आगम्यमाने संवत्सरे जुलाई मासे कोविड् प्रत्यौषधं प्रदास्यामहे - मन्त्री हर्षवर्धनः।
प्रतिरोधप्रत्यौषध-वितरणाय नीति आयोगस्य प्रतिनिधी वी.के पोल् इत्यस्य नेतृत्वे समायोजितायाः समित्याः प्रवर्तनानि समारब्धानि। केन्द्रसर्वकारेण औषधं समाहृत्य औषधवितरणं साक्षात्करिष्यते इत्यपि तेनोक्तम्।