अयोध्या> श्रीराम जन्मभूम्यां 'राम लल्ल' देवालयस्य निर्म्माणसमारम्भः समभवत् । प्रधानमन्त्रिणा मोदिना भारतराष्ट्रस्य प्रतिनिधी भूत्वा रजतशिलान्यासेन शिलान्यासमकरोत् । राष्ट्रकल्याणाय भवति इदम् इति सङ्कल्पपूर्वकं मन्त्रोच्चारणेन सह आसीत् क्रियाकलापः। ४० किलोमिता भवति रजतशिला। राष्ट्रिय स्वयंसेवक सङ्घस्य अध्यक्षः मोहन भागवतः उत्तरप्रदेशस्य राज्यपालिका आनन्दी बन पट्टेलः मुख्यमन्त्री योगी आदित्यनाथ-प्रभृतयैः आनीतैः नवशिलाः च स्थापितेषु सन्ति। क्रिया कलापानन्तरम् देवालय चित्रमुद्रितम् निर्यासमुद्रा (Stamp) प्रधानमन्त्रिणा प्रकाशिता। देवालयभूमौ शिलान्यासात् पूर्वं पारिजातस्य बालवृक्षरोपणमपि तेन कृतम्। प्रधानमन्त्रिणं विहाय १८५ जनाः भागभाजः अभवन्। तेषु १३५ सन्यासिनः च आसन्।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, August 7, 2020
Wednesday, August 5, 2020
संस्कृतदिनाशंसया - प्रधानमन्त्रिणः नरेन्द्रमोदिनः ट्विट्टर् सन्देशः
अद्य संस्कृतदिवसे ये संस्कृतभाषां पठन्ति तथा च जनेषु तस्याः प्रचारार्थं प्रयासं कुर्वन्ति तान् सर्वान् प्रणमामि। संस्कृतभाषा सुन्दरी भाषा अस्ति किञ्च सहस्रशः वर्षेभ्यः अस्माकं श्रेष्ठायाः संस्कृत्याः भागभूता अस्ति। आगामिषु वर्षेषु संस्कृतभाषायाः लोकप्रियता नितराम् अभिवर्धताम्।
Monday, August 3, 2020
भारतस्य गृहमन्त्री अमितशाहः कोविड्बाधितः।
नवदिल्ली > भारते प्रमुखाः कोविड्रोगाधीनाः जायन्ते। राष्ट्रस्य गृहमन्त्री अमित शाहः कोविड्रोगबाधितः आतुरालयं प्राविशत्। अमित शाहः स्वेनैव रोगबाधावृत्तान्तं ट्विटर्द्वारा विज्ञापितवान्।
पञ्चदिनेभ्यः पूर्वं केन्द्रमन्त्रिसभामण्डलस्य उपवेशने भागं गृहीतवान्। ह्यः कोविड्रोगस्य लक्षणानि प्रकटितवानासीत्। भिषग्वराणाम् उपदेशानुसारं आतुरालयवासः चितः। गुरुग्रामस्थे मेदान्तातुरालये एव प्रविष्टः अस्ति। तस्य स्वास्थ्यावस्था उत्तमा इति आतुरालयवृत्तैः सूचितम्।
सम्पादकस्य सन्देशः
प्रियसंस्कृत-बान्धवाः सर्वेभ्यो मम सादरनमस्कारः।
अद्य संस्कृतदिनम्। अत एव सर्वेषां संस्कृतप्रेमिणां मोदाय दिनमिदम् इति मन्ये। संस्कृतं न केवलं भारतीयभाषा अपि च विश्वभाषाकुले विस्मयं जनयति एषा भाषाजननी। अतः वयं तादृश्याः भाषायाः कानिचनवाक्यानि वक्तुम् प्रभवामः इत्यनेन अभिमानिन: भवामः। ललित-कोमल-मधुर मञ्जूषा एषा भाषा मानव संस्कृतेः वाहिनी एव भवति। एवं प्रकारेण बहुधा वक्तुं शक्यते- किन्तु एवम् उक्त्वा किं प्रयोजनम् ? अस्माकं जीवने निरन्तरोपयोगेन संस्कृतभाषायाः संवर्धनम् एव कार्यम्। केवलम् इतिहास पुराणान्तर्गता भाषा न अपि च वैज्ञानिक ग्रन्थे विद्यमान अन्यून-विज्ञान-सागर-धारिणी च भवति भाषा - अस्मिन् संस्कृतदिने अस्माकं प्रतिज्ञा एवं भवतु - अहं संस्कृतेन भाषणं करिष्यामि मम चिन्ता अपि अधुना आरभ्य संस्कृतेन भविष्यामि। संस्कृतदिनस्य शुभकामनापुरसरं सर्वेभ्यो मम धन्यवादः॥
- अय्यम्पुष़ हरिकुमारः
मुख्यसम्पादकः
Friday, July 31, 2020
क्रिकेट् - प्रथमा एकदिनस्पर्धा - इङ्ग्लण्ट् दलाय विजयः।
सताम्प्टण्> कोरोणकालस्य विरामात्परं पुनरारब्धे कायिकमण्डले प्रथमैकदिनक्रिकेट्स्पर्धायाम् अयर्लण्ट् दलोपरि इङ्ग्लण्ट्दलस्य विजयः। स्पर्धायां इङ्ग्लण्ट्दलं षट्भिः क्रीडकैः अयर्लण्ट्दलं पराजयत्। अयर्लण्ट्दलेन दत्तं १७३ धावनाङ्कानां विजयलक्ष्यम् इङ्ग्लण्ट्दलं २७.५ ओवर् मध्ये ४ क्रीडकानां नष्टेन प्रापयत्।
अङ्काः- अयर्लण्ट्दलं १७२/१० (४४.४) इङ्ग्लण्ट्दलं १७३/४ (२७.५)वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः।
वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः।
नवदिल्ली > 'वन्दे भारत'मित्यभियोजनायाः अंशतया अद्यावधि अष्टलक्षाधिकाः प्रवासिजनाः स्वदेशं प्रत्यागता इति विदेशकार्यमन्त्रालयेण निगदितम्। १.०७ लक्षं जनाः नेप्पालं , भूट्टानं , पाकिस्थानम् इत्यादिभ्यः प्रातिवेशिकराष्ट्रेभ्यः भूतलमार्गेण भारतं प्राप्तवन्तः सन्ति।
अभियोजनायाः पञ्चमं सोपानं शनिवासरे आरभ्यते। २३ राष्ट्रेभ्यः ७९२ विमानानि सेवां करिष्यन्ति। अमेरिक्का ,कानडा, यू के, जर्मनी , फ्रान्स्, आस्ट्रेलिया, न्यूसीलान्ट्, मलेष्या, फिलिप्पीन्स्, सिंहपुरं, बङ्लागेश्, म्यान्मर् , ताय्लान्ट, चीनः, इस्रायेल्, युक्रेन्, किर्गिस्थानम् इत्येतानि राष्ट्राणि अधिवसन्तः भारतीयाः स्वदेशं नेष्यन्ते। आहत्य १,३०,००० जनाः भारतं प्राप्स्यन्तीति प्रतीक्षते।
Wednesday, July 29, 2020
संस्कृतदिनमहोत्सवस्य उद्घाटनम् - डा. बलदेवानन्द सागर
केरलम्> -संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य अस्य संवत्सरस्य संस्कृतदिनमहोत्सवस्य तथा संस्कृतसप्ताहाचरणस्य उद्घाटनं सुप्रसिद्ध संस्कृतवार्तावतारकेषु प्रथमस्थानीयलंकृतः, तथा प्रसारभारत्याः उपदेशाङ्ग: संस्कृतपण्डितः च, डा. बलदेवानन्दसागर: करिष्यति। २०२० जूलैमासे ३१ दिनाङ्के प्रातः ११ वादने उद्घाटनकार्यक्रम: विश्व संस्कृतप्रतिष्ठानस्य फैस् बुक् अन्तर्जालद्वारा भविष्यति। विश्वसंस्कृतप्रतिष्ठानस्य एरणाकुलं जनपदस्य अध्यक्षः डा. एटनाट् राजन् नम्प्यार् महाभागः अस्य कार्यक्रमस्य अध्यक्षपदवीं अलङ्करिष्यति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा कोलत्तूर् अद्वैदाश्रमस्य मठाधिपति: चिदानन्दपुरी स्वामिपादाः मुख्यभाषणं करिष्यति।
जूलै ३१तः ओगस्त् ६ दिनाङ्कपर्यन्तं सायं ५ वादनतः ६ वादनपर्यन्तं "वैखरी" इति नाम्नि संस्कृतप्रभाषणपरम्परा प्रचलिष्यति। अस्य कार्यक्रमस्य उद्घाटनं संबोध् फौण्डेषन् आचार्य: अध्यात्मानन्दसरस्वती स्वामिपादा: करिष्यति। अनुदिनेषु डा. पि के माधवः, डा. प नन्दकुमार:,डा. आर् रामचन्द्र:, महामहोपाध्याय डा. जी गङ्गाधरन् नायर:, डा. एम् वि नटेश: , डा. के उण्णिकृष्ण: इत्यादया: प्रमुखवर्या: प्रभाषणं करिष्यन्ति।
-राजेष् कुमार: ।
कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्।
जनावा > कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्।
बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।
कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्।
जनीवा > कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्।
बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।
Subscribe to:
Posts (Atom)