नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात इत्येषः। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्मक -कार्यक्रमः आसीत्| विपक्षदलीयैरपि श्लाघितः बहुवारम्। भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च आसीत्। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवाहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये 'मनोगतम् २.०१'
संस्कृतमातरं नत्वा
सम्पादकः
'मनोगतम्’ – २.०१ [प्रथमः भागः]
‘मन की बात’ (२.o१) प्रसारण-तिथि: - ३०-६-२०१९
- संस्कृत-भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य