OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, April 7, 2020
मुम्बय्यां भिषग्वराणां अनुवैद्यानां च कोविड्रोगः।
मुम्बई > महाराष्ट्रे 'मुम्बई सेन्ट्रल्' स्थाने 'वोक्काड् क्रिट्टिक्कल् केयर्' नामके कस्मिंश्चन निजीयातुरालये त्रयाणां वैद्यानां ५३ अनुवैद्यानां च कोविड्-१९ रोगः स्थिरीकृतः। अनुवैद्यासु ४६ केरलीयाः सन्ति। अनेन आतुरालयः पिहितः।
अस्मिन्नातुरालये १५० अनुवैद्याः निरीक्षणे नियुक्ताः। स्वास्थ्यप्रवर्तकानां मध्ये कोरोणाबाधा आशङ्काहेतुः भवति। पूर्वं त्रयः जनाः कोविड्रोगबाधया मृता आसन्। तेभ्यः एव रोगव्यापनमभवदिति मन्यते। अवश्यानुसारसुरक्षासंविधानस्य अभावः एव कारणमिति सूच्यते।
कोरोणाबाधिताः अनुवैद्याः मुम्बय्यां 'सेवन् हिल्' नामके आतुरालये परिचरणाय प्रवेशिताः। अन्ये अनुवैद्याः च तत्रैव निरीक्षणाय प्रवेशिताः।
Monday, April 6, 2020
न्यूयोर्कस्थे जन्तुशालायां व्याघ्रः कोराणबाधितः अभवत् ।
Image by Razlisyam Razali from Pixabay |
न्युयोर्क्> विश्वम् कोरोणविषाणुभीत्याम्। तदा जन्तवः अपि कोरोणबाधिताः भविष्यन्ति इति विवरणं भीतिं वितरति। न्यूयोर्कस्थे ब्रोण्क्स् जन्तुशालायां व्याघ्रः त्रयः शार्दूलः च कोराणबाधिताः अभवन्। जन्तुशालाकर्मकराणां पार्श्वतः अणुव्यापनमभवत् इति मन्यते। विगते मासे चीन राष्ट्रेपि बिडालेषु रोग व्यापनम् आसीत् इति पूर्वं आवेदिम्।
Sunday, April 5, 2020
कोरोणा-विषाणुव्यापनस्य कारणं '५ जि' इति व्याजवार्ता - जनाः ५ जि स्तम्भाः अग्निसात् कृतवन्तः।
लण्टन् > ५ जि' इति चलदूरवाण्याः प्रसारणस्तंभः कोरोणा-विषाणुव्यापनस्य कारणं भवति इति व्याजवार्तया दूषिताः जनाः ५ जि स्तम्भाः अग्निसात् कृतवन्तः। फेस्बुक् यू ट्यूब् आदि माध्यमद्वारा आसीत् व्याजवार्ता-प्रसारणम्। राष्ट्रेऽपि सेवा प्रवर्तनानि स्थगितानि। बेर्मिङ्हां, लिवर् पूल, मेल्लिङ्, मेर्सिसैड् प्रदेशस्थाः प्रसारण-स्तम्भाः एव अग्निसात् कृताः।
भारते अद्य ऐक्यदीपज्वालनम्।
नवदिल्ली > कोरोणानिर्व्यापनप्रवर्तनानाम् अंशतया भारते अद्य रात्रौ नववादनतः नवनिमेषान् यावत् विद्युद्दीपान् निर्व्याप्य सिक्थवर्तिका, मृद्दीपः, तैलदीपः, करदीपः इत्यादीन् अन्यान् दीपान् 'मोबैल् दीपान्' वा प्रज्वाल्य जनाः कोरोणाप्रतिरोधप्रवर्तनेषु ऐक्यबोधं प्रकाशयन्ति। प्रधानमन्त्रिणः नरैन्द्रमोदिनः निर्देशं शिरसा वहन्तः एव एतादृशं प्रतीकात्मकं प्रवर्तनं जनानाम् ऐक्यबोधनाय निर्वहन्ति।
जनानाम् वासस्थानेषु एव एवं ऐक्यबोधनं करणीयम्। विद्युद्दीपा एव निर्व्यपनीयाः। दूरदर्शनं, व्यजनं, प्रशीतकम् इत्यादीनि न निर्व्यापनीयानि। कोरोणानामकम् अन्धकारमपनीय सम्पूर्णस्वास्थ्यरूपं प्रकाशम् आभारतं व्यापयितुमेव इदं प्रवर्तनमायोजितम्।
भारते मरणानि ९४ ; रोगबाधिताः३०७२।
नवदिल्ली > भारते कोरोणाबाधया ९४ जनाः मृताः। गतदिने महाराष्ट्रं, गुजरात्, मध्यप्रदेशः, राजस्थानं, कर्नाटक, तेलुङ्कानं इत्येतेषु राज्येषु १२ मरणानि भूतानि।
राष्ट्रे इतःपर्यन्तं ३०७२ जनाः रोगबाधिता इति दृढीकृतम्। नूतनतया ३७० जनाः रोगबाधिताः। किन्तु अत्र आशङ्कायाः विषयः नास्ति, निसामुद्दीने तब्लीग् सम्मेलने भागभागित्वं कृतेषु रोगबाधा दृढीकृता इत्यत एव संख्यावर्धनस्य कारणमिति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। राष्ट्रे रोगबाधितेषु ३०% (१०२३ जनाः) तब्लीग् सम्मेलनमनुबध्य वर्तिताः सन्ति! कोरोणाप्रतिरोधाय राष्ट्रे नितान्तजाग्रता अनुवर्तते।
Saturday, April 4, 2020
कोविड् प्रतिरोधे विश्वादर्शरूपेण केरलम्।
वरिष्ठवयस्कौ दम्पती रोगविमुक्तौ। कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ दम्पतीः तोमसः मरियाम्मा च आतुरालयात् बहिरागच्छतः। |
कोट्टयम् > ९३ वयस्कः तोमसः ८९ वयस्का मरियाम्मा च कोट्टयं वैद्यककलालयस्य द्वितीयविभागस्य द्वारेण यदा बहिरागतौ तदा 'स्वास्थ्यकेरलस्य' भारतस्य च अभिमाननिमेषः आसीत्। कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ प्रप्रथमवयोधिकौ भारतीयौ अभवदेतौ दम्पती।
केरले पत्तनंतिट्टा जनपदात् मार्च् ८तमे दिनाङ्के आसीत् कोरोणाबाधया पूर्वोक्तौ दम्पती कोट्टयं वैद्यककलालयस्य कोरोणा एकान्तवासविभागं प्रवेशितौ। इट्टलीतः स्वदेशं प्राप्तस्य कोविड्बाधितस्य पितरौ स्तः एतौ। सम्पर्केण आसीदेतयोः रोगबाधा।
प्राथमिकस्तरे तयोः चिकित्सा सङ्कीर्णा आसीत्। ९३वयस्कः तोमसः श्वासरोगेण हृद्रोगेण च पीडितः आसीत्। डो. सजित्कुमारस्य नेतृत्वे रूपीकृतस्य वैद्यकसंघस्य अश्रान्तपरिश्रमः एतयोः दम्पत्योः पुनरुज्जीवनाय मार्गः उद्घाटितः। द्वावपि २५ दिनानि पृथक् पृथक् प्रकोष्ठे एकान्तवासे आस्ताम्। मार्च् ३० दिनाङ्के तृतीया स्रवशोधना अपि अभावात्मिका इति विज्ञाय कतिपयदिनान्यपि निरीक्षणे नियुक्तवन्तौ। ह्यः द्वावपि विसृष्टवन्तौ गृहं प्रेषितवन्तौ च।
एतस्मिन्नन्तरे तौ दम्पती परिचरणं कृतवती तीव्रपरिचरणविभागस्था अनुवैद्या रेष्मा मोहन्दासः कोरोणाबाधिता अपि दशदिनानन्तरं रोगविमुक्ता च। सा अपि स्वगृहं नीतवती।
Friday, April 3, 2020
कोरोणा - आविश्वं मरणानि अर्धलक्षम् अतीतानि।
इट्टली - १३,०००+, स्पेयिन् - १०,०००+, यू एस् - ५,०००+, फ्रान्स् - ४,०००+, इरान् - ३,०००+ चीनः - ३३००+!
> आविश्वं कोरोणा विषाणुबाधया इतःपर्यन्तम् अर्धलक्षाधिकं जनाः मृत्युपगताः। विषाणुबाधिताः दशलक्षमुपगताः। इट्टली, स्पेयिन्, यू एस् इत्येषु राष्ट्रेषु विषाणुबाधा नियन्त्रणातीता वर्तते। प्रतिरोधप्रवर्तनानि प्रतीक्षानुसारं फलप्राप्तिं न एति।
यूरोपीयराष्ट्रेषु रोगिणां संख्या पञ्चलक्षमतीता। स्पेयिन् इट्टली राष्ट्रयोः प्रतिदिनं सामान्यतः ८०० जनाः मृत्युमुपयान्तीति आशङ्कां वर्धयति। इतःपर्यन्तम् इट्टल्यां १३,००० अधिकाः, स्पेयिने १०,०००अधिकाः जनाः मृताः। बल्जियंराष्ट्रे मृत्युसंख्या सहस्रं प्राप्ता।
गल्फ् राष्ट्रेषु च रोगबाधिताः वर्धन्ते। सौदीराष्ट्रे १८८५ जनाः रोगबाधिताः इति दृढीकृतम्। २१ मरणानि अभवन्। सर्वेषु राष्ट्रेषु शक्तं नियन्त्रणप्रक्रमाः स्वीकृताः सन्ति।
Thursday, April 2, 2020
सम्पूर्ण-पिधान कालानन्तरं सम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री।
नवदेहली> 21 दिनानां सपूर्णपिधानकालानन्तरं जायमानं जनसम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। कोरोण-विषाणुव्यापनस्य पृष्ठभूमौ राज्यानां मुख्यमन्त्रिणः प्रति वीडियोद्वारा भाषमाणः आसीत् सःl सपूर्णपिधानाय कृतसाह्याय सः धन्यवादमर्पितवान् I विषाणुरोधनाय समागतेषु सप्ताहेषु अपि रोगनिर्णयः, एकान्तवासः, सम्पर्कनिरोधः इत्येतेषु प्रक्रमेषु श्रद्धा देया इत्यपि नरेन्द्रमोदिना अभ्यर्थितम्। औषधसामग्रीणां निर्माणं वितरणं च कार्यक्षमतायुक्तं भवितव्यम् इति प्रधानमन्त्रिणः कार्यालयात् प्रकाशिते सूचनापत्रे स्मारयति।
गृहमन्त्री अमितशाहः प्रधिरोधमन्त्री राजनाथ सिंहः स्वास्थ्य-मन्त्रालयस्य वरिष्ठोद्योगिनः च भागं स्वीकृतवन्तः।
सीमा अपावरणीया - उच्चन्यायालयः।
कोच्ची > केरलस्य सीमाप्रदेशतः कासर्गोडतः समीपस्थं कर्णाटकस्थं मङ्गुलुरु नगरं प्रवेष्टुं कर्णाटकसर्वकीरेण पिहिता राष्ट्रियवीथिः झटित्येव अपावरणीया इति केरलस्य उच्चनीतिपीठेन आदिष्टम्। मनुजप्राणानां संरक्षणम् अतिप्रधानमिति अवगम्य केन्द्रसर्वकारस्य पदक्षेपः अस्मिन् विषये अनिवार्य इति न्यायमूर्ती ए के जयशङ्करन् नम्प्यारः, षाजि पि चाली इत्येतावुपेतेन नीतिपीठेनोक्तम्।
Subscribe to:
Posts (Atom)