ग्वालियरनगरस्य अनौपचारिकसंस्कृतकेन्द्रेषु शोभायात्रया सह व्यवहारोपयोगिनां वस्तुनां विज्ञानस्य च संस्कृत-प्रदर्शनी जाता
-दीपक वात्स्यः
ग्वालियर्> मध्यप्रदेशस्य ग्वालियरस्थे कमलाराजे-कन्या-महाविद्यालये २१.०८.१९ दिनाङ्के बुधवासरे प्रात: संस्कृतस्य प्रचारप्रसाराय जनजागरणाय च संस्कृतविभागस्य संस्कृतभारत्या: अनौपचारिक-संस्कृतशिक्षणस्य च संयुक्तसौजन्येन महाविद्यालये तिलककरणम्, संस्कृत- शोभायात्रा, संस्कृतवस्तुप्रदर्शनी, संस्कृतविज्ञानप्रदर्शनी, संस्कृतपुस्तकविपणि: इत्यादीनि विभिन्नानि कार्याणि सम्पन्नानि। सर्वप्रथमं महाविद्यालयस्य छात्रा: दिवङ्गतात्मने भूतपूर्व-सी.एम.बाबूलालगौडवर्याय मौनश्रद्धाञ्जलिं समर्पितवत्य:। अनन्तरं तिलककरणेन सह संस्कृतगीतानि गायन्त्य: बालिका: संस्कृतशोभायात्रायां सोत्साहेन प्रतिभागं कृतवत्य:। शोभायात्रा विभिन्नविभागेभ्यो भूत्वा सर्वेभ्य आमन्त्रणं दत्त्वा प्रदर्शनीस्थलं प्राप्तवती। तत्र अन्यविभागीयै: प्राध्यापकै: छात्राभिस्सह डा.कृष्णा-जैनवर्या(संस्कृतविभागाध्यक्षा) , डा.उर्मिलासिंहतोमर: , डा.कविता -अग्रवाल:, डा.महेन्द्र-शर्मा (NFSE TEACHER) , अलकेशत्रिपाठी (संस्कृतभारती), डा.कल्पनाशर्मा, डा.आशारावत:, डा.राजूराठौर:, अनौपचारिकसंस्कृतशिक्षक: कृष्णकान्त: पञ्चारिया(बीकानेरी),उर्मिला वर्मा इत्यादय: प्रदर्शन्या: अवलोकनं कृतवन्त:। सर्वे संस्कृतकार्यं वचसा