वाषिङ्टण्> यु एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य माध्यस्थमेलनेयू ए ई इस्रयेल् देशयोर्मध्ये ऐतिहासिकः सन्धिः अभवत् । सन्ध्यनुसारं पालस्तीनप्रदेशान् अधीनं कर्तुं शासनस्थापनाय कृतः यत्नः स्थगनीयः इति निर्देशः इस्रयेलेन अङ्गीकृतः इति 'वैट् हौस्' तथा यु ए ई च आवेदयतः। एतयोः मध्ये परस्पर-साह्यकरणाय सन्धिः च कृतः। बहुकालं यावत् प्रचलितायाः चर्चायाः फलप्राप्तिः एव सन्धिरूपेण अधुना प्रकाशिता। ट्रम्पस्य माध्यस्थ चर्चायाम् अबुदाबि किरीटाधिकारि मुहम्मद् बिन् सायिद् अल् नह्यान् इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहु च दूरवाणिद्वारा भाषणं कृत्वा आसीत् सन्धिप्रक्रमाः आरब्धाः।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Thursday, August 13, 2020
Tuesday, August 11, 2020
आत्मनिर्भरं विधातुं दिशयाम् - रक्षामन्त्रालयस्य निर्णयः ।
आत्मनिर्भरं विधातुं दिशयाम् - रक्षामन्त्रालयस्य निर्णयः।
रक्षामन्त्रिणा राजनाथसिंहेन उक्तम् एकाधिकशतम् रक्षोपकरणानाम् आयातिकरणे प्रतिबंधः करिष्यति।
राजनाथसिंहेन रविवासरे आत्मनिर्भरभारतं विधातुं दिशायाम् महत्वपूर्णाः घोषणाः कृतवान्। तेन विदेशेषु निर्मितेषु शताधिकेषु रक्षोपकरणेषु प्रतिबंधः प्रवर्तिष्यते। भारतराष्ट्रे एव रक्षोपकरणानां स्वतः निर्माणं कर्तुं अवकाशः प्रदास्यति। एतस्मात् राष्ट्रस्य आपणाः सुदृढ़ाः भविष्यन्ति। रक्षा अनुसन्धानः एवं विकास संगठनेन पूर्वरचितं रुपरेखानुसारेण साहाय्यः क्रियते। चीनभारतयोर्मध्ये लद्दाखस्य काचित् क्षेत्रेषु अधुनापि सङघर्षः प्रचलति।
Monday, August 10, 2020
“राष्ट्रभाषा हिब्रूभाषा” इति सङ्कल्पसाधकं स्वाभिमानि इजरायलम्।
-डा.भारती शर्मा
-आचार्य: रामकृष्णशास्त्री च (जयपुरम्)
द्विसहस्रवर्षेभ्यः यावत् विश्वस्य विविधराष्ट्रेषु इतस्ततः भ्रमणशीलानां यहूदीनां न तु स्वराष्ट्रमासीत् नापि भूमिः न च संस्कृतिः। परन्तु ते मातृभुवं प्रति दृढसंकल्पाः आसन् यत् यदापि पुनः मेलिष्यामः जेरुशेलमे एव। तस्मिन् काले तान्निकषा इजरायलदेशः यहूदीसंस्कृतिः हिब्रूभाषा च नासन् । स्वसङ्कल्पं साधयितुं ते उत्साहिनोऽस्यां पृथिव्यां भ्रमन्तः यदापि परस्परममिलन् स्वसङ्कल्पमस्मरन् यदस्माकं पुनः मेलनं जेरुशेलमे एव भविष्यति । सङ्कल्पः पूर्णतामयात् । यहूदयः इजरायलदेशं 1948 ई.तमे वर्षे प्राप्नुवन्। विश्वस्य लघुतमेषु राष्ट्रेष्वन्यतमः एष देशः चतसृषु दिक्षु अरबराष्ट्रैः आवृतः निर्जनमरुभूमिः आसीत् ।
मरुस्थलं मरुस्थलमिवासीत्, तथैव मृदा । कालान्तरे इजरायलवासिनां सोत्साहपरिश्रमेण मृदायामद्भुत-परिवर्तनमारब्धम् । मरुभूमेः कृषकराष्ट्रमिदं सम्प्रति विश्वाय उन्नतकृषितकनीकिं विक्रीणाति। प्रतिदिनं नैक 'टन' परिमितं शाकानि फलानि च यूरोपं प्रति प्रेषयति। अद्य या “ड्रिप इरिगेशन सिस्टम” इत्याख्या प्रथिता सेचनप्रणाली जगता उपयुज्यते सा इजरायलेनाविष्कृता। विश्वस्य शक्तिसम्पन्नासु गुप्तचरसंस्थासु इजरायलदेशस्य मोसाड इति नाम्नी गुप्तचरसंस्थान्यतमा वर्तते ।
इजरायलं स्वाभिमानस्य आत्मविश्वासस्य आत्मसम्मानस्य च प्रतीकमस्ति । तस्य देशस्य जनसंख्या प्रायः अशीतिलक्षमात्रमस्ति । तत्र देशस्य एकायाः सीम्नः अपरां सीमानं गन्तुं घण्टात्रयं चतुष्टयं वा पर्याप्तमस्ति इत्यनेन तत्रत्याः विकसितपरिवहनव्यवस्था ज्ञायते । पृथिव्याः जलराशेः द्विप्रतिशतं जलमेव तस्य जलसम्पत्तिः। प्राकृतिकसंसाधनानां प्रायोऽभावः। कदाचिद् भगवतापि तद्राष्ट्रं प्रति समदृष्टिः न धृता यतोहि समीपस्थेषु अरबदेशेषु तैलस्य प्राचुर्यम्, इजरायले तदपि नास्ति।
इजरायलं राजनीतिकजीवन्ततायाः बोधस्य च पराकाष्ठां धारयति । तस्मिन् लघुराष्ट्रे आहत्य द्वादशराजनीतिकदलानि वर्तन्ते । यद्यपि अद्यावधि न किमपि दलं पूर्णजनमतैक्येन सर्वकारं स्थापयितुं समर्थमभवत् । तथापि तत्र पूर्णतः ऐक्यं दृश्यते- राष्ट्रस्य सुरक्षायै सम्मानाय स्वाभिमानाय हिताय च । एतेषु विषयेषु न तु किमपि दलम् अनुचितपथा सन्धानं करोति न च सर्वकारस्य पतनाय सत्तारूढं संघं भीषयते । इजरायलस्य स्वकीया राष्ट्रियहितावली भवति या सर्वैः दलैः समाद्रियते ।
14 मई 1947 तमे वर्षे इजरायलस्य स्थापनायां सत्यां जगतः सर्वेभ्यः राष्ट्रेभ्यः यहूदयः तत्रागच्छन् । अस्माकं भारतदेशादपि सहस्राणि यहूदयः स्थानान्तरिताः अभूवन् । विविधेभ्यः देशेभ्यः आगन्तॄणां प्रवासिनां भाषाः भिन्नाः आसन् । अतः पश्नः उद्गतः यद्देशस्य भाषा का भवेत्? तेषां हिब्रूभाषा तु प्रायः द्विसहस्रवर्षेभ्यः मृतेवासीत् । अत्यल्पाः जनाः एव हिब्रूम् अजानन् । अनया भाषया रचितस्य प्राचीनसाहित्यस्यापि अल्पतासीत् । नूतनसाहित्यस्य तु सर्वथैव अभावः। अतः केनापि जनेन आङ्ग्लभाषां देशस्य सम्पर्कभाषां कर्तुं स्वमतं प्रकटितम् । परन्तु स्वाभिमानिनः इजरायलवासिनः कथमेतत् सहेरन् ? तैरुक्तम् अस्माकं हिब्रूभाषा एव जनभाषा भविष्यतीति निर्णीतम् । किन्तु व्यावहारिकदृष्ट्या नैकाः समस्याः विस्फारितमुखाः आसन् । अत्यल्पाः जनाः हिब्रूभाषया परिचिताः आसन् अत एव इजरायलसर्वकारेण हिब्रोः ज्ञानाय मासद्वयस्य पाठ्यक्रमः निर्धारितः। तेन विश्वस्य महतः भाषाभियानस्य प्रारम्भः जातः। यस्य कालावधिः पञ्चवर्षाण्यासन् । एतस्याभियानस्यान्तर्गते सम्पूर्णे देशे ये केऽपि हिब्रूज्ञानिनः आसन् । ते नित्यं प्रातः एकादशवादनादाराभ्य एकवादनं यावत् स्वगृहस्य निकटस्थे विद्यालये हिब्रूम् अपाठयन्। अनेन प्रकारेण बालाः तु पञ्चसु वर्षेषु हिब्रूं शिक्षिष्यन्ते परं प्रौढानां किमिति । एतस्य समाधानाय पाठशालासु अधीयानैः बालकैः प्रतिदिनं सायं काले पितरौ प्रतिवेशिनः प्रौढाः वृद्धाः च पाठिष्यन्ते इति व्यवस्था कल्पिता। तत्रापि बालाध्यापकानां पाठने त्रुटिः भवितुमर्हतीति स्वाभाविकम् । तन्निराकर्तुं 1947 ई.तमस्य वर्षस्य अगस्तमासतः आरभ्य 1953 ई. वर्षस्य मई मासं यावत् हिब्रूभाषायाः मानकपाठस्य रेडियोमाध्यमेन प्रसारणमभवत् । इत्थं बालेभ्यः पाठनकाले याः त्रुटयः विहिताः तासां त्रुटीनाम् अपाकरणं वयस्काः रेडियोपाठमाध्यमेन सम्यगवगम्य स्वयमेव करिष्यन्तीति निर्धारितम् । अनेन क्रमेण 1953 ई. वर्षेऽभियानस्य सम्पूर्तिकाले केवलं पञ्चसु वर्षेषु इजरायलं हिब्रूभाषायां शतप्रतिशतसाक्षरतामाप्नोत्।
अधुना हिब्रूभाषया नैके शोधप्रबन्धाः प्रकाशिताः। लघ्वस्मिन् राष्ट्रे समग्रराज्यकार्यम्, अभियान्त्रिकि-चिकित्साशास्त्रमित्याद्यः सर्वविधाः उच्चशिक्षाश्च हिब्रूभाषयैव सम्पाद्यन्ते । इजरायलदेशमवगन्तुं ज्ञातुञ्च अपरेषां राष्ट्राणां छात्राः हिब्रूं पठितुमारब्धाः।
एतादृशं देशमस्ति इजरायलम् । जीवन्ततायाः जिजीविषायाः स्वाभिमानस्य च मूर्तिः।
भाषासंस्कृत्योः विषयेऽस्माकं का स्थितिः? अद्यापि वयं दैन्येन आङ्ग्लं प्रति दत्तदृष्टयः स्मः। कथं संस्कृतं जनभाषां कर्तुं न क्षमाः वयमिति चिन्तनीयम् ।
आन्ध्रप्रदेशे कोविड् आतुरालये अग्निबाधा - दश मरणानि।
Sunday, August 9, 2020
राष्ट्रियस्वच्छताकेन्द्रं प्रधानमन्त्रिणा उद्घाटितम्।
केरले अतितीव्रवृष्टिः - नैकेषु जनपदेषु प्रलयदुष्प्रभावः।
Saturday, August 8, 2020
विश्वस्मिन् कोविड्बाधिताः १.९४कोटिजनाः।
वाषिङ्टण् > आविश्वं कोविड्-१९ रोगबाधितानां संख्या १.९४कोटिमुपगच्छति। अद्यावधि ७.१८ लक्षं जनाः मृत्युवशं गताः। १.२४कोटिजनाः स्वस्थीभूताः जाताः।
गतदिने अशीतिसहस्राधिकाः जनाः रोगबाधिताः अभवन्। मरणानि तु द्विसहस्राधिकम् अभवन्। यू एस् , भारतं, रूस् , मेक्सिको, इरानः, इराखः, यू के, बङ्ग्लादेशः इत्येतेषु राष्ट्रेषु रोगबाधा मरणानि च अधिकतया वर्तन्ते।
Friday, August 7, 2020
केरले विमानदुर्घटना- १४ मरणानि ; १२३ आहताः
कोष़िक्कोट् > केरले कोष़िक्कोट् जनपदस्थे करिप्पूरविमाननिलये दुबाय्तः प्राप्तं एयर् इन्डिया संस्थायाः १३४४ इति एक्स् प्रेस् विमानं अवतरणमार्गात् स्खलित्वा जातायां दुर्घटनायां १४ जनाः मृताः। अद्य रात्रौ ७.४० वादने आसीदियं दुर्घटना। मृत्युसंख्या अधिका भविष्यतीति सूच्यते। १२३ जनाः आहताः विविधेषु आतुरालयेषु प्रवेशिताः। तेषु २५ यात्रिकानां स्थितिः आशङ्काजनका वर्तते। पर्यावरणस्य दुष्प्रभाव एव दुर्घटनाहेतुरिति सूच्यते।
वन्दे भारतदौत्ये अन्तर्भूतं विमानमेव दुर्घटनाग्रस्तमभवत्। अवतरणसमये महती वृष्टिरासीत् इत्यतः नियन्त्रणविनष्टं विमानं मार्गात् स्खलित्वा त्रिशत्पादपरिमिताम् अगाधतामपतत्। निपातस्य आघातेन विमानं द्विधा छिन्नमभवत्। विमाने आहत्य १९१ जनाः आसन्निति सूच्यते।
विमानचालकः सहचालकश्च मृतेषु अन्तर्भवतः।
संस्कृतभारत्याः केरलराज्यस्तरीयं मेलनम् आगस्त् ९ दिनाङ्के आयोक्ष्यते।
केरले भूस्खलनेन महान् दुरन्तः ; चत्वारि मरणानि , अनेके दुर्घटीभूताः।
इटुक्की > केरलस्य इटुक्की जनपदे मून्नार् समीपस्थे राजमला स्थाने ह्यः रात्रौ महत्भूस्खलनं सञ्जातम्। चत्वारः मृतदेहाः दुर्घटनास्थानात् अभिदर्शिताः। चतुरान् जनान् आतुरालयं प्रवेशिताः।
राजमलाप्रदेशस्थे 'कण्णन् देवन्' चायकेदारभूमौ कर्मकराणां निवासस्थाने इयं दुर्घटना दुरापन्ना। उपशतं कर्मचारिणः तत्र निवसन्ति। रात्रौ दुर्घटना अभवदित्यतः कतिजनाः दुर्घटितभूताः जाता इति निर्णयः दुष्करः अस्ति।
तृशूरतः दुरन्तनिवारणसेनायाः द्वौ संघौ दुरन्तस्थानं प्रस्थितौ । प्रदेशवासिनां साहाय्येन आरक्षकाणां संघः एव रक्षाप्रवर्तनं कुर्वन्नस्ति। मार्गमध्ये वर्तमानः 'पेरियवरा'सेतुः भूस्खलने नष्टः जातः इत्यतः रक्षाप्रवर्तकानां दुरन्तस्थानप्राप्तिः दुष्करं वर्तते। ६७ जनाः तत्र लग्नाः इत्यूहते।