‘मनोगतम्’ [०२.१०] ‘मन की बात’ प्रसारण-तिथि: - २९-मार्च, २०२० [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदि-पुरुषोत्तम-शर्मभिः सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, सामान्यतया ‘मन की बात’-‘मनोगतम्’ इत्यत्र अहं विविधान् विषयान् समादाय आगच्छामि | परन्तु साम्प्रतं, देशस्य जगतश्च मनसि केवलं, केवलम् एकमात्रञ्च वृत्तमस्ति - ‘कोरोना-वैश्विक-महामारी’-तः समापन्नं भयङ्करं सङ्कटम् | एतादृश्यां स्थितौ, अहम् अन्यत् किमपि वृत्तं कथयेयम् इति नैवोचितम् | बहूनि महत्वपूर्णानि वृत्तानि वदेयम्, परञ्च अद्य मम मनः अस्याः महामार्याः सन्दर्भे कानिचित् वृत्तानि वक्तुं वाञ्छति | परञ्च सर्व-प्रथमं सर्वेषां देशवासिनां समक्षं क्षमां याचे | ममात्मा कथयति यत् भवन्तः अवश्यं मां क्षमिष्यन्ते यतो हि केचन एतादृशाः निर्णयाः विहिताः येषां कारणात् भवन्तः अनेकविधानि कष्टानि