‘मनोगतम् [०२.१६]
‘मन की बात’प्रसारण-तिथि:-२७’सेप्टेम्बरः, २०२०
[भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः| कोरोना-कालखण्डे अस्मिन् अशेषविश्वम् अनेकानि परिवर्तनानि सम्मुखीकरोति| अद्य, यदा ‘दो गज़् की दूरी’ति अनिवार्या आवश्यकता सम्वृत्ता, तदा अमुना एव सङ्कटकालेन, कुटुम्ब-सदस्यान् परस्परं संयोजयितुं, मिथः सामीप्यं स्थापयितुं च महत्कार्यमपि कृतम्| परञ्च, एतावद्दीर्घकाल-पर्यन्तं, सम्भूय वासः, केन प्रकारेण स्थेयम्, कालः कथं यापनीयः, प्रत्येकमपि क्षणः प्रसन्नता-प्रदः केन प्रकारेण स्यात्? एवम्, अनेकानि कुटुम्बानि काठिन्यानि अन्वभवन्, अस्य कारणमासीत् यत् अस्मदीयाः याः परम्पराः आसन्, कुटुम्बे याः संस्कारसरिद्रूपेण प्रवहन्ति स्म, तासाम् अभावः अनुभूयते, एवं प्रतीयते यत्, अनेकेषु कुटुम्बेषु एतत्-सर्वं समाप्तम्, तथा च, एतस्मात् कारणात्, सति तदभावे, एतत्-सङ्कटकालस्य यापनम् अपि कुटुम्बानां कृते किञ्चित् कठिनतरं सञ्जातम्, अपि च, तस्मिन् अन्यतरं महत्वपूर्ण-वृत्तं किमासीत्? प्रत्येकमपि कुटुम्बे कश्चन वरिष्ठः, कुटुम्ब-ज्येष्ठाः जनाः च, कथाः श्रावयन्ति स्म तथा च, गृहे नवीनां प्रेरणाम्, अभिनवाञ्च ऊर्जां पूरयन्ति | वयम्, नूनमिदम् अनुभूतवन्तः स्युः, यत् अस्मदीयैः पूर्वजैः याः विधाः प्रवर्तिताः, ताः अद्यापि