OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, April 29, 2020
पृथक् विमानं प्रेषयामः, साहाय्यम् आवश्यकम् - भारतं प्रति यु ए ई प्रार्थना।
नवदहली> कोविड् प्रतिरोधप्रवर्तनेभ्यः भारतस्य साहाय्यम् अभ्यर्थ्य यु ए ई। कोविड्रोगीणां परिचरणाय भारतात् वैद्यान् आतुरसेविकाः च प्रेष्य साहाय्यं करणीयम् इत्येव यु ए इ अधिकृतानाम् अभ्यर्थना। यु ए इ मध्ये आतुरालयेषु प्रायः भारतीयाः एव सेवनं कुर्वन्तः वर्तन्ते। किन्तु, तेषु केचन विरामवेलायां भारतमागत्य सम्पूर्णपिधानकारणात् प्रतिगन्तुम् अशक्ताः च भवन्ति। एतेषां सेवां लब्धुं विशेषविमानमपि वयं प्रेषयामः इति अबुदाबि अधिकृतैः विदेशमन्त्रालयं प्रति सूचितम्। एतद्विषये चर्चा क्रियमाणा वर्तते, अचिरादेव उचितः निर्णयः स्वीक्रियते इति च विदेशमन्त्रालयाधिकारिभिः उक्तम्।
Tuesday, April 28, 2020
पिधानकारणात् विदेशराष्ट्रेभ्यः भारतम् प्रत्यागन्तुम् अशक्तेभ्यः साहाय्यं दीयते - भारतसर्वकारः।
नवदहली > भारते तथा विदेशेषु च सम्पूर्णपिधानात् क्लेशमनुभवतां भारतीयानां प्रत्यागमनविषये केन्द्रसर्वकारेण पर्यालोच्यते। भारते सम्पूर्णपिधानस्य प्रतिनिवर्तनात्परम् एतेषां प्रत्यागमनाय उचितः निर्णयः स्वीक्रियतेति सूचना। एतदर्थं विविधमन्त्रालयाधिकारिभिः सह प्रधानमन्त्रिणा नरेन्द्रमोदिना चर्चा कृता। प्रत्यागमनात्परम् एतेषां सम्पर्कनिरोधावासादीनां विषये अवलोकनं समर्पयितुं विविधेभ्यः राज्यस्तरीयाधिकारिभ्यः केन्द्रसर्वकारेण निर्देशः दत्तः वर्तते। एतदर्थं विदेशकार्यमन्त्रालयेन आविष्कृता रूपरेखा केन्द्रमन्त्रिसभायाः कार्यदर्शिनः राजीव् गौब महोदयस्य आध्यक्षे उन्नतसमित्या अवलोकिता। विदेशेषु वर्तमानानां भारतीयानां संख्या, भारते तेषां राज्यानि, प्रत्यागमनाय आवश्यकानां विमानानां संख्या इत्येते अंशाः समित्या पर्यालोचिता च ।Monday, April 27, 2020
प्रधानमन्त्रिणो नरेन्द्रमोदिनो मन की बात कार्यक्रमः
-पुरुषोत्तमशर्मा नवदेहली
मन की बात / श्रीमोदी प्रावोचत् यत् - कोरोना-विषाणुं विरुध्य जनसामान्यं सङ्घर्षरतं वर्तते,अस्मिन् सङ्घर्षे समेषां योगदीनमस्ति, आत्मविश्वासाधिक्यं नैव पालयन्तु यदयं सङ्क्रमणः अस्मान् पुरतः नैवागमिष्यतीति
प्रधानन्त्री नरेन्द्रमोदी ऐषमः चतुर्थे मन सी बात कार्यक्रमे जनान् सम्बोधयत्। प्रोक्तं च कोरोना संङ्घर्षो नैवास्ति दुर्बलः, अग्निः ऋणं रोगश्च कदापि पुनरुद्भवितुं शक्नुवन्ति, अत अस्माभिः सदैव जागरूकैः भाव्यम् ’ सममेवोक्तं यत् स्वयं व्यवहारं परिवर्तनीयं बहिर्गमनसमये मुखावेष्टं स्वीकरणीयम्, कुत्रापि निष्ठीवनं नैव कर्तव्यम्।
प्रधानमन्त्री नरेन्द्रमोदी अकथयदहं त्रिंशदुत्तरैकशतकोटि-देशवासिभ्यः सादरं नमामि। प्रशासनेन https://covidwarriors.gov.in/ इति अन्तर्जालपुटकमि निर्मितम्। अनेन जनाः परस्परं सम्पृक्ताः। इदानीं यावत् सपादकोटिजनाः अस्योपयोगं कृतवन्तः। चिकित्सकाः स्वास्थ्यकर्मिणः आशाकार्यकर्त्र्यः परिचायिकाश्च परस्परं सम्पृक्ताः वर्तन्ते। एते भावियोजनानिर्माणाय अपि साहाय्यं कुर्वन्ति।
पिधानदीर्घीकरणम् अपेक्षितमिति ६ राज्यानि।
मुख्यमन्त्रिभिः सह प्रधानमन्त्रिणः 'वीडियोसम्मेलनम्' अद्य।
नवदिल्ली > कोविड् - १९ रोगस्य व्यापनं रूक्षतया अनुवर्तते इत्यतः पिधानमपि अनुवर्तनीयमिति ६ राज्यैः अपेक्षितम्। दिल्ली, महाराष्ट्रं, पश्चिमवंगः, पञ्चाबः, मध्यप्रदेशः, ओडीषा इत्येतानि राज्यानि केन्द्रसर्वकारम् अभ्यर्थयन्। तेलुङ्कानेन तु पिधानं मेय् सप्तमदिनाङ्कपर्यन्तं दीर्घीकृतम्। इदानीं मेय् ३तममेव पिधानमुद्घुष्टम्।
तथा अद्य प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिभिः साकं वीडियोद्वारा सम्मेलनमायोजितवान् अस्ति। तदा अमुं विषयं चर्चिष्यति। स्वदेशं प्रत्यागमनेच्छुनां प्रवासिनां निवेदने अपि निर्णयः भविष्यतीति प्रतीक्षते।
Sunday, April 26, 2020
विषाणुव्यापनं येषु राष्ट्रेषु अनियन्त्रितया अनुवर्तते तेषु राष्ट्रेषु उपयोगाय श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति - ट्रम्पः।
वाषिङ्टण्> कोरोणा विषाणुव्यापनम् अनियन्त्रितया अनुवर्तमाने सन्द्रर्भेऽपि अन्यस्मै सौलभ्यं प्रकटीकरोति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः। येषु राष्ट्रेषु अनियन्त्रितया नोवल् कोरोणा विषाणु व्यापनम् (कोविड्१९) अनुवर्तते, तेभ्यः राष्ट्रेभ्यः श्वसनयन्त्राणि प्रदास्यन्ति इति ट्रम्पः अवदत्। इदानीं स्वस्य राष्ट्रे अधिकतया यन्त्राणि सन्ति इति ट्रम्पः अवदत्। मेक्सिको, होण्डूरास्, फ्रान्स्, इट्टली, इन्दोनेष्य, स्पेयिन्, आदि राष्ट्रेभ्यः श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति इति ट्रम्पः उक्तवान्।
‘मनोगतम्’ [०२.११] ‘मन की बात’ प्रसारण-तिथि: - २६-एप्रिल, २०२०
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम् | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत् सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ

Subscribe to:
Posts (Atom)