OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, February 16, 2020
Saturday, February 15, 2020
सूर्यस्य सहस्रगुणिताकारयुक्तं तिरुवतिरनक्षत्रं 'सूपर नोव' विस्फोटनाय सज्जम्।
ओरैयण् नक्षत्रसमूहेषु अधिकप्रकाशयुक्तस्य बीट्टल् जीस् (तिरुवातिरा) नक्षत्रस्य प्रकाशतीव्रतायां न्यूनता अस्ति इति वैज्ञानिकाः वदन्ति। प्रकाशतीव्रतायां १२ स्थाने आसीत् इदम्। गतमासे अस्य स्थानं २० तमम् इति परिष्कृतम्। भूमीतः ६४२.५ प्रकाशवर्षात् दूरं भवति अस्य स्थानम्। अस्य स्फोटनम् भूमीतः दृष्टुं शक्यते। विल्लनोव विश्वविद्यालयस्य ज्योतिवैज्ञानिकः एड्वेर्ड् गिनन् इत्याख्येन सञ्चितानि विवरणानि अधिकृत्य अनुमानानि निष्पादितानि भवन्ति। फेब्रुवरि २१ दिनाङ्के प्रकाशस्य न्यूनतममात्रायां समागमिष्यति इति अनुमीयते वैज्ञानिकैः।
Thursday, February 13, 2020
प्रथम प्रपञ्चस्य भीमाकारा वियद्गङ्गा प्रत्यभिज्ञाता।
Wednesday, February 12, 2020
कोरोणविषाणुना चीन राष्ट्रे १०००+ जनाः हताः
बैजिङ्> चीनराष्ट्रे कोरोणविषाणुना ह्यः १०३ जनाः हताः I आहत्य मृतानां सङ्ख्या १०११ इत्यभवत्। मङ्गलवासरे प्रभाते आगतम् आवेदनमिदम्। रोगेण पीडितानां संख्या ४२,२०० इति वर्धितम्। रविवासरे राष्ट्रपतिना जिन् पिङ् षि इत्यनेन आतुरालयं संदृष्टाः। विश्वस्वास्थ्य सङ्घटनस्य विशेषादेशाम् अनुसृत्य ब्रूस् अल् वार्डस्य नेतृत्वे अन्ताराष्ट्र स्वास्थ्यप्रवर्तकानां सङ्घः चीनराष्ट्रं प्राप्तम्। आफ्रिक्कमध्ये एबोल विषाणुव्यापनकाले तत्रत्यानां स्वास्थ्यप्रवर्तनानां नेतृत्वं अनेन ब्रूस् अल् वार्ड् महोदयेन निर्व्यूढम्l
Tuesday, February 11, 2020
प्रचण्डवातेन विमानं डयडयितम् द्विहोराभ्यां पूर्वं लक्ष्यं प्राप्तम्।
लण्टन् > सप्त वर्षाभयन्तरे जायमानेषु प्रचण्डवातेषु अतिशक्तः भवति ह्यः यु के यूरोप् प्रदेशे जातः सियार इति नामाङ्कितः वातः। किन्तु प्रचण्ड वातस्य सञ्चारगतिम् उपयुज्य ब्रिट्टणस्य विमानेन यात्रासमयः न्यूनीकृतः। न्यूयोर्कतः हीत्रु विमान निलयं प्रति समायातस्य विमानस्य सञ्चारपथस्य अनुकूलदिशायाम् आसीत् प्रचण्डवातस्य गतिः। अतः १२९० वेगेन डयनाय अशक्यत् इत्यनेन ४.५६ घण्डाभ्यन्तरेण विमानं हीत्रु विमाननिलयं प्राप्तम्।
Sunday, February 9, 2020
भारतीय-तत्वचिन्तामण्डलस्य आधुनिकप्रवाचकः पि परमेश्वरः विष्णुपदं प्राप्तवान्।
पालक्काट्> भारतीय-तत्वचिन्ता-मण्डलस्य प्रवाचकः भारतीयविचार केन्द्रस्य वरिष्ठनिर्देशकः पूजनीयः परमेश्वर जी महोदयः दिवङ्गतः अभवत्I ९३ वयस्कः एषः आयुर्वेद औषधालये चिकित्सायाम् आसीत्। पद्मश्री, पद्मविभूषणम् अमृतकीर्तिः इत्यादि उपाधिभिः सम्मानितः आसीत्I अद्य सायं चतुर्वादने मुहम्मदेशे भवति महोदयस्य अन्त्येष्ठिः।
संस्कृतभारत्याः अखिलभारतीय समीक्षायोजनागोष्ठी समारब्धा
कालटी> संस्कृतभारत्याः अखिलभारतीयोपवेशनं आदिशङ्करस्य जन्मभूम्यां कालट्यां समारब्धम्। संस्कृतपण्डितः तथा कालटी श्रृंगेरिमठस्य प्रबन्धकः प्रो. सुब्रह्मण्य अय्यर् महोदयः मेलनस्य उद्घाटनम् अकरोत्। संस्कृतभाषा शास्त्रसम्पदः व्यावहारिकनैर्मल्यस्य च संवर्धनं करोतिI अस्याः भाषायाः प्रचारः ग्रामान्तरेषु अपि व्यापनीयः इति सुब्रह्मण्यय्यर् महोदयेन उक्तम्। संस्कृतभारत्याः अखिल-भारतीयानां कार्यकर्तृणाम् मेलनस्य उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतभारत्याः अखिल-भारतीयाध्यक्षः सोमनाथसंस्कृत विश्वविद्यालयस्य कुलपतिः डा. गोपबन्धु मिश्रः अध्यक्षः आसीत्। संस्कृतभारत्याः केरल-राज्यस्तरीय- अध्यक्षः डा. पि के माधवः आमुखभाषाणं कृतवान्। डा. ई एन् ईश्वरः स्वागतं, डा. ओ. एस्. सुधीषः कृतज्ञता च उक्त वन्तौ। १५० प्रतिनिधयः मेलने भागं स्वीकुर्वन्ति।
Saturday, February 8, 2020
पाकिस्थानीय छात्रान् वुहानतः रक्षिष्यामः इति मोदी इम्रान् खानं प्रति उक्तवान्l इम्रानः मौनी अभवत्।
मालद्वीपस्य नागरिकाः वुहानतः दिल्ली विमाननिलये |
नव दिल्ली> कोरोणा विषाणोः प्रभवकेन्द्रात् पाकिस्थानस्य नागरिकान् आनेतुं सज्जाः इति भारतेन पाकिस्थानः उद्बोधितः इति नूतनम् आवेदनमस्ति। वुहानतः भारतस्य छात्रान् संरक्ष्य आनयनसमये आसीत् भारतस्य वाग्दानम् I किन्तु पाकिस्थानस्य पक्षतः कोऽपि प्रतिस्पन्दः नासीत् इति ऐ ए एन् एस् वार्ताहरसंस्थया आवेद्यते। भारतीयेन साकं समीपस्थानां प्रातिवेशिक-राष्ट्राणां नागरिकान् अपि आनेतुं सज्जाः इति भारतेन उक्तम्I मालिद्वीप्, बंग्लादेश् राष्ट्रत्योः नागरिकाः एवं भारतेन आनीताः आसन्। चीनराष्ट्रे रोधिताः पाकिस्थानस्य नागरिकाः चीनस्य जाड्ये प्रतिषेधं प्रकाशितवन्तः आसन्।
Thursday, February 6, 2020
दशनिमेषाभ्यन्तरेण विवाहानुष्ठानानि समाप्य कोरोणा रोगीपरिचर्याय गतवान्
बैजिङ्> चीनस्य भिषग्वरः दशनिमेषाभ्यन्तरेण स्वस्य विवाहानुष्ठानानि समाप्य कोरोणा रोगिणः परिचर्याय गतवान् इति वार्ता विश्वस्य वार्ता पुटेषु निभृता अस्ति। भिषग्वरस्य लि षिकियाङ् इत्यस्य विवाहवार्ता अस्ति इयम्l कोरोण विषाणु व्यापनेन जनाः दूयमानाः सन्ति, अतः शीघ्रमेव आतुरालयं प्रति गन्तव्यम् इति चिन्ता आसीत् तस्यl तस्य वधू यु होङ्यान् अपि वैद्या भवति। विवाहानन्तरं मिलित्वा भोजनमपि अकृत्वा गतवान् पतिः इत्यनेन तस्यै खेदलेशोऽपि नास्तिI
Subscribe to:
Posts (Atom)