उम्पुण् चक्रवातः बङ्गालराज्ये अतिशक्तः - मरणसंख्या ७२
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, May 21, 2020
Wednesday, May 20, 2020
उम्-पुन् चक्रवातः - पश्चिमबंगाले 12 हताः 5500 गृहाणि भग्नानि।
कोल्कोत्त> ११०-१२० वेगेन समागतेन उम्-पुन् चक्रवातेन ५५०० गृहाणि भग्नानि। द्वे स्त्रिये वृक्षपतनेन मृत्युम् उपगते। आहत्य द्वादशजनाः पश्चिमबंगाले मृताःl कोल्कत्ता नगरेपि सौधाः भग्नाः। पश्चिम बंगालतः ५००००० जनाः ओरीसायाः लक्षं जनाः च सुरक्षितशिबिरं प्रति नीताः सन्ति। राष्ट्रिय दुरन्तनिवारण सेनायाः ४१ सङ्घाः ओरीसा बंगालयोः रक्षाप्रवर्तनाय नियुक्ताः सन्ति। कोविड् अणुबाधायाः व्यापनकाले रक्षाप्रवर्तनानि दुष्कराणि इति सेनाध्यक्षेण एस् एन् प्रधान् इत्याख्येन पूर्वम् उक्तमासीत्।
वार्तामुक्तकानि।
जूण् मासतः २०० वातानुकूलरहितरेल् यानानि।
नवदिल्ली > आगामिमासस्य प्रथमदिनाङ्कादारभ्य २०० वातानुकूलरहिताः सविशेषाः रेल् यानसेवाःआरब्धुं रेल्मन्त्रालयेन निश्चितम्। यानानां मार्गक्रमः कालक्रमश्च अचिरादेव प्रख्यापयिष्यति। ओण्लैन् आरक्षणमेव भवेत्।
अधिनिवासितकर्मकराणां कृते 'श्रमिक्' रेल् यानानां संख्यां युगलीकर्तुमपि निश्चिमस्ति।
१० , +२ परीक्षाकेन्द्राणि परिवर्तयितुं सन्दर्भः।
अनन्तपुरी > पिधानकाले विदूरस्थानेषु बन्धितानां एस् एस् एल् सि , तथा +२ छात्राणां कृते सुविधाप्रदानि परीक्षाकेन्द्राणि ओण्लैन् द्वारा चयितुम् अवसरः। गल्फादि प्रदेशेषु शिक्षां कृतवन्तः छात्राः इदानीं स्वदेशे विद्यन्ते चेत् अत्रैव अनुयोज्येषु स्थानेषु परीक्षां लेखितुं शक्यन्ते। आदेशः अचिरादेव भविष्यतीति सामान्यशैक्षिकनिदेशककार्यालयेन निगदितम्।
भारते कोविड्रोगिणः एकलक्षाधिकषड्सहस्रम्।
नवदिल्ली > भारते गतदिने ५८९० जनेषु कोविड् स्थिरीकृतम्। अनेन रोगिणां संख्या १,०५९८६ इत्युदगच्छत्। आहत्य मृत्युसंख्या तु ३,२१२।
महाराष्ट्रे रोगबाधिताः ३७,१५८ अभवन्। गुजराते तमिल्नाटे च विषाणुबाधितानां संख्या प्रतिराज्यं १२,००० अतीता। आभारतं ४०,८५६ रोगममुक्ताः जाताः।
केरले अधिकानि शैथिल्यानि।
अनन्तपुरी > पिधानस्य चतुर्थसोपाने प्रख्यापिते केरलं केन्द्रशासनस्य मार्गरेखामाधारीकृत्य अधिकानि शैथिल्यानि अनुमोदितानि। जनपदेषु आभ्यन्तरबस् यानसेवा निबन्धनाभिः आरब्धा। सुवर्णाभरणशालाः वस्त्रशालाः इत्यादयः उद्घाटयिष्यन्ति।
उम्-पुन् चक्रवातः तीरं प्राप्तः। शक्ता वृष्टिः सागरजलोद्गमनं च अनुवर्तेते।
नवदिल्ली> वङ्ग समुद्रस्य उतरपश्चिमभागे उत्पन्नः उन् पुन् चक्रवातः वङ्गतीरं प्राप्तः। अद्य मध्याह्नानन्तरं २ः३० वादनतः तीरभागेषु वातः वाति। चत्वारहोरात्मकः भविष्यति वातस्य प्रभावः इति वातावरणनिरीक्षण- केन्द्रेण निगदितम्। १९० कि.मी वेगेन भवति इदानीं वातस्य वीजनम्।
एष्या भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतम्I
नवदिल्ली> भारते कोरोणा वैराणुग्रस्थाः लक्षम् अतीताः। एष्य भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतं भवति इत्यस्ति नूतनम् आवेदनम्। राष्ट्रे पिधान-नियन्त्रणादिकं लघूकृत्य आर्थिकप्रयत्नानि समारब्धे काले भवति ईदृशम् आवेदनम्। 1,01,328 जनाः रोगग्रस्तानां पट्टिकायां सन्ति। त्रिसहस्रात् परं जनाः मृताःl ब्लूम् बेर्ग् इत्यस्य कोरोणावैराणु अनुधावनाङ्कानुसारं गत सप्ताहे रोगग्रस्थतामानकं प्रतिशतं 28 इति वर्घितम्। 42,125 रोगबाधिताः 903 मृताः इति आवेदिते पाकिस्थाने रोगग्रस्थतामानकं प्रतिशतं 19 इति आवेदितम् अस्ति।
Tuesday, May 19, 2020
उम्पुण् चक्रवातः शक्तिम् आर्जितवान्I अति तीव्रशक्त्या तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रम्। पूर्वोत्तर राज्येषु अतीव-जाग्रता- निर्देशः ज्ञापितः।
कोल्कत्त> बङ्गाल् समुद्रे उम्पुण् चक्रवातः तीव्रशक्त्तिं प्राप्नोति। २७५ कि.मी अस्ति अस्य वेगःI श्वः मध्याह्नेन वातः तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रेण उच्यते। पूर्वोत्तर राज्येषु अतीव-जाग्रता-निर्देशः ज्ञापितः अस्ति। इदानीं भारतस्य पूर्वतीरस्य समान्तर रीत्या पूर्वोत्तर दिशि भवति वातस्य सञ्चारपथः। पश्चिम-बंगालं, आन्ध्राप्रदेशः, ओडीषा राज्येषु वातः इदानीं वाति। पश्चिम-बंगालः ओडीषा राज्याभ्यां जनाः सुरक्षितस्थानं प्रति नयन्तः सन्ति। दुरन्तनिवारण-सेनायाः ३७ सङ्घाः इदानीं विन्यस्थाः सन्ति।
पलायनस्य अनुस्यूतप्रवाहसाक्षीभूता राजधानिनगरी।
पलायनाय यतितः अधिनिवासितकर्मकरपरिवारः आरक्षकनिरुद्धः सन् सेतुस्तम्भस्य अधः विश्राम्यति। |
नवदिल्ली > इतरराज्यकर्मकराणां पलायनेन राजधाननगरी दिल्ली निरुद्धश्वासा वर्तते। दशसहस्रशः जनाः उत्तरप्रदेशः, बिहारः , मध्यप्रदेशः इत्यादिस्थान् स्वग्रामान् गन्तुं बस् यानानि प्रतीक्ष्यमाणाः दिल्ल्याः सीमाप्रदेशेषु सम्भूयमानाः सन्ति। केचित्तु धनविनष्टाः तीव्रं ग्रीष्मातपम् अनालक्ष्यमाणाः बहुयोजनादूरे वर्तमानान् ग्रामान् लक्ष्यीकृत्य पदसञ्चलननिश्चेन वर्तन्ते। प्रस्थिताः केचन आरक्षकैः निरुद्धाः।
सीमाजनपदे गासियाबादे वर्तमानं रामलीलाक्रीडाङ्कणं 'श्रमिक्' रेल् यानान्याश्रित्य स्वदेशं गन्तुमिच्छुभिः कर्मकरैः निर्भरमस्ति।
शतशः कर्मकराणां पलायने पूर्वदिल्लीस्थं 'मयूरविहारं' ह्यः साक्षीभूतमभवत्। तीव्रातपे श्रान्ताः बहवः मेट्रोस्तम्भानां निस्थानानां चाधः अभयं प्राप्तवन्तः। एकैकशः संघशश्च पद्भ्यां चरतां कर्मकराणां दृश्यं दुःखदं भवति।
Monday, May 18, 2020
कोविडस्य उत्भवस्थानम् अवगन्तव्यम्, पक्षरहितान्वीक्षणं वाञ्चन्ति विश्वराष्ट्राणि।
जनीव> कोविड् बाधा परिहाराय विश्वस्वास्थ्यसंस्थाया कृतान् प्रक्रमान् अधिकृत्य स्वतन्त्रान्वेषणम् आवश्यकम् इति ६२ राष्ट्राणि | ओस्ट्रेलिय यूरोप्यन् यूणियन् च प्रथमतया अन्वीक्षणं वाञ्चितौ। अद्य समारब्धे ७३ तमे विश्वस्वास्थ्यमेलने अन्वीषणाय संयुक्तापेक्षा (परिहारपत्रं) दास्यन्ति। कोविडस्य उत्भवस्थानम्। विषाणोः व्यापनं, प्रतिरोधप्रक्रमान् च अधिकृत्य स्वास्थ्य-संस्थया कृतानां प्रवर्तनानां समग्रान्वीषणं च अवश्यकं इति परिहारपत्रे लिखितम् अस्ति।
Sunday, May 17, 2020
आत्मनिर्भरभारताभियानम् - पञ्चमस्तरप्रख्यापनम्।
नवदहली> आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजक-परियोजनायाः पञ्चमं तथा अन्तिमं च विशदीकरणं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वाश्रयभारतनिर्माणं परियोजनायाः अस्याः मुख्यं लक्ष्यं वर्तते इति धनमन्त्रिणी अवदत्। तदर्थं राष्ट्रस्य समस्तविभवानाम् उपयोग: कार्यः इति सा अवदत्। प्रधानतया ७ मण्डलानि आधारीकृत्यैव अन्तिमे प्रख्यापने प्रामुख्यं दत्तं दृश्यते। देशीयग्रामीणकर्मप्रदानपरियोजना, आरोग्यमण्डलं, व्यापारः, व्यापारसङ्घनियमः, व्यापारारम्भाय कल्पितव्यवस्थानां सरलीकरणं, राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यम् इत्यादिषु सप्तसु मण्डलेषु अद्य प्रख्यापनमभवत्। केन्द्रसर्वकारेण ८.१९ कोटिजनेभ्यः धनवितरणं कृतम्। ६.८१ कोटि पाचकवातकस्तम्भानां वितरणं तथा जन्धनसुविधाद्वारा २० कोटिरुप्यकाणां वितरणं च कृतं वर्तते। आरोग्यमण्डले १५००० कोटिरुप्यकाणां वितरणं कृतम्। राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यं ५% इति वर्धितम्। शैक्षिकमण्डले साङ्केतिकविद्यायाः उपयोगः कार्यक्षमतया क्रियते, राष्ट्रस्य सर्वकारनियन्त्रणविधेयानां सामान्यस्तरीयस्थापनानां संख्या न्यूनीक्रियते, देशीयग्रामीणकर्मप्रदानपरियोजनायाः कृते ४०००० कोटिरुप्यकाणाम् अधिकधनसाहाय्यं च प्रख्यापितेषु अंशेषु प्राधान्यमावहन्ति।
जन्मदेशं प्रतिगमनं मृत्युयात्रा अभूत्।
१५ अधिनिवासितकर्मकराः ट्रक् यानदुर्घटनायां मृताः।
औरय्या > उत्तरप्रदेशस्थे औरय्या - काण्पुरराष्ट्रियमार्गे अधिनिवासितकर्मकरयुक्तं ट्रक् यानं स्थगितभारवाहनेन सह घट्टनेन २५ कर्मकराः मृताः। ४० आहताः। आहतेषु १४ कर्मकराणामवस्था गुरुतरा वर्तते। शनिवासरे उषसि त्रिवादने आसीदियं दारुणा दुर्घटना।
दिल्लीतः मध्यप्रदेशं गतवदासीत् भारवाहनम्। अस्मिन्नपि पलायमानाः कर्मकराः आसन्। किन्तु विश्रान्त्यर्थं मार्गपार्श्वे स्थगितमासीत्। राजस्थानात् उपपञ्चाशत् अधिनिवासितकर्मकरैः युक्तं ट्रक् यानं स्थगितं भारवाहनं प्रति घट्टितमासीत्। झार्खण्डः- पश्चिम वंग स्वदेशीयाः कर्मकराः आसन् ट्रक् याने।
Subscribe to:
Posts (Atom)