OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, December 25, 2019
आदिशङ्करस्य जन्मभूमीतः द्विचक्रिकया अरुण् तथागतः। लक्ष्यं विश्वदर्शनम्।
देशस्नेहादुपरि देशः स्नेहयुक्तः भवतु इति तेन स्वस्य मुखपुस्तिकायाः (फेस् बुक्) पुटे लिखितम्। जनानां जीवनरीतिः तेषां मर्यादा, जीवनोपाधिः, द्रष्टव्यानि सांस्कृतिकदृश्यानि प्रकृतिदृश्यानि च सः स्वस्य मुखपुस्तके यथाकालं प्रकाशयति। बुद्धस्य अहिंसां स्वात्मसु धृतवन्तः शान्तशीलाः भवन्ति देशवासिनः इति सः स्वस्य मुखपुस्तिकायां लिखितवान्। यात्रां समाप्य प्रतिगमनं कदा भविष्यति इति प्रश्नस्य अरुण तथागतस्य प्रत्युत्तरं सस्मितं अन्यः प्रश्नः आसीत् - 'यात्रा कदापि न अवस्यति मार्गः अपि तद्वत् किल?' एवमुक्त्वा द्वि चक्रिकायां सः स्वस्य यात्राम् अनुवर्तितवान्।
बृहत् ओप्पना चरित्रपथे सरति।
अतिप्रौढां संस्कृतभाषामिमां जनकीयपदवीमानेतुम् सहायकःमहान् तथा विस्मयावहः प्रयत्नः संभूत: केरलेषु। एष्याभूखण्डेषु प्रचलन् महान् कलामहोत्सव : भवति केरलशालाकलोत्सवः। वर्षेस्मिन् राज्यस्तरीय : विद्यालयकलोत्सव: २०१९ नवम्बर् २८, २९, ३०, डिसम्बर १ दिनाङ्केषु कासरगोट् जनपदस्थे काञ्ञड्डाट् ग्रामे प्रचालितः केरलसर्वकारेण । कलोत्सवस्यास्य सांस्कृतिकोकोत्सववे 'बृहत् ओप्पना' इति नाम्ना संस्कृतम् ओप्पना समायोजितासीत्। माप्पिलगानस्य तथा ओप्पनागानस्य तालानुसारं संस्कृतगानं विरच्य नृत्तरूपेण बृहत् कलारूपोगSयम् अवतारित : छात्रैः ।
केरलं दैवस्य स्वदेशः इति प्रस्तावेन समारब्धे पद्ये केरलदेशस्य प्राचीनं प्रौढं देशचरितं तथा देशस्यास्य धर्मसहिष्णुतां सांस्कृतिकं महत्वं च प्रतिपादयति । विश्वमानविकतां प्रति भारतस्य तथा केरलस्य योगदानप्रतिपादनं च संस्कृतपङ्क्तिषु विरच्य राष्ट्रमहिमानं द्योतयति। प्रलयेन पीडितस्य केरलस्य दुरवस्था,प्रकृतिनाशस्य तीव्रता, अतिजीवनस्य आवश्यकता, तथा मानवसौहार्दस्य प्रसक्तिश्च गानेनानेन स्मारयन्ति।
कासरगोट् जिल्लायां विद्यमाने तच्चङडाट् सर्वकारीय उच्च विद्यालये पठन्त्यायः एकोत्तर त्रिशतं विद्यार्थिन्य: बृहत् ओप्पनायां नृत्तम् अकुर्वन् । इदंप्रथमतया संस्कृतभाषायां ओप्पनागीतं व्यरचयत् तच्चडड़ाट्, सर्वकारीयोच्चविद्यालयस्य संस्कृताध्यापक: डा.सुनिल् कुमार् कोरोत्त् वर्य: ।अस्मिन् कलारूपे इदंप्रथमतया चेण्टा, इडक्का इत्येतयो: वाद्ययो: प्रयोगः कृतः इति सविशेषताम् चावहति बृहत् ओप्पना ।अस्याः ओप्पनाया:, परिशीलक: तथा निदेशकः भवति जुनैद् मेट्टम्मल् संयोजकस्तु सजीवन् वेङ्ङाट्ट् I संस्कृतपङ्क्त्यनुसारं प्रथमतया अवतारिता ओप्पना इति ख्यातिं स्वायत्तीकृत्य बृहत् ओप्पना सहृदय हृदयमाकर्षति॥
भारते राष्ट्रियजनसंख्या पञ्जिकायै केन्द्रमन्त्रिसभायाः अनुमतिः।
-के.वि.रजीष्
नवदहली> राष्ट्रियजनसंख्या पञ्जिकायै प्रधानमन्त्रिणः आध्यक्षे संवृत्तः मन्त्रिसभायोगः अनुमतिः दत्ता। २०२० मार्च्मासात् सितम्बर्मासपर्यन्तं राष्ट्रे पूर्णतया जनसंख्यागणनाकार्यक्रमः प्रचलिष्यति। २०२१ तमे वर्षे अन्तिमं जनसंख्यागणनाफलं प्रकाशयिष्यति। एतदर्थं ८७५४ कोटिरुप्यकाणि दीयन्ते च। जनसंख्यापञ्चीकरणाय जङ्गमदूरवाणी-प्रयोगसंविधानं सज्जीकरिष्यतीति केन्द्रमन्त्री प्रकाश् जावदेकर् अवदत्। एतदर्थं जनैः या कापि रेखा वा न समर्पणीया इत्यपि मन्त्री असूचयत्। राष्ट्रिय-नागरिकत्वगणनायाः राष्ट्रिय-जनसंख्यापञ्जिकया सह सम्बन्धः नास्ति इति केन्द्रसर्वकारपक्षतः मन्त्रिणा सूचितम्। एवमेव राष्ट्रस्य विविधसेनाविभागानाम् संयोजनाय प्रतिरोधसेनाधिपस्य नियुक्तये च मन्त्रिसभायोगे निर्णयः स्वीकृतः वर्तते। भूगर्भजल-विनियोगाय 'अडल् जल्' इति नाम्ना सविशेषपरियोजनायै अपि मन्त्रिसभायोगः अनुमतिः दत्ता च।
Tuesday, December 24, 2019
कदलीस्तम्भात् जैवं पलास्तिकम्- सुप्रधानेन अनुसन्धानेन विजयम् अवाप्ताः वैज्ञानिकाः।
कदलीस्तम्भात् निर्मितं जैवं पलास्तिकम्I |
पलास्तिकं प्रकृतेः तथा जीविवर्गाणां च भीषा एव भवति। इमं विषयं सर्वे जानन्ति च। किन्तु पलास्तिकं विना पुरतो गान्तुं न शक्यते अधुना। अस्मिन् सन्दर्भे मोदाय एका वार्ता अस्ति। ओस्त्रेलियस्य न्यू सौत् वेल्स् विश्व विद्यालयस्य प्राध्यापिके जयश्री आर्कोट्, मरीना स्टेन्सल् च कदलीस्तम्भत् नूतनं जैवं पलास्तिकं निर्मातुं शक्यते इति वदतः।
एते वैज्ञानिके कदलीस्तम्भात् 'नानोसेल्लुलोस्' विश्लेषणेन स्वीकृत्य पलास्तिकं निर्मितवत्यौ। पक्वफल लवनानन्तरं कदलीस्तम्भस्य आन्तरिक दण्डं स्वीकृत्य लघु उष्णेन शुष्कीकृत्य पुनः धूलीकृत्य तदनन्तरं संस्करण-क्रियया 'नानो सेल्लुलोस्' निर्माति। अनेन भक्ष्यवस्तूनाम् आच्छादकयुक्तं स्तरपलास्तिकं निर्मातुं शक्यते। जैवं इदं मृत्संयोगेन जीर्णं भविष्यति इति सर्वेषां मोदाय भवति।
Monday, December 23, 2019
क्रिकेट् - भारतदलं प्रख्यापितम्।
-के.वि.रजीष्
मुम्बय् > श्रीलङ्क-आस्ट्रेलियदलयोः प्रति क्रीडनाय भारतदलं प्रख्यापितम्। रोहित् शर्मणे मुहम्मद्षमये च अवकाशः कल्पितः वर्तते। ज्सप्रीत् बुम्रः, शिखर् धवानः, सञ्जु साम्सणः च संघे अन्तर्भूताः। शर्दुल् ठाकुरस्य नवदीपसैनेः च स्थानं संरक्षितम्। नायकस्थाने विराट् कोह्लिः अनुवर्तते।
झार्खण्ड् मध्ये महासख्यशासनम्।
-के.वि.रजीष्
राञ्चिः> राञ्चिः> झार्खण्ड् नियसभानिर्वाचनस्य फलसूचनाः आगताः। जे एम् एम्, काण्ग्रेस्, आर् जे डि दलानां महासख्यं ८१ मध्ये ४६ स्थानेषु प्रामुख्यं सम्पाद्य शासनाधिकारं प्रति सरति इति सूचना। प्रस्तुतशासनसख्यस्य देशीयजनाधिपत्यसख्यस्य नेता भा जा दलं २५ स्थानेषु प्रामुख्यं समपादयत्।स्थानानां विषये प्रायः इतोऽपि परिवर्तनं भवेत्।महासख्यात् जे एम् एम् दलस्य षिबु सोरन् राज्यस्य मुख्यमन्त्री भविष्यति इति सूचना वर्तते। सः दुंक,बर्हात् मण्डलयोरपि विजयं प्रापयत्। भा जा दलस्य अधुनातनमुख्यमन्त्री रघुबर् दास् जाम्षड्पुर् ईस्ट् मण्डले पराजयत। प्रधानमन्त्री नरेन्द्रमोदिः महासख्याय अभिनन्दनं न्यवेदयत्। पञ्चवर्षं यावत् शासनाय अवसरं दत्तवत्यै झार्खण्ड् जनतायै प्रधानमन्त्री कृतज्ञतां च न्यवेदयत्। झार्खण्डस्य विकासाय केन्द्रसर्वकारः प्रतिज्ञाबद्धः इत्यपि प्रधानमन्त्रिणा स्पष्टीकृतम्।
भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायां भारतस्य विजयःI
-के.वि.रजीष्।
कट्टक्> भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायाः अन्तिमक्रीडायां भारतस्य ४ क्रीडकानां विजयः। जयेनानेन एकदिनात्मकक्रिकेट् परम्परापि (२-१) भारतदलेन जिता वर्तते। ३१६ धावनाङ्कानां विजयलक्ष्यम् अनुगम्य प्रतिक्रीडनमारब्धं भारतदलं ४८.४ ओवर् मध्ये लक्ष्यं प्रापत्। भारतदलस्य कृते आरम्भकक्रीडकाभ्याम् शुभारम्भः दत्तः। रोहित् शर्मणा (६३) लोकेष् राहुलेन (७७) च प्रथमक्रीडकसहयोगे १२२ धावनाङ्काः प्राप्ताः। नायकेन विराट् कोह्लिना ८५ धावनाङ्काः प्राप्ताः। अपराजिते सप्तमे सहयोगे जडेजः (३९*) शर्दुल् ठाकुरः (१७*) च ३० निर्णायकान् धावनाङ्कान् समपादयताम्। वेस्ट् इन्टीस् दलाय नायकः कीरोण् पोलार्ड् (७४) निकोलास् पूरन् (८९) च उत्तमं प्रकटनम् अकुरुताम्।
Sunday, December 22, 2019
व्याजप्रचारणेषु मा पततु, नियमं पठित्वा अवगच्छन्तु - मोदी
नवदिल्ली> नागरिकत्वनियम परिष्करणे व्याजप्रचारणं क़ुर्वतः विमृश्य प्रधानमन्त्री मोदी अवदत्। नगरनक्सल् भीकराः कोण्ग्रस् दलीयाः च अनृतम् उक्त्वा माहम्मदीयान् कुमार्गं नयन्ति। भारत माहम्मद धर्मीयान् क्लेशे पातयितुम् अस्मिन् नियमे किमपि नास्ति। अतः व्याजप्रचारणे मनः मा भवतु। सर्वे शिक्षिताः भवन्ति। नागरिकत्वनियम परिष्करणे वस्तुतः किमस्ति इति पठित्वा अवगच्छन्तु इति नरेन्द्रमोदिना उक्तम्। महात्मागान्धी कोण्ग्रस् दलं च मिलित्वा पाक्किस्थानीयान् न्यूनपक्षविभागस्थान् जनान् स्वागतीकृतवन्तौ आस्ताम्। किन्तु पश्चात्कोण्ग्रस् दलेन न प्रवृत्तम्। अधुना वयं वाग्दानान् प्रवृत्तिपथमानयामः। अभयार्थिनः अतिक्रामिणः च विभिन्नाः एव। अभयार्थिनः नागरिकतायै अर्थयन्तः सन्ति। अतिक्रामिणः तु निलीय दुष्कर्म कुर्वन्तः सन्ति इत्यपि मोदिना उक्तम्। रामलीला महाङ्कणे पथसञ्चलनाय समवेतान् अभिमुखीकृत्य भाषमाणः आसीत् सः।
Saturday, December 21, 2019
नागरिकतानियम-परिष्करण-विधेयकं संवर्द्धकत्वं कृत्वा शैक्षिकविचक्षणाः अपि।
नागरिकतानियम-परिष्करण-विधेयक समर्थनं कृत्वा अनुष्ठितं पदसञ्चचलनम्। |
नवदिल्ली> नागरिकतानियम-परिष्करण-विधेयकं विरुद्ध्य पथसञ्चलनादिकं एकस्मिन् पार्श्वे प्रचलिते सति, विधेयकस्य संवर्द्धकत्वं कृत्वा शैक्षिकविचक्षणाः अपरे पार्श्वे तिष्ठन्ति। नलन्द विश्वविद्यालयस्य उपकुलपतिः सुनैन सिंह्, जे एन् यु पञ्जीकरणाधिकारी प्रमोदकुमारः, वरिष्ठपत्रकारः रचयिता राज्यसभा सामाजिकः स्वपनदासगुप्तः, व्यवसायी शिशिर बजोरिया च तेषां संयुक्तपत्रिकाद्वारा नियम-परिष्करण-विधेयकस्य समर्थनं कृत्वा उक्तवन्तः।
नियमोयं बङ्ग्लादेशं पाकिस्थानम् इत्येताभ्यां समागतानां न्यूनपक्ष विभागिनां धर्मिणाम् अभिलाषपूर्तीकरणाय युक्तम्। कोण्ग्रस्, सि पि एम् आदिभिः राजनैतिकदलीयैः पूर्वमेव वाञ्छितं कार्यं भवति अयं नियमः। अतः सर्वकारः अभिनन्दनम् अर्हति इति तैः संयुक्ततया हस्ताक्षरीकृपत्रिकायां लिखितमस्ति। असत्यवक्तॄणां चार्वाकाणाम् कौटिकायां (trap) मा पततु, भाययित्वा निगूढरूपेण भारतं कलहग्रस्तं कर्तुम् उद्युक्तानां प्रवृत्तिषु खेदम् अनुभूयते इति एतैः उच्चते। राष्ट्रे अन्ताराष्ट्रस्तरे च विद्यमानस्य विश्वविद्यालयस्य शैक्षिकप्रवराः अनुसन्धाधृभ्यः च आहत्य शताधिकसहस्रं विद्वांसः अस्मिन् समर्थनपत्रे हस्ताक्षीकृतवन्तः सन्ति।
Subscribe to:
Posts (Atom)