OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, December 13, 2019
भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भविष्यति कुमरकम्।
कोट्टयम् (केरलम्)> स्फटिककूप्यां पेयं जलं, फलरसपानाय वेणुनिर्मिता पाननालिका - भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भवितुं सज्जताम् आवहति कुमरकं देशः। एकवारस्य उपयोगानन्तरं परित्यजन्तीं पलास्तिकर्निर्मतानाम् उत्पन्नानां बाधा उद्घोष्य तारवसतिगृहाणि प्रथमपदक्षेपः कृतानि। प्रकोष्टेषु दीयमानेषु कूपीजलस्य स्थानेषु स्फटिककूप्यां पेयं जलं ददाति। पलास्तिक-पाननालिकायाः स्थाने फलरसपानाय वेणुनिर्मिता नालिकाः च दीयन्ते। अतिथीनां कृते पलास्तिकं विरुद्ध्य मनोभावोत्तेजनाय बोधपत्राणि वितीर्यन्ते। उत्तरदायित्व-विनोदयत्न-र्दौत्य नेतृत्वे चेम्बर् ओफ् वेम्पनाट् होट्टल्स् आन्ट् रिसेर्ट्स् (सि वि एच् आर्), ओल् केरला हौस् बोट् ओणेर्स् असोसियेषन् केरल ट्रावल् मार्ट् इत्याख्याः सङ्घाः मिलित्वा योजनां प्रचालयन्तः।
Thursday, December 12, 2019
सौदिराष्ट्रस्य सैनिकोद्योगिनः अनुशीलनम् अमेरिक्केन निवारितम्।
नवदिल्ली> सैदिराष्ट्रस्य सैनिकानां कृतेदीयमानं सायुधानुशीलनम् अमेरिक्केन क्वचित् कालेभ्यः निवारितम्I आयुधानुशीलनं विमानोड्डयनानुशीलनं च निवारितयोः अन्तर्भवति। कतिपयदिनेभ्यः पूर्वं फ्लोरिडस्थे पेन्सकोल सैनिकविमाननिलये सौद्याः सैनिकोद्योगी त्रयान् नालिकाशस्त्रेण अमारयत् इत्यनेन भवति अयं प्रक्रमः। सौदिराष्ट्रस्य ३०० सौनिकाः इदानीं यू एस् मध्ये अनुशीलनं कुर्वन्तः सन्ति। नूतनः निश्चयः एतान् ग्रसति। सुरक्षा सम्बन्धतथा भवति नूतनः प्रक्रमः इति पेन्टगण् गणैः उच्यते। तथापि सैनिक छात्रेभ्यः पाठ्यक्रमानुसारम् आङ्गलभाषाध्यापनं, पाठ्य प्रवर्तनानि च अनुवर्तते इति च तैः उच्यते।
Wednesday, December 11, 2019
१४७५ कोटि डोलर् समाहृतः पीट्टर् ३५ वयसि दिवङ्गतः।
एषः खलु 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः।
आविश्वम् अतिप्रसिद्धा 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः पीट्टर् फ्रेट्स् (३५) दिवङ्गतः। अमिट्रोफिक् लाट्टरल् क्लिरोसिस् (AALS) इति रोगेण पीडितः आसीत्। ईदृशरोगेण पीडितानां जनानां साहायाय एषः 'ऐस् बक्कट् चालञ्च्' परियोजना समारब्धवान्। हिमखण्डनिभृतं द्रोणीजलं शिरसि प्रस्रवणं करणीयं तदनन्तरं त्रयान् एतदर्थं समाह्वनीयम् , यः समाह्वयितः सः हिमजलप्रस्रवणं करणीयं नो चेत् १०० डोलर् रोग-बाधितानां समाश्वासनिधिं प्रति देयं इत्यस्ति करणीयक्रमः। द्वावपि करणीयः इत्यस्ति करणीयं 'चालञ्च्'।
टों क्रूस्, स्टीवन् स्पिल् बर्ग्, बिल् गेट्स्, जोर्ज् बुष् इत्येते प्रमुखाः अस्यां भागं स्वीकृताः। मार्क् सुक्कर् बर्गः समाह्वानं स्वीकृत्य बिल्गेट्सं समाहृतवान् आसीत्। लक्षशाः जनाः परियोजनायां भागं स्वीकृताःl एवं १४७५ कोटि धनं समाहृतम् आसीत्।
नूतना लूता प्रत्यभिज्ञाता- मनुष्यचर्मनाशकारिणी एषा।
पौरत्वपरिष्करणविधेयकम् अद्य राज्यसभायाम्।
नवदिल्ली > केन्द्रसर्वकारेण लोकसभायां विजयीकृतं राष्ट्रियपौरत्वपरिष्करणविधेयकमद्य राज्यसभायामवतार्यते। तत्र विधेयकं विजेतुम् आवश्यकी अङ्गसंख्या भाजपादलाय पृथक् नास्तीत्यपि महानात्मविश्वासः प्रकाश्यते सर्वकारेण। विपक्षदला अपि विधेयकं पराभावयितुं महन्तं परिश्रमं कुर्वन्ति।
आराष्ट्रं प्रतिषेधः। तथा च विधेयकं प्रतिषिध्य राष्ट्रे सर्वत्र राजनैतिक-सामाजिक-छात्रदलैः महान् प्रतिषेधः कृतः। उत्तरपूर्वराज्येषु बहुत्र अक्रमाः जाताः। पौरत्वं लभ्यमाणाः अधिनिवेशिनः स्वदेशस्य संस्कृतेः जीवनोपाधिनां च भीषारूपेण भविष्यन्तीति गोत्रसंघटनानामाशङ्का।
Tuesday, December 10, 2019
जाग्रतानिर्देशः तृणवत्कृतः।
न्यूसिलान्टे अग्निपर्वतस्फोटनेन बहवः अप्रत्यक्षाः।
वेल्लिङ्टण् > न्यूसिलान्ट् राष्ट्रे 'वैट् एेलान्ट्' नामके प्रदेशे अग्निपर्वतस्य विस्फोटनेन बहवः विनोदसञ्चारिजनाः अप्रत्यक्षाः अभवन्। सोमवासरे प्रादेशिकसमयमनुसृत्य मध्याह्ने सपादद्विवादने आसीदेषा दुर्घटना। तत्समये उपशतं जनाः तत्र सन्निहिताः तेषु अनेके अप्रत्यक्षा इति प्रधानमन्त्रिणा जसीन्ता आर्डेण् महाभागया निगदितम्।
वैट् ऐलान्ट् प्रदेशस्थः अग्निपर्वतः विस्फोटनप्रायः, अतः तत्स्थानं न सन्दर्शनयोग्यमिति आरक्षकैः शास्त्रज्ञैश्च जाग्रतानिर्देशः कृतः आसीत्। तं तृणवत्कृत्वा एव विनोदसञ्चारिणः वैट्लान्टं प्राप्तवन्तः।
राष्ट्रिय-पौरत्वपरिष्कारविधेयकम् अङ्गीकृतम्।
नवदिल्ली> १९३ सामाजिकानाम् अनुज्ञया सह राष्ट्रिय-पौरत्वपरिष्कार विधेयकम् अङ्गीकृतम्। ८२ सामाजिकाः विषयेऽस्मिन् विप्रतिपत्तिः प्रकाशयन्तः आसन्। कोण्ग्रस्दलं विमृश्य आभ्यन्तरमन्त्रिणा अमितशाहेन विधेयकस्य अवतारणं कृतम्l प्रतिशतं ०.००१ आंशमपि न्यूनपक्ष विरोद्धो न भवति पत्रम् इति अमितशाहेन उक्तम्I भा ज पा अतिरिच्य शिवसेना, बिजु जनतादल, ए ऐ डि एम् के, टि डि पि, वैए एस् अर् कोण्ग्रस् च विधेयकावतरणस्य अनुकूलतया मतदानं कृतम्। कोण्ग्रस्, वामपक्षीयाः तृणमूलः एन् सि पि, मुस्लीं लीग् , डि एम् के समाजवादि दलीयाश्च विरुद्धतया मतदानं कृतवन्तः च।
Monday, December 9, 2019
चन्द्रयानं ३ - २०२०नवंबर् मासे विक्षिप्यते।
बंगलूरु> तृतीयस्य चन्द्रयानस्य विक्षेपणाय ऐ एस् आर् ओ सज्जायते। २०२० नवंबर् मासे विक्षेपणं भविष्यति इति ऐ एस् आर् ओ संस्थया आवेदितम्। विक्षेपणप्रयोगाय ७५ कोटि रूप्यकाणि अधिकतया दातव्यम् इति भारतसर्वकारः ऐ एस् आर् ओ संस्थया अभ्यर्थितः। आहत्य ६६६ कोटि रूप्यकाणां व्ययः भविष्यति।
चन्द्रयानं २ उपयुज्य चन्द्रस्य दक्षिणध्रुवे अवतीर्य परीक्षणानि कर्तुमेव ऐ एस् आर् ओ संस्थया उद्दिष्टम् आसीत्। किन्तु मुदुलावतरणवेलायाम् अवतारकेन सह विद्यमानः आशयविनिमय-सम्बन्धः क्षणात् पूर्वं विनष्टम् आसीत्I
Sunday, December 8, 2019
न्यायालयव्यवहारः सामान्यजनेभ्यः अप्राप्यः भवति - भारतराष्ट्रपतिः।
जोधपुरः> न्यायालय-व्यवहराः अधिकधनव्ययोपेतानि सामान्यजनेभ्यः अप्राप्यः च भवन्ति इति भारतस्य राष्ट्रपतिना रामनाथकोविन्देन अवोचत्। राजस्थानस्य उच्चन्यायालयस्य नूतनपत्तनस्य उद्घाटनं निरूह्य भाषमाणः आसीत् सः। ''नीतिन्यायसञ्चालनं इति अधिकव्ययोपेतं भवति। विविधकारेन उच्च-न्यायालये सर्वोच्च-न्यायालये च सामान्य-जनेभ्यः अप्राप्यः च भवतिI दरिद्राय याचिकया अत्र समागन्तुं शक्नोति वा? एषः प्रश्नः प्रसक्तः प्रधानतमः च भवति। कारणं तु अस्माकं शासन-संविधानस्य आमुखे व्यक्तीकृतः नीतिः सर्वेषां तुल्या इति तत्त्वम् अस्माभिः अङ्गीकृतम्'' राष्ट्रपतिः अब्रवीत्। सामान्यजनेभ्यः निशुल्कं नियमसेवाप्रापणम् अनिवार्यमिति महात्मा गान्धिनः वाचमपि उदृत्य भाषमाणः आसीत् सः॥
Subscribe to:
Posts (Atom)