OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, May 6, 2020
आरोग्यसेतु आप् सुरक्षितम् - केन्द्रसर्वकारः।
नवदहली> आरोग्यसेतु आप् सुरक्षितम् इति केन्द्रसर्वकाराय नियममन्त्री रविशङ्करप्रसादेन उक्तम्। आप् तः व्यक्तीनां निजीयांशाः न अपहृताः इति तेन सूचितम्। प्रत्येकं व्यक्तिम् प्रत्यभिज्ञातुम् आरोग्यसेतु आप् संविधानम् अपर्याप्तम् भवतीति तेन उक्तम्। कोविड् प्रतिसन्धेः तरणायैव संविधानस्यास्य उपयोगः सर्वकारेण प्रेरितः भवति, संविधानमिदं शाश्वतं न भवति - मन्त्रिणा सूचितम्। वैय्यक्तिकांशाः अपह्रियन्ते इति भीतिः मा भवतु इत्यपि तेन निवेदितम्। राष्ट्रे सर्वकारकर्मकरैः आरोग्यसेतु आप् उपयोक्तव्यम् इति केन्द्रसर्वकारेण निर्बन्धरूपेण निवेदितमासीत्। किन्तु, संविधानेऽस्मिन् व्यक्तीनां निजीयांशानां सुरक्षाविषये न्यूनताः सन्तीति प्रतिपक्षनेतृभिः तत्तत्वनिपुणैः च आरोपितञ्च। अत एव केन्द्रसर्वकारपक्षतः आप् विषये विशदीकरणं दत्तं वर्तते।
केन्द्रसर्वकारस्य जन औषधिकेन्द्राणि प्रतिगृहम् औषधलभ्यतायै प्रवर्तन्ते- प्रधानमन्त्री
नवदहली> सम्पूर्णपिधानवेलायामस्याम् अवश्यौषधानां लभ्यतायै प्रधानमन्त्री भारतीय जनौषधिपरियोजनकेन्द्राणि प्रवर्तन्ते। एतदर्थम् उपभोक्तृणां कल्पनाः वाट्साप्, इ मेयिल् इत्यादिसामूहिकमाध्यमद्वारा स्वीक्रियन्ते। एवम् उपभोक्तृभिः समर्प्यमाणानां औषधनिश्चयपत्राण्यनुसृत्य प्रतिगृहं औषधवितरणं करिष्यन्ति च। अधुना कानिचन जनौषधिकेन्द्राणि सामूहिकमाध्यमद्वारा कल्पनां स्वीकृत्य सेवां कुर्वन्ति च। अस्य संविधानस्य विपुलीकरणम् अवश्यं करिष्यतीति केन्द्रमन्त्री डि वि सदानन्दगौडमहोदयः न्यवेदयत्। ग्रामप्रदेशानाम् अन्ततो गत्वा सेवनाय पत्रालयविभागस्य साहाय्यमपि स्वीक्रियते। सम्पूर्णपिधानवेलायाम् औषधवितरणभङ्गः मा भवतु इति धिया १७८ विधानाम् अवश्यौषधानां लभ्यतायै १८२ कोटिरुप्यकाणां कल्पना मन्त्रालयद्वारा दत्ता वर्तते। एवं 'जनौषधि सुगम्' नामकम् आप् अपि सेवनं लब्धुम् उपयोक्तुं शक्यते।
Tuesday, May 5, 2020
कोविड्रोगाणोः प्रसरणशक्ते: शमनं प्राप्नोति - राष्ट्राणि समाश्वासमार्गे।
नवदहली> २०२० वर्षस्य जनुवरि मासादारभ्य आरब्धा कोविड्भीतिः सावधानतया शमनं प्राप्नोति। कोविड्रोगाणोः प्रसरणशक्तिः शाम्यति इति विविधानां विश्वराष्ट्राणाम् अधुनातनस्थितिम् आधारीकृत्य विश्ववार्तामाध्यमाः सूचयन्ति। द्विलक्षाधिकानां जनानां मरणाय कारणस्य कोरोणरोगाणोः सामाजिकव्यापनं फेब्रुवरि-मार्चमासयोः अधिकमासीत्। किन्तु, अधुना तादृशं रोगव्यापनं न दृश्यते इति विविधानां राष्ट्राणां रोगिणां संख्या सूचयति। सम्पूर्णपिधानसहितानां नियन्त्रणानां फलप्रदरीत्या संयोजनं तथा निरीक्षण-परीक्षणादिकं च रोगाणोः सामाजिकव्यापनं प्रतिरोद्धुम् उपकारकम् अभवत्। अमेरिकदेशस्य स्थिति: निराशाप्रदायिका चेदपि एष्यस्य यूरोपस्य च स्थितिः समीचीना एव। अत एव यूरोपीयराष्ट्रेषु सम्पद्व्यवस्थायाः पुनरुज्जीवनप्रवर्तनानि आरब्धानि च। बहुत्र अतीवसुरक्षाकार्यक्रमैः सह यन्त्रागारकेन्द्राणि, वाणिज्यकेन्द्राणि, भोजनालयाः, पुस्तकालयाः च प्रवर्तन्ते। शैक्षिकस्थापनानां प्रवर्तनं भागिकतयैव आरब्धं दृश्यते। बहिर्गमनवेलायां मुखावरणधारणम् अवश्यं करणीयं भवति। भारते अपि सम्पूर्णपिधानं तृतीयस्तरं प्रविष्टं चेदपि आनुकूल्यादिकं दत्तं वर्तते च। तथापि सम्पूर्णपिधाननियन्त्रणेषु आनुकूल्यादिकं विचिन्त्य एव दातव्यम् इति विशारदाः अभिप्रयन्ति च।
Monday, May 4, 2020
विद्यालयछात्रेभ्यः अन्तर्जालीयकक्ष्या समारभ्यते।
कालटी> सम्प्रतिवार्तया विद्यालयछात्राणां कृते अन्तर्जाल-माध्यमद्वारा अध्ययनं समारभ्यते। कोविड्१९ वैराणुव्यापनेन विद्यालयानाम् उद्घाघाटनं विलम्बेन स्यात् इति चिन्तायां भवति इयं विचिन्तनं इति सम्प्रतिवार्तपत्रिकया आवेद्यते। एतदर्थं यूट्यूब् माध्यमेन नवीना वाहिनी आरप्स्यते अन्तर्जलप्रसारणम् अपि भविष्यति। केरल-सर्वकारस्य पाठ्य-प्रणालीम् अनुसृत्य कक्ष्याचालनाय अध्यापकाः नियुक्ताः। सि बि एस् सि पाठ्यप्रणालीम् अनुसृत्य अपि भविष्यति।
मेय् मासस्य सप्तम दिनाङ्के गूगिल् मीट् सुविधा द्वारा प्रशिक्षकानाम् अन्तर्जाल-संगोष्ठी# (online seminar) निश्चिता अस्ति। विशेषज्ञाः तन्त्रज्ञाः च अस्मिन् भागभाजः भविष्यन्ति।
विश्वारोग्यसंस्थायाः औषधपरीक्षणे भारतस्यापि योगदानम्।
नवदहली> कोविड्१९ प्रतिरोधाय नूतनौषधपरीक्षणं प्रति भारतमपि प्रविशति। विश्वारोग्यसंस्थायाः नेतृत्वे सज्जीक्रियमाणे औषधपरीक्षणे भारतमपि भागभाक् भविष्यतीति केन्द्र-स्वास्थ्यमन्त्री डा.हर्षवर्धनः न्यवेदयत्। 'सोलिडारिट्टि' इति नाम्ना क्रियमाणे औषधपरीक्षणे रेम्टेसिविर् नामकम् औपधं राष्ट्रस्य विविधेषु मण्डलेषु कोविड् रोगिषु परीक्ष्यते इति हर्षवर्धनः न्यवेदयत्। एतदर्थम् औषधस्य १००० मात्रा सज्जीकृतं वर्तते। परीक्षणं सम्बन्ध्य उन्नतस्तरे चर्चाः कियमाणाः सन्ति। ऐ सि एम् आर्, सि एस् ऐ आर् संस्थयोः वैज्ञानिकैः विषयोऽयं निरीक्ष्यते च। अमेरिकदेशे कोविड् रोगिषु रेम्टेसिविर् औषधस्य प्रयोगेन ३१% वेगेन रोगमुक्तिः सञ्जाता च। कोविड्१९ रोगमुक्तये आवश्यकान् कालान् न्यूनीकर्तुम् औषधोऽयम् उपकारकं भवतीति 'सोलिडारिट्टि' नामकः औषधपरीक्षणसङ्घः प्रमाणीकरोति। सङ्घेऽस्मिन् शताधिकानि राष्ट्राणि भागभाक्त्वं वहन्ति। मनुष्यशरीरेषु प्रविश्यमाणस्य कोरोणरोगाण्वोः स्वयपरिवर्तनशेषिं रेम्टेसिविर् औषधं नाशयतीति वैज्ञानिकाः अभिप्रयन्ति।
कुल्भूषण् यादवस्य मोचनं साध्यम् - हरीष् साल्वे।
नवदहली> पाकिस्थानस्थस्य सैनिकन्यायालयस्य वधदण्डननिर्णयेन बन्धनस्थस्य कुल्भूषण् यादवस्य मोचनाय नयतन्त्रसाहाय्यं लब्धुं भारतेन अन्ताराष्ट्रन्यायालयः प्रापणीयः इति प्रमुखः अभिभाषकः हीरष् साल्वे अवदत्। एकस्मै देशीयवार्तामाध्यमाय दत्तायां अभिमुखवेलायां भाषयन्नासीत् हरीष् साल्वे। कुल्भूषण् यादवाय नयतन्त्रसाहाय्यं दातव्यमिति निर्देशः २०१९ तमे वर्षे लब्धः वर्तते, किन्तु निर्देशोऽयं पाकिस्थानेन न पाल्यतेति सः अवदत्। अतः तस्य मोचनाय भारतेन अन्ताराष्ट्रन्यायालयः एव प्राप्तव्यः इति साल्वे असूचयत्। कुल्भूषणस्य मोचनाय भारतेन २३ आवेदनानि पाकिस्थानं प्रति समर्पितानि सन्ति। किन्तु कदापि एकं प्रतिकरणमपि पाकिस्थानपक्षतः नाभवत् - सः असूचयत्। कुल्भूषणः स्वयमेव अपराधवहनं अकरोत् इत्येव पाकिस्थानस्य विशदीकरणं, किन्तु एतदर्थं किमपि निदानं न समर्पितं च, साल्वे अभिप्रयत्। एतत् पाकिस्थानेन क्रियमाणं मानवाधिकारलङ्घनमेव भवतीत्यपि हरीष् साल्वे अवदत्। कुल्भूषणस्य मोचनम् अन्ताराष्ट्रन्यायालयस्य साहाय्येन सुसाध्यमेव इति प्रतीक्षामपि सः प्राकटयत्।
Sunday, May 3, 2020
केरलस्य कोविड्प्रतिरोधाय शशि तरूरस्य अतुल्यं योगदानं - "Thermal Optical Imaging Camera" ।
अनन्तपुरी > केरलस्य कोविड् प्रतिरोधकर्ममण्डलाय अधिकोर्जं प्रदाय लोकसभासदस्यस्य शशि तरूरस्य महत्तरं योगदानम्। कृत्रिममेधाशक्तियुक्तं मुखावगमनसाङ्केतिकविद्याधिष्ठितं "Thermal Optical Imaging Camera" नामकं चित्रग्राहियन्त्रं केरलराजधानिम् आनीय सः केरलस्य कोविड्प्रतिरोधयज्ञाय शक्तिं प्रददात्।
सामाजिकदूरं पालयतां अनेकेषां शरीरतापं युगपद् प्रत्यभिज्ञातुं अनेनोपकरणेन शक्यते। शशि तरूरस्य आगोलसौहृदं 'एम् पि निधिं' चोपयुज्य जर्मनीतः एवेदं तापीयचित्रग्राहियन्त्रम् आनीतम्। गते एप्रिल् २४तमे जर्मन्यां कोलोण् प्रदेशात् डि. एछ्. एल् संस्थायाः सविशेषविमाने पारीस्, ब्रसल्स्, लीप्सिग्, बहरिन्, दुबाय् इत्येतैः विमाननिलयैः २८तमे दिनाङ्के बंगलुरु प्रापितम्। ततः वीथीमीर्गेण अनन्तपुरं प्रापितम्।
ह्यः अनन्तपुरीतः स्वराज्यं गतवताम् इतरराज्यकर्मचारिणां शरीरतापः अनेन यन्त्रेणैव अवगतः। ५.८ लक्षं रूप्यकाणि मूल्ययुतस्य यन्त्रस्य आनयनव्ययः २.७५ लक्षम् अभवत्। इतरराज्यकर्मकराणां गमनसमये तथा प्रवासिनाम् आगमनसमये च इदं चित्रग्राह्युपकरणम् अत्यन्तं प्रयोजनप्रदं भविष्यतीति मन्यते।
जनधन वित्तलेखान् प्रति केन्द्रसर्वकारस्य धनसाहाय्यम्।
नवदहली> राष्ट्रस्य वित्तकोशेषु वनितानां वित्तलेखान् प्रति केन्द्रसर्वकारस्य धनसाहाय्यस्य द्वितीयः अंशः सोमवासरादारभ्य लभ्यते। वित्तकोशेषु जनबाहुल्यं न्यूनीकर्तुं संख्यासम्प्रदायः कल्पितः अस्ति। येषां वित्तकोशविनिमयसंख्यायां अन्ते ०,१ संख्ये वर्तेते तेभ्यः सोमवासरे, २,३ संख्यकेभ्यः मङ्गलवासरे इत्येवम् अस्य मासस्य ११ दिनाङ्कपर्यन्तं धनस्वीकरणाय समयः कल्पितः अस्ति। ५०० रुप्यकाणां धनसाहाय्यमेव अधुना लभ्यते। धनसाहाय्यपद्धतेः प्रथमांशरूपेण एप्रिल् मासे ५०० रुप्यकाणि लब्धानि आसन् । तृतीयांशः जूण् मासे लप्स्यते च।
कोविड्१९ प्रतिरोधप्रवर्तकेभ्यः सैन्यस्य आदरः।
नवदहली> कोविड्१९ प्रतिरधप्रवर्तनेषु व्यापृतेभ्यः आरोग्यप्रवर्तकेभ्यः आरक्षकविभागेभ्यः च सैन्यस्य आदरः। महानौकासु दीपालङ्कारान् सज्जीकृत्य कोविड् आतुरालयानामुपरि पुष्पवृष्ट्या आकाशे व्योमाभ्यासप्रकटनं च कृत्वा एव सैन्येन आदरः प्रकटितः। आरक्षकविभागं प्रति आदरसूचकत्वेन दहलीस्थस्य आरक्षकस्मारकस्य पुरतः पुष्पचक्रं समर्प्य कार्यक्रमः आरब्धः। ततः कोविड् आतुरालयस्योपरि पुष्पवृष्टिं चाकरोत्। एवं राष्ट्रस्य विविधेषु नगरेषु भारतीयव्योमसेनायाः विविधानां युद्धविमानानां तथा यात्राविमानानां च आकाशप्रकटनमपि अभवत्। श्रीनगरतः तिरुवनन्तपुरपर्यन्तं तथा आसामतः गुजराते कच् पर्यन्तं च एतादृशरीत्या आदरप्रकटनम् अभवत्।
Subscribe to:
Posts (Atom)