अष्टानां विषयाणां टैटपरीक्षायाः परिणामविषये सूचना
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Saturday, January 23, 2021
Friday, January 22, 2021
पुणे 'सिरं' संस्थायाः अग्निबाधया पञ्चानां मृत्युः अभवत्।
Thursday, January 21, 2021
अमेरिक्कायां बैडन्युगः।
जो बैडनः राष्ट्रपतिरूपेण शपथग्रहणं कृतवान्।
वाषिङ्टण्> अमेरिक्कायाः ४६तमराष्ट्रपतिरूपेण ७८वयस्कः जोसफ् आर् बैडनः शपथग्रहणं कृतवान्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः जोण् रोबर्ट्सः शपथवाचनं कारितवान्।उपराष्ट्रपतिरूपेण कमलाहारिसः शपथग्रहणं कृतवती। यू एस् राष्ट्रस्य चरित्रे प्रप्रथमः वनिताउपराष्ट्रपतिः भवति ५६वयस्का तथा च भारतीयवंशजा कमलाहारिसः।
Wednesday, January 20, 2021
अमेरिक्कस्य ४६ तमः राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति।
वाषिङ्टण्> निर्वाचनसमस्यां परिहृत्य अमेरिक्कस्य षट्चत्वारिंशतमः (४६) राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति। शपथग्रहणाय जो बैडनः बाषिङ्टण् प्राप्तवान् अस्ति। कोविड् रोगेण हतानां यू एस् नागरिकाणां स्मृतौ एषः आदराञ्जलिं समर्पितवान्। शपथ-ग्रहणप्रक्रमाय अतीव-सुरक्षा वाषिङ्टण् प्रदेशे सर्वत्र आयोजिता वर्तते। वाषिङ्टणे समागतः बैडणः लिङ्गण् स्मृतिमण्डपं प्रथमं सन्दर्शितवान्। जो बैडनस्य शपथग्रहण समारोहे पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः भागं न स्वीकुर्यात्॥
अरुणाचलप्रदेशे चीनेन ग्रामः निर्मितः इति आवेदनम्; निरीक्ष्यते भारतेन।
नवदिल्ली> अरुणाचलप्रदेशे चीनेन निर्माण-प्रवर्तनानि कृतानि इत्यावेदने भारतस्य विदेश मन्त्रालयेन अभिमतं प्रकाशितम्। भारतस्य सुरक्षासंबन्धघटनया सर्वं निरीक्ष्यते अनुदिनम् इति। विषयेऽस्मिन् प्रक्रमाः स्वीकरिष्यन्ते इति च मन्त्रालयेन उक्तम्। अरुणाचलप्रदेशे भारतस्य भूप्रदेशान् संगृह्य चीनेन १०१ गृहाणि निर्मितानि इति आसीत् ए न् डि टि वि माध्यमस्य आवेदनम्।
आस्ट्रेलियायां भारतस्य विजयकाहलं - भारताय निकषक्रिक्कट्स्पर्धापरम्परा।
ब्रिस्बेन> भारतीयक्रिक्कट्क्रीडासंघस्य युद्धसमानप्रतियोगितावीर्याय समर्पणीया इयं विजयपरिसमाप्तिः। ह्यः समाप्ते भारतास्ट्रेलिययोः चतुर्थे निकषद्वन्द्वे भारतस्य ऐतिहासिकविजयः।
गाबा क्रीडाङ्कणे आस्ट्रेलियया उन्नीतः ३२८ धावननाङ्कानां विजयलक्ष्यः१८ कन्दुकेषु अवशिष्टेषु ७ क्रीडकानां विनष्टे भारतेन प्राप्तः। गाबायां ३२ संवत्सरात्परमेव आस्ट्रेलियायाः पराजयः।
अत्युज्वलेन अर्धशतकेन [८९*] धावनाङ्कानां विजयलक्ष्यं विजयतीरं आनीतवान्। विक्कट्सुरक्षकः ऋषभपन्तः एव श्रेष्ठक्रीडकः। ऋषभेन सह क्रीडाप्रारम्भकः शुभमनगिलः , चेतेश्वरपूजारश्च भारतस्य विजये निर्णायकं भागभागित्वं गृहीतवन्तौ।
Tuesday, January 19, 2021
अकिञ्चनराष्ट्राणां कृते वाक्सिनं न लभते - विश्वस्वास्थ्यसंघटनम्।
जनीवा> धनिकराष्ट्रेषु कोविड्वाक्सिनानि स्वायत्तीकृतेषु दरिद्रराष्ट्रैः बहुक्लेशः अनुभूयते इति विश्वस्वास्थ्यसंघटनेन [WHO] उक्तम्। 'प्रथमः अहं स्यामि'ति धनिकराष्ट्राणां मनोभावः तथा वाक्सिननिर्माणसंस्थानां विधेयत्वं च वाक्सिनवितरणे असमत्वाय कारणं भवतीति WHO निदेशकमुख्यः टेट्रोस् अथनों गब्रियेसूस् वर्यः अवदत्।
सश्रीकराष्ट्रेषु इतःपर्यन्तं ३.९कोटि मात्राः वितरीताः। किन्तु अकिञ्चनराष्ट्रेषु केवलं २५ मात्राः एव वितरीताः। "२.५ कोटि वा २५,०००वा मात्राः न, केवलं २५ मात्रा" - तेन स्पष्टीकृतम्। तुल्यवितरणाय कृतप्रतिज्ञानि बहूनि राष्ट्राणि प्रतिज्ञापालनात् व्यतिचलितानीति अथनोंवर्यः निराशां प्रकाशितः।
बैडनं प्रति आक्रमणमाशङ्कते।
वाषिङ्टण्> नियुक्तं यू एस् राष्ट्रपतिं जो बैडनं विरुद्ध्य अङ्गरक्षकेभ्यः एव आक्रमणं भवेदिति आशङ्का वर्तत इति राष्ट्रपतेः सुरक्षाधिकारिणः। समीपकाले नगरसुरक्षायै नियुक्तेषु अधिकारिषु नियुक्तानां अधिकारिणां कतिपयेभ्यः सुरक्षाभीः अजायत इत्यभ्यूहः अस्ति।
सुरक्षाभीषा वर्तमाना इति सैनिककार्यदर्शिना मक् कार्ति इत्यनेनापि दृढीकृतम्। ईदृशप्रवर्तनेषु भागभागं वहन्तं प्रत्यभिज्ञातुं सर्वथा यतिष्यते इति तेनोक्तम्।
Monday, January 18, 2021
इतःपर्यन्तं भारते २,२४,३०१ जनाः वाक्सिनीकरणं स्वीकृतवन्तः।
नवदिल्ली> आराष्ट्रं रविवासरं यावत् २,२४,३०१ जनाः कोविड्प्रतिरोधवाक्सिनं स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। एषु केवलं ४४७ जनेष्वेव लघुक्लेशाः जाताः।
शनिवासरे आसीत् भारते वाक्सिनीकरणमारब्धम्। प्रथमदिने उत्तरप्रदेशे अधिकतमः सूच्यौषधप्रयोगः विधत्तः - २१,२९१ जनेषु। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, कर्णाटकं, केरलं, मणिप्पुरं, तमिलनाडु इत्येतेषु राज्येषु रविवासरे अपि वाक्सिनीकरणं विधत्तम्।
Sunday, January 17, 2021
काबूले उच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते।
काबूल्> अफ्गानिस्थानस्य सर्वोच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते। अद्य प्रातः (रविवासरे) आसीत् इयं घटना। आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। न्यायालयं प्रति न्यायाधिपयोः आगमनवेलायाम् आसीत् नालिकाशस्त्र धारिणाम् आक्रमणम्। समीपकाले राष्ट्रे ईदृशानि आक्रमणानि अनुवर्तन्ते। २०१७ संवत्सरे सर्वोच्च-न्यायालय-समीपे दुरापन्ने अत्मखादिनः आक्रमणेन २० (विंशति) जनाः मारिताः ४१ जनाः व्रणिताः च आसन्।