OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Monday, October 5, 2020
Sunday, October 4, 2020
भारते कोविड्मरणानि लक्षमतीतानि।
नवदिल्ली> कोव्ड्रोगबाधया राष्ट्रे मृत्युमुपगतानां संख्या लक्षमतीतानि। सर्वकारस्य आवेदनमनुसृत्य १,०१,२११ जनाः पञ्चत्वं प्राप्ताः। लोके कोविड्मृतानां संख्यायां भारतं तृतीयस्थानं भजते। अमेरिक्का, ब्रसीलश्च यथाक्रमं प्रथमद्वितीयस्थानयोः वर्तेते।
महाराष्ट्रं, आन्ध्रप्रदेशः, कर्णाटकं, तमिलनाडु, उत्तरप्रदेशः, दिल्ली, पश्चिमवंगः इत्यादिषु राज्येषु मृत्युसंख्याप्रतिशतता उच्चस्तरीया भवति।
महात्मा गांधी-लालबहादुरशास्त्री" जयन्त्युत्सव: सम्पन्नः
जयपुरम्> विगते ०२ अक्टूबर २०२० तमे दिनांके सायं ५.०० वादने गूगल मीट ई-मञ्चोपरि "महात्मागांधी- लालबहादुरशास्त्री" इत्यनयोः जयन्त्युत्सवस्य आयोजनं संस्कृतभारती-जयपुरविभागेन कृतम्। भारतीयपरम्परानुसारेण कार्यक्रमस्य शुभारंभं अभिषेकशर्ममहोदयेन मंगलाचरणेन कृतम्।
Saturday, October 3, 2020
विश्वस्य दीर्घतमा सुरङ्गवीथिः 'अटल् टनल्' भारतेन उद्घाटिता।
१०.०२ कि.मी दीर्धिता इयं वीथिः।
Friday, October 2, 2020
कोरोणबाधया केरलेषु कठोरनियन्त्रणानि समारब्धानि।
कालटी> कोरोण व्यापनानुबन्धतया केरलेषु कठोरनियन्त्रणानि प्रख्यापितानि। ओक्टोबर् तृतीयदिनाङ्कतः एकत्रिंशत् दिनाङ्कपर्यन्तं भवति नियन्त्रणम्। केरले प्रतिदिनकोविड्बाधा दशसहस्रमुपगच्छति। गतसप्ताहं यावत् कोविड्बाधितानां प्रतिदिनसंख्या सहस्रमिति क्रमेण वर्धमाना ह्यः ९२५८ प्राप्ता। अतः अद्य आरभ्य राज्ये कठोरनियन्त्रणानि विहितानि।
यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः।
वाषिङ्टण्> अमेरिक राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः भवति। अस्य पत्नी मेलानिया अपि रोगबाधिता अस्ति। उभौ एकान्तवासे प्रविष्टौ। अयं रोगबाधितः इति टिट्वर् द्वारा एषः स्वयम् प्रकाशितवान्। ट्रम्पस्य उपदेष्टा होप् हिक्स् विगते दिने रोग बाधितः इति प्रमाणीकृतः। अतः एव कृते रोगावलोकन परीक्षणे ट्रम्पः पत्नी च रुग्णौ इति निर्णीतौ अभवताम्।
Thursday, October 1, 2020
बाबरि मस्जिद् भञ्जनप्रकरणं - ३२ दोषारोपिताः विसृष्टाः।
प्रमाणं नास्तीति नीतिपीठः।
नवदिल्ली> २८ संवत्सरेभ्यः पूर्वं दुरापन्ने 'बाबरि मस्जिद'प्रकरणे भा ज पा दलस्य वरिष्ठाः नेतारः, एल् के अड्वाणी, मुरलीमनोहर जोषी, कल्याणसिंहः, उमाभारती इत्यादयः अभिव्याप्य ३२दोषारोपिताः निरपराधिनः इति प्रकल्प्य उपधानीतिपीठेन विसृष्टाः। मस्जिदाराधनालयभञ्जने गूढपर्यालोचनस्य प्रमाणं नास्तीति लख्नौस्थेन सि बी ऐ सविशेष नीतिपीठेन अभिवीक्षितम्।
पूर्वोक्ताः नेतारः भञ्जननिरोधाय प्रयत्नं कृतवन्तः आसन्निति सूचितम्। प्रोसिक्यूषन् न्यायवादिभिः समर्पितानि प्रमाणानि दोषारोपान् दृढीकर्तुं न प्रभवन्तीति नीतिपीठेन स्पष्टीकृतम्।
गान्धीजयन्तीदिने संस्कृतेन सह द्वादशभिः भाषाभिः आत्मसाक्षात्कारस्य कृते योगः- सार्वजनिककार्यक्रमः
गान्धीजी एवं शास्त्रिजी जयन्त्युत्सवदिने 2 अक्टोबर् 2020 तमे दिनाङ्के भारतस्य क्षेत्रीयाभिः राष्ट्रियाभिः च भाषाभिः कुण्डलिनीजागरणम् एवं आत्मसाक्षात्कारस्य कश्चन अन्तर्जालीयः सार्वजनिकः कार्यक्रमः भविष्यति। अस्मिन् कार्यक्रमे मुख्यम् आकर्षणं नाम आरम्भिकायाम् एकस्यां होरायां संस्कृतेन सुदीर्घः कार्यक्रमः भविष्यति, यः अक्टोबर् मासस्य द्वितीयदिनाङ्के प्रातः अष्टवादनतः नव वादनपर्यन्तं https://www.sahajayoga.org.in/live इत्यत्र प्रसारितः भविष्यति।
एषः कार्यक्रमः पूज्यश्रीमाता-निर्मलादेव्याः अमूल्य-शिक्षणानाम् अनुसरणेन कुण्डलिनीजागरणस्य आत्मसाक्षात्कारस्य च अनुभवाय अस्ति । सामान्यजनानां कृते निःशुल्करूपेण अयं कार्यक्रमः प्रसार्यते । तेषामपि अन्तः विद्यमानायाः कुण्डलिनीशक्त्याः माध्यमेन प्रतिरोधकशक्तेः वृद्धिः, एवं रोगनिरोधकशक्तेः परिरक्षा च भविष्यति। यतो हि अस्य कार्यक्रमस्य मुख्यम् उद्देश्यश्यं शारीरकमानसिकविकासः एवम् आध्यात्मिक-उन्नतिः एव अस्ति। परमपूज्य श्रीनिर्मलामातुः शिक्षायाः अनुसारं कुण्डलिनी मनुष्यस्य आध्यात्मिक-उत्थानम् एवं आध्यात्मिकशक्तिपरिरक्षणं च
Wednesday, September 30, 2020
केरले कोविड्व्यापनं प्रतिदिनं ७००० अधिकम्।
कोच्ची - केरले कोविड्रोगबाधा आशङ्काजनकतया वर्धते। चत्वारि दिनानि यावत् रोगबाधितानां प्रतिदिनसंख्या सप्तसहस्राधिका आसीत् ।
रोगव्यापनस्य स्पष्टतामानं [positivity rate] केरले १३.७६ अस्ति। एतत्तु राष्ट्रियमानात् अधिकमिति स्वास्थ्यवृत्ताभिज्ञैः सूचितम्। अस्मिन् मासे एव आहत्य रोगबाधितानां संख्या एकलक्षाधिका इति उदगच्छत्। प्रतिदिनमरणसंख्या इतरराज्यानि अपेक्ष्य न्यूना अपि सम्प्रति २० - २२ इति रीत्या वर्तते। मृत्युसंख्या आहत्य ७१९ अभवत्।
ह्यः सर्वराजनैतिकदलानां मेलनम् मुख्यमन्त्रिणः नेतृत्वे सम्पन्नम्। नियन्त्रणानि इतो$पि कर्कशं विधातुं निर्णयः अभवत्। पुनरपि सम्पूर्णं पिधानं न भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्।
Tuesday, September 29, 2020
कोविड्वाक्सिन् - भारतं प्रशंसमानः W H O मुख्यः।
न्यूयोर्क्> कोविड्रोगस्य प्रत्यौषधविषये विश्वस्वास्थ्यसंघटनस्य नेता टेड्रोस् अथनों गेब्रियेसूस् नामकः भारतं प्राशंसत। कोविड्युद्धे इतरराष्ट्रेभ्यः साह्यं कर्तुं प्रत्यौषधस्य उत्पादनशक्तिम् उपयोक्ष्यते इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावं परामर्शयन्नासीत् अथनोमस्य प्रशंसा।
सामान्यहिताय विभवानाम् उपयोगेनैव महामारिं प्रतिरोद्धुं शक्यते इति सः ट्विटर् द्वारा निगदितवान्।