यु ए इ राष्ट्रस्य कुजयोजना सर्थका अभवत्। होप् प्रोब् भ्रमणपथं प्राप्तम्।
दुबाय्> अरब् देशस्य प्रथम कुजयोजना विजयपथं प्राप्ता। यू ए ई राष्ट्रेण विक्षिप्तं होप् प्रोब् बाह्याकाश पेटकं कुजस्य भ्रमणपथं प्राप्तम्। अरब् प्रदेशमखिलम् उत्सवसमानम् अन्तरिक्षं वर्तते। कुजस्य जल-धूली सान्निध्यम् अधिकृत्य आवेक्षणमेव होप् प्रोब् पेटकेन क्रियते। २१२० संवत्सरे कुजग्रहे मनुष्वाससंस्थापनम् भवति लक्ष्यम्। गतसंवत्सरे जुलाई मासे होप् प्रोब् बाह्याकाशवाहनं भ्रमणपथं प्राप्तम् आसीत्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Wednesday, February 10, 2021
Monday, February 8, 2021
भारत-नेप्पालसंबन्धमार्गः उद्घाटितः।
काठ्मण्डु> भारतसीमां नेप्पालराष्ट्रस्य विविधाशान् प्रदेशान् सम्बध्यमानः नूतनः मार्गः उभाभ्यां राष्ट्राभ्यां संयुक्ततया उद्घाटितः। भारतसीमायां लक्ष्मीपुरस्थात् बलारातः नेप्पालस्य सरलाहिजनपदस्थं गथय्यां सम्बध्नाति अयं मार्गः।
१०८ कि.मी परिमितदूरयुक्तस्य अस्य मार्गस्य निर्माणाय भारतेन ४.४४कोटि रूप्यकाणि दत्तानि। नूतना वीथी उभयोरपि राष्ट्रयोः जनानां कृते नितरां प्रयोजकीभविष्यतीति भारतीयनयतन्त्रकार्यालयेन प्रस्तुतम्।
उत्तरघण्डे हिमश्रृङ्गः अधःपतितः। १५० जनाः अप्रत्यक्षाः। अलकनन्दासेतुः भग्नः।
Sunday, February 7, 2021
पञ्चाशद्वयस्कातीतेभ्यः कोविड्वाक्सिनं मार्च् मासे।
नवदिल्ली> भारते पञ्चाशदतीत वयस्केभ्यः आगामिमासादारभ्य कोविड्वाक्सिनवितरणम् आरप्स्यते इति स्वास्थ्यमन्त्रिणा हर्षवर्धनेन निगदितम्।
गतदिनं यावत् ५३ लक्षं जनेषु वाक्सिनीकरणं कृतम्। स्वास्थ्यप्रवर्तकानाम् इतरेषां सेनामुखे वर्तमानानां च कृते एव आभारतं प्रथमद्वितीयसोपाने वाक्सिनीकरणं प्रदत्तम्। तृतीयसोपानतया एव ५० अतीतानां कृते वाक्सिनीकरणम्।
१११ सामाजिकविद्यालयाः अपि श्रेष्ठाः अभवन्।
अनन्तपुरी> केरले १११ सामाजिकविद्यालयाः अपि गतदिने श्रेष्ठताकेन्द्राणि अभवन्। सामाजिक शिक्षणविभागस्य भौतिकसुविधाविकासाभियोजनायाः अंशतया 'किफ्बि'नामकधननिधिमुपयुज्य निर्मितानां १११ विद्यालयानां समुद्घाटनं मुख्यमन्त्रिणा पिणरायि विजयेन दृश्यश्रव्यमाध्यमद्वारा [Video Conference] कृतम्।
राज्यस्य विप्रकृष्टग्रामेषु वर्तमानेभ्यः छात्रेभ्यः अपि अन्ताराष्ट्रस्तरीया श्रेष्ठा शैक्षिकसुविधा लभते इत्येव अस्याः अभियोजनायाः लक्ष्य इति मुख्यमन्त्रिणा उक्तम्।
शिक्षामन्त्री प्रोफ. सि रवीन्द्रनाथस्य आद्ध्यक्षे आयोजिते मेलने वित्तमन्त्री डो. टि एम् तोमस् ऐसकः मुख्यभाषणमकरोत्। प्रतिविद्यालयेषु अपि प्रादेशिकस्तरे उद्घाटनसभाः आयोजिताश्च।
Saturday, February 6, 2021
नूतनं संयुक्तराष्ट्राध्यक्षं चेतुं प्रक्रमः समारब्धः।
युणैट्टड् नेषन्स्> संयुक्तराष्ट्रसभायाः नूतनाध्यक्षपदे वनिता भवतु इति विचिन्त्य प्रक्रमाः समारब्धाः। इदानीन्तनाध्यक्षः अन्टोणियो गुट्टरस् स्थानाशी भूत्वा पुनरपि स्पर्धिष्यते इति उक्तवान्। पोर्चुगीस् राष्ट्रस्य प्राक्तनः प्रधानमन्त्री भवति एषः। यू एन् सर्वजनिकसभायां सुरक्षासभायां च तस्मै सभाङ्गानां सहयोगः अस्ति। यू एन् अङ्गाः यू एस् रष्य चीन फ्रान्स् राष्ट्राणां सहयोगः तस्मै अस्ति इति आवेद्यते। अस्मिन् वारे अध्यक्षस्थाने वनिताभवतु इति आवश्यं पत्रद्वारा होण्डूरासस्य राजदूतः संयुक्तराष्ट्रसभां न्यवेदयत्।Thursday, February 4, 2021
वाहन-पञ्जीकरणाय अनुज्ञापत्राय च आधार पत्रम् अनिवार्यम्।
कोच्ची> वाहनानां पञ्जीकरणाय यान-चालकानुज्ञापत्राय च आधार पत्रम् अनिवार्य-प्रमाणपत्रत्वेन अङ्गीकरिष्यति। ओण् लैन् सेवा सुरक्षितरीत्या प्रवर्तयिंतुम् उद्दिश्य केन्द्रसर्वेकारेण नियमः नवीकृतः। विनामेषु (Binami) वाहन-पञ्जीकरणं व्याज-प्रमाणपत्रानुपयुज्य वाहन-चालकानुज्ञापत्र-प्राप्तिः च रोद्धुमेव अयं प्रक्रमः। अस्मिन् मासे एव विज्ञापनं बहिर्गमिष्यति इति आवेद्यते।
Monday, February 1, 2021
म्यान्मर् देशे सैनिकाधिपत्यंम्
सूची बन्धने।
रङ्कूण्> म्यान्मर् देशे पुनरपि शासने सैनिकाधिनिवेशः अभवत्। शासनदलः नाषणल् लीग् फोर् डेमोक्रसि ( N L D ) इत्यस्य नेतृणी आङ् सान् सूचि राष्ट्रपति विन् मिन्टः अन्ये नेतारः च बन्धिताः। सैनिक नेतारः राष्ट्रे त्वरितप्रक्रमकालः ख्यापितवन्तः। अद्य उषसि एव नेतारः बन्धिताः अभवन्। नूतनतया निर्वचने विजयं प्राप्तवताः श्वः शासनं स्वीकर्तुं सज्जाः असन्। तदानीमेव आसीत् ईशृशी घटना। राष्ट्रस्य टी वी, रेडियो प्रवर्तनानि स्तगायितम्। प्रधाननगराणि सर्वाणि सैनिकाधीनम् अभवन्। राजधान्यां नैपितो इत्यत्र दूरभाषा-अन्तर्जालादि सेवाः निराकृताः। अतः तस्मिन् किं प्रचलति इति विस्तरेणज्ञातुं वार्ताहराः प्रयत्नं कुर्वन्तः सन्ति।
भारतम् इत्युक्ते राष्ट्रात् अपि भूप्रदेशात् अपि विशालं भवति - प्रधानमत्री नरेन्द्रमोदी।
नवदिल्ली> भारतम् इत्युक्ते राष्ट्रात् अपि भूप्रदेशात् अपि अतिविशालं भवति इतिप्रधानमत्री नरेन्द्रमोदी अवदत्। भारतम् अधिकृत्य ये जानन्ति तेभ्यः सा सत्ता अवगम्यते। स्वामिविवेकानन्देन समारब्धं #'प्रबुद्धभारत' इति पत्रिकायाः १२५ तम संवत्सरीय समारोहे भाषमाणः आसीत् सः। भारतस्य आत्मा का इति उद्बोधयितुम् उद्दिश्य पत्रिकायैः प्रबुद्धभारत इति तेन नामकरणं कृतम्। उद्बुद्धभारतस्य सर्जनमेव विवेकानन्देन अभिलषितम्। येभिः भारतं प्रत्यभिज्ञातम् तेभ्यः भारतम् राष्ट्रादपि भूप्रदेशादपि विशालं इति सुव्यक्तं भविष्ति, नरेन्द्रमोदिना उक्तम्।