OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, September 5, 2019
Wednesday, September 4, 2019
मेट्रो नूतनं यानमार्गपसारणम् उद्घाटितम्।
कोच्ची> केरलस्य अभिमानपरियोजनायाः मेट्रो रेल् यानयोजनायाः नूतनं यानमार्ग-प्रसारणं मुख्यमन्त्रिणा पिणरायि विजयेन समुद्घाटितम्। एऱणाकुलं महाराजास् निस्थानादारभ्य 'तैक्कूटं' पर्यन्तं ५. ६कि मी दूरपरिमितं भवति नूतनं सोपानम्। कटवन्त्र स्थाने सम्पन्ने कार्यक्रमे केन्द्रमन्त्री हरदीपसिंहपुरी अध्यक्षः अभवत्। मेट्रोमान् इतिविख्यातः ई. श्रीधरः , केरलस्य गतागतमन्त्री ए के शशीन्द्रः इत्यादयः प्रमुखाः कार्यक्रमे भागभाजः अभवन्।
कश्मीरे आर्थिकनिक्षेपाय जापानादीनि राष्ट्राणि। १५००० कोटि रूप्यकाणां परियोजनाः अङ्गीकृताः।
नवदिल्ली> कश्मीरः प्रगत्यभिमुखं याति। १५००० कोटि रूप्यकाणां परियोजनाःI ४४ उद्योगसंस्थाः कश्मीरे व्यवसायिक संस्थायाः समारम्भाय सज्जो भूत्वा केन्द्रसर्वकारम् उपगताः। एतेषु ३३ संस्थायाः निवेदनानि सर्वकारेण अङ्गीकृतानि।
ऐ टि & टेक्नोलजि, इन्फ्रास्ट्रच्चर्, रिन्यूवल् एनर्जि, मानुफाक्चरिङ्, होस्पिट्टालिट्टि, डिफन्स्, डूरिसम्, स्किल् - एड्यूकेषन् इति मण्डलेषु १५००० कोटि रूप्यकाणां परियोजना भवति। नवंबर् मासतः नूतनयोजनाः समारप्स्यन्ते इत्यस्ति आवेदनम्। एतत् अतिरिच्य रिलयन्स् आदयः अन्ताराष्ट्र-संस्थाः, जापानराष्ट्रं अन्यानि कानिचन राष्ट्राणि च काश्मीरे आर्थिकनिक्षेपाय समागतेषु सन्ति।
Tuesday, September 3, 2019
बलदेवानन्द सागरः 'वाचस्पति' पुरस्कारेण सम्मानितः
चित्रकूटम्> संस्कृतवार्ताप्रसारकत्वेन सुख्यातः डा बलदेवानन्द सागरः वाचस्पति पुरस्कारेण सम्मानितः रामकथागायकस्य मोरारीबापू-चरणस्य करकमलाभ्याम् अद्य (ऋषिपञ्चमी, ऑगस्ट'२०१९) वाचस्पति-सम्माननम् अवाप्तम्। 'मम सारस्वत-साधनायाः दायित्वमितः परम् एधितम्' इति सम्मानं स्वीकृत्य सागर महोदयेन उक्तम्। संस्कृृत वार्ताप्रसारण मण्डले तथा संंस्कृतभाषाायाः प्रचारणक्षेत्रे च अनेन कृतं योगदानं पुरस्कृत्य भवति अयं पुरस्कारः। चित्रकूटस्थे कैलाासगुरुकुले आयोजितायाम् उपवेशने आसीत् समम्माननम्।
पाकिस्थानानुकूलतया वक्तुम् कुलभूषणस्योपरि सम्मर्दः।
इस्लामबाद्> पाकिस्थाने कारागृहे बन्धितस्य भारतनागरिकस्य कुलभूषण यादवस्योपरि शक्तः सम्मर्दः अस्ति इति भारतस्य विदेशकार्यमन्त्रालयः वदति। पाकिस्थानानुकूलतया वक्तव्यम् इत्यस्ति सम्मर्दः। स्वयं चारः इत्यङ्गीकृत्य प्रज्ञापनां दातुम् पाकिस्थानेन कुलभूणः प्रेरितः इति विदेशकार्य-वक्ता रवीषकुमारः अवदत्। कुलभूषणजातवाय नयतन्त्र-साहाय्यं प्रदास्यानन्तरमासीत् भारतस्य इयम् उक्तिः।
चारवृत्तिमारोप्य पाकिस्थानीयेन सैनिकन्यायालयेन कुलभूषणाय मृत्युदण्डः आदिष्टः आसीत्। किन्तु दैवदिष्ट्या दण्डं विरुद्ध्य अन्ताराष्ट्र नीति-न्यायालयात् भारतानुकूलतया आदेश-प्राप्तिः आसीत्। न्यायालया-देशानुसारं यादवाय नयतन्त्रसाहाय्यं प्रदातुं पाकिस्थानः निर्बद्धः अभवत्। अनेन कारणोन आसीत् यादवेन सह मेलने भारताय अनुज्ञा प्रदानम्।
केरले 'पि वि सि फ्लक्स्' फलकानि निरुद्धानि।
अनन्तपुरी > स्वास्थ्य पारिस्थितिक दोषाणां कारणभूतानि पि वि सि (Poly Vinail Chloride) फ्लक्स् फलकानि केरले निरुद्धानि। सर्वकारीय निजीयकार्यक्रमाः, धार्मिकाचाराः, चलच्चित्र-निर्वाचनादीनां प्रचारणं, इत्यादीनाम् उद्घोषणाय फ्लक्स् इत्यस्य उपयोगः मुद्रणं च निरुद्धम्। तत्स्थाने तान्तव-कागद-'पोलि एत्लिन्' इत्यादि पुनश्चंक्रमणक्षमाणां वस्तूनामुपयोगः कार्यः। विरुद्धप्रवर्तकानां द्रव्यदण्डः विहितः।
Monday, September 2, 2019
चन्द्रयानम् २, 'लान्टर' इत्यस्य अद्य विशेषबन्धच्छेदःI
बंङ्गलूरु > भारतस्य अनुसन्धान-पेटकं चन्द्रयानम्-२ चन्दस्य समीपं प्रदक्षिणं करोति। रविवासरे सायं ६:२१ वादने विशेषयन्त्रम् उपयुज्य पथः क्रमीकृतः। चन्द्रपथ प्राप्त्यनन्तरं पेटकस्य पञ्चमं पथसन्तरणं भवति इदम्। अनन्तर दौत्यः चन्द्रोपरितलप्राप्त्यर्थम् रोवरस्य अवतारणाय अवतारणयन्त्रस्य पेटकबन्धच्छेदः एव। सोमवासरे मध्याह्ने१२:३५ - १:४५ वादनस्य मध्ये 'लान्टर'स्य बन्धच्छेदः भविष्यति। शनिवासरे उषसि १:३०- २:३० वादने चन्द्रस्य गर्तप्रदेशे मृदुलावतरणविद्यया लान्टरं अवतारयिष्यति।
Sunday, September 1, 2019
भारतस्य रूप्यकपत्रस्य २००० इत्यस्य निलीनप्रवेश: - प्रभवकेन्द्रं पाकिस्थानः।
नवदिल्ली> भारतस्य २००० इति रूप्यकपत्रस्य व्याजपत्राणि पाकिस्थानीयेन भीकरदलेन निर्मितानि। सुरक्षानुबन्धतया कृतान्वेषणे विशेषान्वेणसंघेन पाकिस्थानस्य बन्धः प्रत्यभिज्ञातः। डि सि पि प्रमोद सिंह कुश्वन्तस्य नेतृत्वे विद्यमानेन अन्वेणसंघेन पाकिस्थानीय चारसंघस्य ऐ एस् ऐ इत्यस्य प्रधानप्रतिनिधिः दिल्लीस्थ नेहृपालस् इत्यस्य समीपतः गृहीतः। अज्ञावासिनः अधोलोकप्रवर्तकस्य महापातकिनः च दावूद् इब्राहिमस्य 'D' इति उद्योगसंस्थायाः प्रतिनिधिः भवति अस्लम् अन्सारिः। अस्य पार्श्वतः ५.०५ लक्षं रूप्यकाणां मूल्यभूतं २००० रूप्यकस्य व्याज रूप्यकपत्राणि बलेन गृहीतानि। भारतात् पलायितः दावूद् इब्राहिमः तस्य 'D' इति संस्था च भवतः व्याज रूप्यकपत्र-वितरणे ऐ एस् ऐ इत्यस्य प्रधानमध्यवर्तितिनौ। 'D' इत्यस्य केन्द्रकार्यालयः पाकिस्थाने कराची नगरे एव वर्तते।
Saturday, August 31, 2019
भीषायाः पुरतः न नमस्कारः; आमेरिक्कम् अपि भीतं कुर्वन् रष्यस्य युद्धसङ्केतं भारतं क्रीणाति।
नवदिल्ली> पञ्चमश्रेणीयान् युद्धविमानानपि भग्नं कर्तुं क्षमता युक्तम्, अमेरिक्कस्य आधुनिकम् एफ् ३५ 'फैट्टर् जेट्' विमानानामपि भीषां कर्तुं योग्यं, शब्दात् अष्टगुणितवेगयुतं च भवति भारतेन क्रेतुं निश्चितः रष्यस्य 'एस् ४०० त्रैम्फ्' इति अग्निबाणः। अमेरिक्कस्य भीषां विगणय्य भारतेन अग्निबाणस्य कृते धनं क्रमशः दातुम् आरब्धम्।
रष्येन सह अग्निबाण-सन्धिविषये भारतस्योपरि उपरोधप्रक्रमाः स्वीकरिष्ये इति अमेरिकेन पूर्वसूचना प्रदत्ता आसीत्। किन्तु भीषायाः पुरतः नमस्कृत्य स्थांतुम् न शक्यते, रष्येन सह अग्निबाण-सन्धिः अनुवर्तयितुम् एव निश्चितः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। ५.४ बिल्यण् डोलर् धनस्य भवति सन्धिः।
Friday, August 30, 2019
जि-७ शिखरमेलने चीनं प्रति परिहासः; होङ्कोङ् घटनायं प्रतिषेधितान् समर्थनं कृत्वा विश्वराष्ट्राणि।
पारीस्> चीनं विरुद्ध्य लोकराष्ट्राणि विप्रतिपत्तिं प्राकाशयन्। जि-७ शिखर-सम्मेलने आसीत् होङ्कोङ् घटनायां प्रतिषेधितानाम् उपरि लोकराष्ट्रस्य आलम्ब प्रख्यापनम्। किन्तु जि-७ शिखरसम्मेलनस्य निश्चयान् प्रति चीनेन विप्रतिपत्तिः प्रकाशिता।
लक्षशान् होङ्कोङ् निवासिनः मार्गेषु अवतीर्य कृतः प्रतिषेधः चीनेन आरक्षकान् उपयुज्य उपयुज्य पराजेतुं प्रयत्नः कृतः। १९८४ तमे कृतां सन्धिम् उल्लङ्घ्य भवति चीनस्य प्रक्रमाः। मुनुष्यावकाश लङ्घनमेव चीनेन कृतम् इति जि-७ मेलने असूचयत्॥
Subscribe to:
Posts (Atom)