संस्कृतभाषायां विश्वस्य प्रथमा 'कोरोनाविषयकजनचेतनाविवर्धिका प्रश्नोत्तरी'
- दिन-चतुष्टयं यावत् प्रचलितायाम् अस्यामन्तर्जालीय- संस्कृत-प्रतियोगितायाम् अशेष-देशात् अष्टाशीत्युत्तर-द्विशताधिकैकसहस्रं जनै: प्रतिभागिता विहिता।
- पेमाखाण्डु:, हरदीपसिंह: पुरी, सोनल: मानसिंह:, योगगुरु: बाबा रामदेव:, बिबेक: देबरॉय:, डॉ. ए. सूर्यप्रकाशश्चेत्यादया: सुप्रसिद्धा: नेतारो, मन्त्रिण:, कलाकारा:, प्रशासकाश्चापि अस्या: प्रतिस्पर्धाया: समर्थने ट्वीटर-सञ्जाले रीट्वीट् इति सन्देशस्य पुनःप्रसारणम् कृतवन्त:।
- पद्मश्रिया समलङ्कृतस्य विश्वप्रसिद्धस्य मनीषिमूर्धन्यस्य गुणगणगरिष्ठस्य सर्वशास्त्रनिष्णातस्य भागीरथप्रसादत्रिपाठीति 'वागीश शास्त्रि' वर्यस्य आध्यक्ष्ये प्रतियोगितेयं साफल्येन समनुष्ठितम् ।
- ‘लॉक डाउन’ 5.0 अर्थात् पूर्णपिधानस्य पञ्चम-चरणस्य आगामि-प्रश्नोत्तरीप्रतियोगिता 'संस्कृतपत्रकारिताविषये समनुष्ठास्यते ।
निखिलेSपि देशे यत्र जनसामान्यै: लॉक डाउन 4.0 इति पूर्णपिधानस्य चतुर्थचरणस्य परिपालनं गृहेषु उषित्वा एव कृतं तत्रैव सर्वै: जनै: समसामयिकीं कोरोना-समस्यामवलम्ब्य जनचेतनावर्धनार्थं समायोजितायामद्भुतायां संस्कृत प्रतियोगितायां प्रतिभागोSपि विहित:। अस्या: अद्भुताया: 'कोरोना-जनचेतनाविवर्धिकाया: प्रतिस्पर्धाया: समायोजनस्य विचार: संस्कृतवाङ्मये साहित्याकादेमी युवपुरस्कारेण पुरस्कृतस्य सुख्यातयुवकवे: युवराजभट्टराईवर्यस्य तस्य सुमित्रस्य जीवनजोशी वर्यस्य च मानसे समुद्भूत:। ध्यानास्पदमस्ति यत् युवराजभट्टराईवर्य: देशस्य सुख्यात:संस्कृतयुवकवि: वर्त्तते। तस्य "वाग्विलासिनी" "मनोऽनुरञ्जिनी" चेति संस्कृतकवितासंग्रहद्वयी संस्कृत जगति सविशेषञ्च युववर्गेषु प्रसिद्धा विद्यते । युवराजभट्टराईमहोदय: प्रत्यपादयत् यत् 'प्रधानमन्त्रिण: श्रीनरेन्द्रमोदिन:, राज्य-प्रशासनानां चाध्यर्थनामनुसृत्य सम्पूर्णमपि राष्ट्रं विगत-अष्टषष्टि-दिवसेभ्य: पूर्णपिधानमनुपालयदस्ति। अत एव संगरोधस्य सञ्चाररोधस्य च राजाज्ञापालनपूर्वकं संस्कृतभाषाया: निरन्तरं प्रसारप्रचाराय किमपि क्रियात्मककार्यकरणमावयो: मानसपटलेSवर्तत ।'
संस्कृत-पत्रकारिता-योग-आयुर्वेद-वास्तुशास्त्रादिप्राच्यविद्यानां संवर्धसंरक्षणपुरस्सरं विश्वमञ्चे संस्कृतस्य प्रतिष्ठापनार्थं सुतरां संलग्नं 'स्वस्तिवाचनम्' इत्याख्यस्य समवा