विश्वस्य आर्थिकी व्यवस्था अधो गच्छति - ऐ एम् एफ्।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, June 25, 2020
Wednesday, June 24, 2020
अनन्तपुरी > कोविड् प्रतिरोधप्रवर्तनेषु केरलस्य प्रक्रमाः आदर्शपराः इति संयुक्तराष्ट्रसभायाः 'सामान्यसेवादिन'कार्यक्रमे प्रशंसितम्। कोविड् १९ महामारेः प्रतिरोधाय श्रेष्ठां सेवां कृतवतां समादर्तुमायोजिते कार्यक्रमे आसीत् केरलाय मुक्तकण्ठप्रशंसा। केरलं प्रतिनिधीभूय स्वास्थ्यमन्त्रिणी के के शैलजा दृश्यश्रव्यप्रणालिकया आयोजिते उपवेशने भागं कृतवती।
'कोविड्प्रतिरोधे केरलेन स्वीकृताः फलप्रदाः पदक्षेपाः' इत्यस्मिन् विषये के के शैलजा भाषणं कृतवती। कोविड्प्रतिरोधे 'निपानुभवाः' साह्यभूताः अभवन्निति तया उक्तम्। संक्रमणव्याधिनां काले कालविलम्बः प्रवर्तनलाघवश्च न युज्यते इत्यनुभवपाठः लब्धः।
एत्योपियायाः राष्ट्रपतिः सह्ले वर्क् स्यूडे, कोरियाराष्ट्रस्य गृहसुरक्षामन्त्री चिन् यङ् , विश्वस्वास्थ्यसंघटनस्य स्वास्थ्यसेनायाः निदेशकः जिं काम्प् बलः, इत्यादयः शैलजामहाभागया सह चर्चायां भागभागं कृतवन्तः।
Tuesday, June 23, 2020
पूरीनगर्याः परम्परा न अवरुद्धा भविष्यति। उच्चन्यायलेन श्व: भगवतो जगन्नाथदेवस्य रथयात्रायाः सञ्चालनाय आदेशः दत्तः।
पूर्यां अद्य रात्रौ नववादनात् बुधवासरे मध्याह्ने द्वि वादने तावत् पिधानम्।
भुवनेश्वरम्> जगन्नाथपूर्याम् श्वः रथयात्रा आयोजयिष्यते। उच्चन्यायालयः यात्रायै अनुमतिम् अयच्छत्, श्रद्धालवः अस्यां यात्रायां सम्मिलिताः न भविष्यन्ति। न्यायालयेन कथितं यत् देवालयसमितिः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च समन्वयेन सह यात्रां निष्कासष्यति। परं जनानां स्वास्थ्येन साकं कथमपि सामञ्जस्यं नैव कर्तव्यम्। यदि स्थितिः अनियन्त्रिता भविष्यति तर्हि ओडिशा सर्वकारः यात्रां स्थागितुं शक्ष्यति। सहैव कथितं यत् पूरीम् अतिरिच्य ओडिशायाम् कुत्रापि यात्रा नैवायोजयिष्यते।
Monday, June 22, 2020
विश्वे कोविड्१९ रोगिणः उपनवतिसहस्रम्।
वाषिङ्टण् > विश्वे कोविड्१९ बाधितानां संख्या ८९ लक्षं , मरणसंख्या ४.६६ लक्षं च अतीता। गते चतुर्विंशतिघण्टाभ्यन्तेरे १.५० लक्षं जनाः कोविड्१९ बाधिताः चतुस्सहस्राधिकाः मृताः च अभवन्। अमेरिक्केदेशे रोगबाधितानां संख्या २३ लक्षम् अतीता। ब्रसीले संख्येयं १०.7, रष्यदेशे ६ लक्षं च भवति। भारते तु रोगबाधिताः ४ लक्षम् अभवन्। पेरुदेशे २.५० लक्षं रोगबाधिताः वर्तन्ते। तथापि ब्रिटण्,स्पेयिन्, इटलि इत्यादिषु राष्ट्रेषु रोगबाधितानां संख्या न्यूना अभवत्। विश्वे एतावता ४७.३७ लक्षं जनाः रोगमुक्ताः अभवन्, ३७.०७ लक्षं जनाः अधुना चिकित्सायां वर्तन्ते च।
Sunday, June 21, 2020
वनं-परिस्थितिमन्त्रालयस्य स्वागतगानं संस्कृते।
तृश्शूर् > केरलीयवनशास्त्रज्ञेन क्रमीकृतं संस्कृतभाषायां विरचितं प्रकृतिवन्दनगानं केन्द्र वनं-परिस्थितिमन्त्रालयेन स्वागतगानं कारयति। कोयम्पत्तूरस्थे केन्द्रीयतरुप्रजननकेन्द्रे मुख्यशास्त्रज्ञाध्यक्षः हरिप्पाट् प्रदेशीयः डो.कण्णन् सि एस् वारियरः एव गानमिदं संस्कृतभाषायां प्रकृतिवन्दनरूपेण व्यरचयत्।
यजुर्वेदमाधारीकृत्य एवास्य रचना कृता। कर्णाटकसंगीतस्थेषु 'नाट्टा' 'आनन्दभैरवी' ,'हंसध्वनिः' इत्येतेषु रागेषु क्रमीकृतमिदं गानं वारियरेणैव आलपितमस्ति। मिनिटद्वयं दीर्घितमिदं स्वागतगानम्।
२००२तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयेन आयोजितायै सङ्गोष्ठ्यै विरचितमिदं प्रकृतिवन्दनम्। ततः मन्त्रालयस्य सङ्गोष्ठीषु स्वागतगानरूपेण स्वीकृतम्। केन्द्रवनं-परिस्थितिमन्त्रिणः अवधाने आगतमिदं गानं मन्त्रालयस्य स्वागतगानं कारयितुं निर्णयः कृतः आसीत्।
विश्वे कोविड्-रोगग्रस्ताः 89 लक्षमतीताः, मृतानां संख्या 4.66 लक्षमतीताः
चित्रं - गेट्टि |
वाषिङ्टण्> आविश्वं कोविड् रोगग्रस्तानां संख्या 89 लक्षमतीताः 24 होराभ्यन्तरे 1.5 लक्षं जनाः रोगग्रस्ताः अभवन् । 4000 जनाः मृताश्च। इदानीं यावत् 4.66 लक्षात् परं रोगग्रस्ताः मृताः।
विवरणानि -अमेरिका - रोगग्रस्ताः 23 लक्षम्
मृताः1,21,979
व्रसीले रोगबाधिताः 10.70 लक्षम्
रष्य - रोगग्रस्ताः 6लक्षम् मृताः 8000
भारते रोगग्रस्ताः 4 लक्षम्
मृताः13000 लक्षम्
पेरु - रोगग्रस्ताः 2.5 लक्षम् आविश्वं 47.37 लक्षम् जनाः रोगमुक्ताः अभवन्। अधुना37.07 लक्षम् जनाः चिकित्सालये सन्ति। एतेषु 55000 जनानाम् अवस्था गुरुतररीत्या अनुवर्तते।
Saturday, June 20, 2020
वर्षान्ते यावत् कोविड् प्रतिरोधौषधम् उपलभ्यते - विश्वस्वास्थ्यसंस्था।
जनीव> विश्वस्य विविधासु प्रयोगशालासु कोविड्१९ प्रतिरोधाय उचितम् औषधं विकासयितुं वैज्ञानिकप्रमुखाः प्रयत्नं कुर्वन्तः वर्तन्ते, वर्षान्ते यावत् अस्य फलम् उपलभ्यते इति विश्वस्वास्थ्यसंस्था। जनीव मध्ये प्रवृत्ते वार्तामेलने विश्व-स्वास्थ्यसंस्थायाः वैज्ञानिकप्रमुखा डा.सौम्या स्वामिनाथन् एव वृत्तान्तोऽयं न्यवेदयत्। मनुष्येषु प्रयोक्तुं शक्तानि उपदश औषधानि वैज्ञानिकैः विकसितानि सन्ति, एषु त्रीणि यावत् क्षमतानिरीक्षणस्य तृतीयस्तरं प्रविष्टानि, बहुत्र औषधविकसनाय प्रयत्नाः दृश्यन्ते च, एतत्सर्वं शुभप्रतीक्षां ददत् वर्तते - सा वार्तामेलने अवदत्।
Friday, June 19, 2020
प्रथमः प्रतिप्रहरः आर्थिकमण्डले।
चीनेन सह ४७१ कोटिरूप्यकाणां समयः भारतेन निरस्तः।
नवदिल्ली > लडाकस्य गाल्वनाधित्यकायां २० भारतीयसैनिकानां हत्यायाः परं चीनीयसंस्थायै दत्तः ४७१ कोटिरूप्यकाणां निर्माणसमयः भारतीयरेल्यानसंस्थया निरस्तः। निर्माणप्रगत्यभावादेवायं निर्णयः इत्युच्यते अपि साम्प्रत्यवस्था एव कारणमिति निरीक्षते।
लोकबैङ्कस्य साह्येन निर्मातुम् उद्दिष्टमाणस्य 'पूर्वीयपण्यगमनागमनपथस्य' कान्पुरस्य मुगल्सारस्य च मध्ये वर्तमानस्य ४१७ कि मी परिमितस्य मार्गस्य निर्माणसन्धिरेव निरस्यमाना वर्तते। अस्मिन् मण्डले संज्ञासङ्केतसंविधानं [Signal] वार्तावितरणश्रृङ्खलां च सज्जीकर्तुंमुद्दिश्य अभिसन्धिः "Beijing National Railway Research and Design Institute of Signal and Communication" नामिकायै दत्ता आसीत् । सा सन्धिरेव निरस्ता।
२०१६ तमे दत्ताम् अभिसन्धिमनुसृत्य २०१९ तमे समापयितव्यमासीत्। किन्तु इतःपर्यन्तं २०% निर्माणमेव सम्पन्नम्!
Thursday, June 18, 2020
चीनं प्रति भारतस्य प्राबोधनम्।
प्रकुप्यते चेत् प्रत्युत्तरं मर्मभेदकं भविष्यति - नरेन्द्रमोदी।
सैनिकानां जीवत्यागं न वृथा भविष्यति।
नवदिल्ली > गतदिने चीनं प्रति सङ्घर्षे बलिदानिनां सैनिकानां जीवत्यागः न वृथा भविष्यतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। "राष्ट्रं शान्तिमिच्छति। किन्तु प्रकोपनं भविष्यति तर्हि उचितं प्रत्युत्तरं दास्यति। राष्ट्रस्य परमाधिकारं सम्पूर्णतां च संरक्षितुं भारतं प्रतिज्ञाबद्धं भवति।" ह्यः राज्यीयमुख्यमन्त्रिभिः सह मेलने आमुखरूपेण नरेद्रमोदी उक्तवान्।
त्यागः सहनं च भारतस्य स्वाभाविको गुणो भवति। शौर्यं शक्तिश्च ताभ्यां सह वर्तेते। अतः अस्माकं सैनिकानां जीवत्यागः कदापि न वृथा भव्ष्यतीति प्रधानमन्त्रिणा असन्दिग्धेन स्पष्टीकृतम्।
चीनभारतयोः सङ्घर्षः - सर्वपक्षमेलनाय प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वानम्।
नवदहली> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्। द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।
Subscribe to:
Posts (Atom)