विजय् हसारे क्रिकेट्सपर्या- कर्णाटकदेशः विजेता अभवत्।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, October 26, 2019
Friday, October 25, 2019
नाटकं, कला च विद्यालयीयपाठ्यपद्धत्याम् अन्तर्भावनीये - भारतस्य उपराष्ट्रपतिः।
नवदहली> नाटकस्य कलायाः च विद्यालयीयपाठ्यपद्धत्यां प्रवेशः आवश्यकः इति उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु:। दहल्यां ' प्रधानमन्त्री इन्नोवेटीव् लेणिङ् प्रोग्राम् ' इति कार्यक्रमस्य समापनसमारोहे भाषयन्नासीत् सः। भारतस्य शास्त्रीयनवोत्थानं सांस्कृतिकपुनरुज्जीवनं च आवश्यकम्, तदर्थं नाटकं, कला इत्यादयः विषयाः अपि पाठ्यपद्धत्याम् अन्तर्भावनीयाः भवन्ति इति सः अभिप्रैति स्म। अस्मिन् मासे बङ्गलुरु मध्ये इस्रो आस्थाने आरब्धा ध्रुव् पद्धतिः शास्त्रं, कला, लेखनम् इत्यादिषु अभिवृद्धिं प्राप्तुं छात्रेभ्यः अवसरं कल्पयतीति उपराष्ट्रपतिना सूचितम्। समग्रे अपि राष्ट्रे शास्त्रप्रदर्शन- शास्त्रपरीक्षण-नृत्तसङ्गीताभ्यसनादीनां स्थिरसंविधानम् आवश्यकमित्यपि सः असूचयत्।
कर्तार्पूर् तीर्थयात्रा - भारतपाकिस्थानयोर्मध्ये व्यवस्था सम्पन्ना।
नवदहली> बहुमासपर्यन्तं कृतचर्चाणाम् अन्ते कर्तार्पूर् तीर्थयात्रा व्यवस्थायां भारतपाकिस्थाने हस्ताक्षरम् अकुरुताम्। अनेन भारतीयैः तीर्थाटकैः पाकिस्थानस्थं कर्तार्पूर् सिख् देवालयं सन्दर्शयितुं शक्यते। द्वयोरपि राष्ट्रयोः मध्ये वर्तमानाभिः समस्याभिरेव व्यवस्थेयं विलम्बिताभवत्। पाकिस्थानस्य कर्तार्पूरस्थं दर्बारसाहिबदेवालयं भारतपञ्चाबस्य गुर्दास्पूरजनपदस्थं देरबाबनानाक् देवालयेन सह बन्धनीयः आभ्यन्तरप्रवेशनमार्गः भवति कर्तार्पूर् मार्गः। नूतनव्यवस्थामनुसृत्य भारतीयतीर्थाटकेभ्यः अनेन मार्गेण पाकिस्थानं प्रति गन्तुम् अनुमतिपत्रस्य आवश्यकता नास्ति।
बङ्ग्लादेशं प्रति विंशति२० क्रिकेट् परम्परायाः भारतसंघः प्रख्यापितः - रोहित् शर्म नायकः।
मुम्बै > बङ्ग्लादेशं प्रतिरुद्ध्य क्रीडितुं त्रयाणां विंशति २० क्रिकेट् क्रीडाणां परम्परायां भारतसंघः रोहित् शर्मणा नीयते। विराट् कोह्लये विरामः दत्तः। संघे सञ्जु सांसण् प्रत्यागच्छत्। विजय् हसारे सपर्यायां सञ्जुना केरलाय उत्तमं प्रकटनं कृतम् आसीत्। एवमेव बङ्ग्लादेशं प्रति टेस्ट् परम्परायैरपि संघः प्रख्यापितः अस्ति। टेस्ट्संघं विराट् कोह्लिः नेष्यति। द्वयोरपि संघयोः धोनेः चयनं नैव अभवत्।Thursday, October 24, 2019
बि एस् एन् एल् - एम् टि एन् एल् लयनाय केन्द्रमन्त्रिसभायाः अङ्गीकारः।
नवदहली> नष्टे वर्तमानयोः बि एस् एन् एल् - एम् टि एन् एल् सामान्यमण्डलस्थस्थापनयोः लयनाय केन्द्रमन्त्रिसभया अङ्गीकारः दत्तः इति वार्ताविनिमयमन्त्री रविशङ्कर् प्रसादः। पुनरुज्जीवनपद्धतेः अनुबन्धतया ऋणपत्रं सज्जीकृत्य सम्पाद्यस्य विक्रयणं च करिष्यति। ऋणपत्रद्वारा १५००० कोटिरुप्यकाणां, सम्पाद्यस्य विक्रयणेन ३८००० कोटिरुप्यकाणां च समाहरणं लक्ष्यीक्रियते। चतुर्वर्षाभ्यन्तरे धनसमाहरणं पूर्तीकरिष्यति। व्ययन्यूनीकरणानुबन्धतया कर्मकरेभ्यः स्वेच्छया विरामस्वीकरणाय च पद्धतिः सज्जीक्रियते।
शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः आरब्धुम् अनुज्ञा।
नवदिल्ली> शैलेन्धनमण्डलेषु नूतननिर्णयं स्वीक्रियते भारतसर्वकारेणI शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः आरब्धुम् अनुज्ञा प्रदत्ता अस्ति सर्वकारेण। लघुमात्रायाः विक्रयणमण्डले स्पर्धां समारब्धुम् अयं निर्णयः कारणभूतो भविष्यति इति वार्ता-विनिमय-प्रक्षेपणमन्त्रिणा जावडेक्करेण उच्यते।
२५० कोटिरूप्यकाणि विक्रयणेन आयः याभ्यः संस्थाभ्यः सन्ति ताभ्यः एव लघुमात्राविक्रयणे प्रवेष्टुमनुज्ञा लभते। प्रतिशतं पञ्च (५%) विक्रयणकेन्द्राणि ग्रामेषु भवितव्यानि इति व्यवस्था अपि अस्ति। पेट्रोल्, डीज़ल् , एल् एन् जी, सि एन् जि च इन्धनानां गणे सन्ति।
द्व्यधिकापत्येभ्यः सर्वकारनियुक्तिः निषिध्यते - निर्णयः असमसर्वकारस्य।
गुहावती > येषां अपत्यानि द्विसंख्याकमतिरिच्यन्ते तेषां सर्वकारवृत्तिनियुक्तये अर्हता न भवेदिति असमसर्वकारः। सोमवासरे सम्पन्ने मन्त्रिमण्डलोपवेशने आसीदयं निर्णयः। अधुनातनकाले सर्वकारसेवारताः अपि अपत्यद्वयमिति निबन्धनां परिपाल्य आदर्शधीराः भवेयुरिति सर्वकारस्य आदेशे निर्दिश्यते।
संवत्सरद्वयात्पूर्वं सर्वकारेण परिग्रहीतस्य जनसङ्ख्यानयस्य आधारे एव नूतनोऽयं नियमः। २०२१ जनुवरिमासादारभ्य नियमः प्राबल्ये भविष्यति।
नूतनः भूनयः अपि मन्त्रिमण्डलेन अङ्गीकृतः। एतदनुसृत्य भूरहितानां कृते ४३,२०० चतु.पादपरिमिता भूमिः भवननिर्माणाय कार्षिकोपयोगाय च अनुमोदते। १५ वर्षाणि यावत् भूमेः विक्रयः निरुद्ध्यते इति व्यवस्थाप्यस्ति।
विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय सामान्यपरीक्षासम्प्रदायः- चर्चाः आरब्धाः।
नवदहली > राष्ट्रस्य विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय देशीयस्तरे सामान्यपरीक्षासम्प्रदायाय पर्यालोचनाः आरब्धाः इति केन्द्रमानवविभवशेषिमन्त्री डा.रमेष् पोख्रियाल्। देशीयपरीक्षाविभागः प्रवेशनपरीक्षां सञ्चालयिष्यति। विविधानां प्रवेशनपरीक्षाणां लेखनेन छात्रैः अनुभूयमानानां क्लेशानां न्यूनीकरणाय नूतनपरीक्षासम्प्रदायः उपकरिष्यतीति मन्त्री अवदत्। देशीयशैक्षिकनयस्य अन्तिमं स्थूलचित्रम् विना विलम्बं सर्वकारः प्रसिद्धीकरिष्यति। तस्मिन् प्रवेशनपरीक्षां सम्बन्ध्य निर्देशानपि अन्तर्भावयितुमेव चर्चाः आरब्धाः। प्रधानमन्त्रिणः आध्यक्षे सम्पद्यमाने मन्त्रिसभामेलने एतत्सम्बन्ध्य निर्णयः स्वीक्रियते।
सौरव् गांगुलिः बि सि सि ऐ अध्यक्षत्वेन अवरोधितः।
Wednesday, October 23, 2019
जनसञ्चार-माध्यमानां नियत्रणम् - २०२० जनुवरिमासाभ्यन्तरे नियमः प्रबलः भविष्यति।
नवदहली > सामूहिकमाध्यमेषु दीयमानं विवरणम् आधार् रेखया सह बन्धनीयमिति निर्देशमधिकृत्य २०२० जनुवरिमासाभ्यन्तरे नियमनिर्माणं करिष्यतीति केन्द्रसर्वकारस्य कृते उच्चतरन्यायालये तुषार् मेहता विशदयत्। केन्द्रसर्वकारस्य नूतनपरिष्कारस्योपरि उन्नीतानां निवेदनानाम् उच्चतरन्यायालयस्य परिगणनावेलायामेव केन्द्रसर्वकारस्य विशदीकरणम्। सामूहिकमाध्यमस्थविवराणाम् आधार् रेखया सह बन्धनं, व्यक्तेः स्वातन्त्र्यं प्रति सर्वकारस्य प्रवेशमिव व्याख्यानं नैव उचितम् इत्यपि सर्वकारपक्षतः विशदीकृतम्। देशसुरक्षां राष्ट्रस्य परमाधिकारसंरक्षणं च पुरस्कृत्यैव नूतनपरिष्कारः, व्यक्तिस्वातन्त्र्यमित्येतत् आतङ्गवादिभ्यः नैव देयम् इति केन्द्रसर्वकारस्य नियमकार्यप्रतिपुरुषेण के के वेणुगोपालेनापि अभिप्रेतम्। अन्तर्जालोपयोगेन सामूहिकमाध्यमैः च राष्ट्रविरुद्धप्रवर्तनानि, विद्वेषकप्रभाषणानि, व्याजवार्ताप्रसारणं, नियमविरुद्धप्रवर्तनानि च वर्धयन्तीति उच्चतरन्यायालये केन्द्रसर्वकारेण सत्यप्रस्तावना कृता आसीत्। विषयेऽस्मिन् विविधेषु उच्चन्यायालयेषु वर्तमानानि निवेदनानि उच्चतरन्यायालयस्य परिधौ आनीयानि इति फेस्बुक् सामूहिकमाध्यमेन उच्चतरन्यायालयं प्रति अभ्यर्थितमासीत्।
Subscribe to:
Posts (Atom)