OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, June 18, 2019
Monday, June 17, 2019
द्वयोः राष्ट्रयोः विद्युद् बन्धः पूर्णतया विच्छेदितः। रयिल् यानसेवा स्थगिता
ब्यूणस् ऐरिस्> विगते रविवासरे द्वे राष्ट्रे अन्धकारान् निमज्ज्य आपन्नं विद्युत् स्थगनमेव आविश्वं चर्चाविषयः। अर्जन्टीन-उरुग्वा च भवतः एते राष्ट्रेI विद्युत् वितरण संविधाने जातः दोषः एव अस्य कारणम् इति उद्योगसंस्थया उक्तम्। ४.८ कोटि जनाः अनया बाधिताः। प्रादेशिकसमयः प्रातः सप्तवादने एव विद्युत् वितरणे बाधा अभवत्। धावमानानि रेलयानानि अपि स्थगितानि। जनाः चकिताः च। इतिहासे इदंप्रथमतया आसीत् ईदृशं विद्युत्स्थगनम्। विनाविलम्बं विद्युत् प्रसारः पुनःस्थापितः। किन्तु अन्धकारे पतितानां नगराणां चित्राणि इदानीमपि विद्युन्मााध्यमेन भ्रमणं कुर्वन्ति।
Sunday, June 16, 2019
बिहारे अङ्गारकवातेन ६१ जनाः मृताः।
पाट्न > बिहार राज्ये अङ्गारकवातेन ६१ जनाः मृताः। २५ होराभ्यन्तरे आसीत् इयं घटना। शताधिकाः आतुरालयं प्रविष्टाः। वार्ताहर-संस्थया ऐ एन् एस् द्वारा आवेदनम् प्रकाशितम्। मृतेषु भूरि जनाः औरङ्गबाद् , गय, नवाडा जनपदेषु विद्यमानाः भवन्ति। प्रदेशेस्मिन् शनिवासरादारभ्य ४५ डिग्रि सेल्ष्यस् भवति तापमानम्। शनिवासरे रात्रिपर्यन्तम् उष्णवायुतरङ्गेण २७ जनाः मृत्युमुपगताः इति औरङ्गबादस्य 'सिविल् सर्जन्' डा सुरेन्द्रप्रसादेन उक्तम्। संख्याधिकाः जनाः आतुरालये वर्तन्ते इत्यपि तेनोक्तम्। अस्यां घटनायां मुख्यमन्त्री नीतीष्कुमारः स्वदुःखं प्रकाशितवान्। मृतानां कुटुम्बाय सः ४ लक्षं रूप्यकाणि समाश्वासधनं प्रख्यापितवान्।
Friday, June 14, 2019
सार्वजनिक विद्यालयेषु वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः।
तिरुवनन्तपुरम् > केरलराज्ये सार्वजनिक-विद्यालयेषु छात्राणां संख्या अधिकतया वर्धिता। वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः इति गणनया प्रमाणीक्रियते। निजीय विद्यालयेषु ३८००० छात्राणां न्यूनता प्रथमस्तरे अभवत् इत्यस्ति आवेदनम्। सार्वजनिक-शिक्षाक्षेत्रे अनुवर्त्यमानः अन्ताराष्ट्रगुणोत्कर्षः, आधारसुविधायाः सौलभ्यं च छात्राणं समाकर्षणस्य कारणम्।
सर्वकारीय विद्यालयेषु ११.६९ लक्षं सर्वकारसहकृत विद्यालयेषु २१.५८ लक्षं छात्राः च अध्ययनं कुर्वन्ति इति गणना सूचयति।
स्वकीय-बाह्याकाशनिलयस्थापनाय भारतस्य ऐ ए स् आर् ओ।
नवदिल्ली> भारतीय बाह्याकाशानुसन्धान संस्थया (इस्रो)स्वकीय बाह्याकाशनिलयस्थापनाय योजना सज्जीक्रियते। मानवं बाह्याकाशं प्रेषयितुं निश्चितं गगनयान योजनायाः सफलतानन्तरं बाह्याकाश निलयस्य निर्माणसंबन्धी नूतनी योजना सर्वकाराय समर्प्यते इति 'इस्रो' संस्थायाः निर्देशकः डा. के शिवः अवदत्। सूक्ष्मगुरुत्वबल (micro gravity) -परीक्षणाय लघूपकरणमपि विक्षिप्यते इति सः वार्तामाध्यमान् प्रति अवदत्।
ऐ एस् आर् ओ संस्थया सङ्कल्पितस्य बाह्याकाशनिलयाय २० 'टण्' भारः भविष्यति। अस्य निलयस्य भ्रमणपथः भौमोपरितलात् ४०० किलोमीट्टर् दूरे निश्चितः अस्ति। १५ तः २० दिनपर्यन्तम् अनुसन्धातृभ्यः अस्मिन् वासं कर्तुं शक्यते।
Thursday, June 13, 2019
आर्थिक-क्लेशः, पुरजनाः जूण् ३० तः पूर्वं धनस्थितिः प्रकाशनीया - इम्रान् खान्।
इस्लामाबाद्> आर्थिक-क्लेशेन पुरजनाः जूण् ३० दिनाङ्कतः पूर्वं धनस्थितिः प्रकाशनीया इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः अवदत्। आर्थिकस्थिति-विवरणयोजना स्थापिता अस्ति। योजनाद्वारा करः पूरणीयः, नो चेत् राष्ट्राय कालयापनं न शक्यते इति पौरजनान् प्रति सः अवदत्। आर्थिक-सङ्कल्पनमेलनस्य कालः समागतः इत्यनेन एतस्य वाचः श्रद्धेयः। *विनामीय (Benami) वित्तलेखानां स्थावर-जङ्गमवस्तूनां विदेश-वितलेखेषु निभृतानां धनानां विवरणानि च एवं प्रकाशनीयानि।
सर्वेषाम् आर्थिकव्यवहारान् अधिकृत्य विवरणानि गुप्तान्वेषण-विभागेन संग्रहीतानि सन्ति इति इम्रानः पूर्व सूचना प्रदत्ता।*विनामी (Benami) = विशेष-नाम।
Wednesday, June 12, 2019
गिरीष् कर्णाटः निर्यातः।
बेङ्गुलुरु > कन्नडसाहित्याय आधुनिकचैतन्यं दत्तवान् गिरीष् कर्णाट् [८१] दिवंगतः। नाटककर्ता, चलच्चित्रकारः, अभिनेता, इत्यादिभिः स्वप्रतिभां विलासयन् सः ज्ञानपीठपुरस्कारजेता च आसीत्। तस्य अभिलाषमनुसृत्य विलापयात्रा, सामाजिकदर्शनम्, औद्योगिकबहुमतयः , धार्मिकाचारः इत्यादीनि विहाय अन्त्याञ्जलिः संवृत्ता।
Tuesday, June 11, 2019
षोपियान् प्रदेशे संघर्षः- द्वौ भीकरौ सेनया मारितौ।
श्रीनगरम्> जम्मुकाश्मीरस्थ षोपियाने भीकरदलसुरक्षासेनयोः मिथः सङ्घर्षः प्रवृत्तःI द्वौ आतङ्किनौ सेनया निहतौ। अद्य मङ्गल वासरे उषसि अवनीरा मण्डले आसीत् सङ्घर्षः। प्रदेशस्मिन् आतङ्किनः छन्नः तिष्टन्तः इति गुप्तविवरणस्य आधारे सुरक्षासेनया अन्वेषणम् आरब्धम् । तदा निलीय स्थिताः आतङ्किनः सुरक्षासैनिकान् प्रति नालिकाशस्त्रं प्रयुक्तवन्तः। सन्दर्भेऽस्मिन् प्रवृत्ते परस्पर गोलिकाप्रहरे एव द्वौ आतङ्किनाै निहतौ। शस्त्राणि, विस्फोटक वस्तूनि च सेनया ग्रहीतानिI भीकरौ केषु आतङ्किदलेषु विद्यमानौ इति प्रत्यभिज्ञानं नाऽभवत्।
Monday, June 10, 2019
शान्तिपूर्णवातावरणस्य सृष्टिः पाकिस्थानेन करणीया -अमेरिका
वाषिङ्टण्> दक्षिणेष्याराष्ट्रेषु शान्तिपूर्ण-वातावरणस्य सृष्टेः उत्तरदायकः पाकिस्थानः इति अमेरिक्केन उक्तम्। पाकिस्थानं केन्द्रीकृत्य प्रववर्तमानान् आतङ्कवाददलान् निर्वीर्यं कर्तुं पाकिस्थानाय उत्तरदायित्वमस्ति इति अमेरिकेनोक्तम्। भारतेन सह शान्ति चर्चायै सज्जः इति पाकिस्थानस्य प्रधानमन्त्रिणः इम्रान् खानस्य सूचनानन्तरम् आसीत् अमेरिक्कस्य ईदृशोक्तिः।
पाकिस्थाने प्रवर्तमानाः आतङ्किनः गृह्णीयाः। आतङ्क-प्रवर्तनेन सह शान्तिचर्चा न शक्यते। भीकरदलीयानां स्वतन्त्रविहाराय पाकिस्थाने कृताः अवसराः स्थगनीयाः इत्यपि अमेरिक्कस्य प्रतिनिधी पि टि ऐ वार्ता-संस्थां प्रति अब्रवीत्।
Sunday, June 9, 2019
वार्तामुक्तकानि।
वर्षाकालः सम्प्राप्तः।
अनन्तपुरी > केरले 'मण्सूण्' नामकः दक्षिणपश्चिमीयः वर्षाकालः समागतः। सप्ताहैकस्य विलम्बेन एव अस्मिन् वारे वर्षाकालस्य सम्प्राप्तिः। केरलस्य विविधजनपदेषु शक्ता वर्षा लभ्यमाना अस्ति।
अद्य आरभ्य 'ट्रोलिंङ्' निरोधः।
कोच्ची > केरलस्य तीरसमुद्रेषु अद्य अर्धरात्रादारभ्य मण्सूण्कालीयः यन्त्रवत्कृतमत्स्यबन्धननिरोधः - ट्रोलिंङ् निरोधः - आरभ्यते। जूलाय् ३१ दिनाङ्कपर्यन्तं निरोधः सम्पत्स्यते। किन्तु परम्परागतमत्स्यबन्धनयानानां निरोधः न बाधते।
विश्वचषकक्रिक्कट् - भारतम् अद्य आस्ट्रेलियां विरुध्यते।
लण्टन् > इङ्लण्टे सम्पद्यमानायां विश्वचषकक्रिक्कट् स्पर्धापरम्परायायां भारतस्य द्वितीया प्रतियोगिता अद्य आस्ट्रेलियां प्रति। इदानीं त्रयाणां कन्दुकताडकानां विनष्टेन ३०१ धावनाङ्काः समुपलब्धाः। शिखर् धवानेन शतकं सम्प्राप्तम्।
Subscribe to:
Posts (Atom)