चिताः। तेषु कश्चिदंशस्य फलमेव ह्यः बहिरागतम्। कोविड्बाधितानां चिकित्सार्थं राज्यं पूर्णतया सज्जमिति स्वास्थ्यमन्त्रिणी के के शैलजा अवोचत्।