OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, May 12, 2019
लोकसभानिर्वाचनं - षष्ठं सोपानमद्य ; ५९ मण्डलेषु।
नवदिल्ली > वादप्रतिवादैः लोकसभानिर्वाचनस्य षष्ठसोपानस्य घोषप्रचारणं समाप्तम्। षण्णां राज्यानां दिल्ल्याश्च ५९ स्थानेषु अद्य जनविधिः सम्पद्यते।
उत्तरप्रदेशस्य १४, हरियानस्य १०, बीहार-मध्यप्रदेश-पश्चिमवंगराज्यानाम् अष्टशः, दिल्ल्याः ७, झार्खण्डस्य ४ च स्थानेषु एव अद्य निर्वाचनं सम्पद्यते। सी ला दीक्षित् , गौतम् गम्भीर, विजेन्दर् सिंहः इत्यादयः अद्य जनहितं काङ्क्षन्तः प्रमुखाः भवन्ति।
Saturday, May 11, 2019
जैववैविध्यनाशः, अयर्लन्ट् देशे पारिस्थितिक आपत्कालः प्रख्यापितः।
डब्लिन् > ब्रिट्टणस्य पश्चात् पारिस्थितिक-आपत्कालः उद्घोषितः राष्ट्रं भवति अयर्लन्ट्। उद्घोषणा महत्तरा वार्ता इति स्वीडनस्य परिस्थिति-प्रवर्तका ग्रीट्टा तन्बर्ग् उक्तवती। यूरोप् भूखण्डे सर्वत्र परिस्थितिनाशं विरुद्ध्य प्रतिषेधमेलनानि आयोज्य प्रचारणं कृतवती इत्यनेन अन्ताराष्ट्र स्थरे प्रसिद्धा भवति षोडशवयस्का तन्बर्ग्
जैववैविध्यनाशं कथम् अभिमुखीकर्तुं शक्यते इति विषये अनुसन्धानं कर्तुं अयर्लन्टट देशस्य विधानासभायाः उपवेशने निश्चितम्। तदनन्तरं सर्वेषाम् अनुज्ञया पारिस्थितिक आपत्कालः प्रख्यापिता। विश्वराष्ट्राणि अयर्लन्टम् अनुगच्छतु इति ग्रीट्टा तन्बर्ग् आह्वानं कृतवती।
रफाल् पुनरालोकनयाचिकायां वादः समाप्तः, विधिः निर्वाचनानन्तरम्।
नवदिल्ली> रफाल् पुनरालोकनयाचिका राहुल गान्धिनं विरुद्ध्य न्यायालयालक्ष्य-याचिका च विधिप्रकाशनाय सर्वोच्चन्यायालयेन अधीनतायां कृता। विधिः निर्वाचनानन्तरं भविष्यति। राफेल् प्रकरणे केन्द्रसर्वकाराय सर्वोच्च न्यायालयेन विशुद्धता पत्रप्रदानानन्तरं वार्ता माध्यमद्वारा प्रकाशितस्य नूतनप्रमाणस्य आधारेण आसीत् याचिकासमर्पितानां वादः। विशुद्धता पत्रप्रदानायकारणभूत-विधिप्रस्तावे न्यूनता अस्ति इति उक्तवता प्रशान्तभूषणेन सन्धिः निष्कासनीयम् इति न उक्तम्। प्रथम विवरणावेदनं स्वीकृत्य अन्वेणम् स ऐच्छत्। 'सि ए जि' मूल्यं संबन्ध्य अन्वेषणं न कृतम् । इदं प्रथमतया भवति मूल्यान्वेषणं विना सन्धेः अङ्गीकारः। वादाः समाप्ताः विधिः निर्वाचनानन्तरम्भविष्यति।
Friday, May 10, 2019
निरालम्बान् अन्विष्य अज्ञातः कारुणिकः यात्रां करोति।
दुबाय्> विशुद्धमासेस्मिन् निर्धनानां साहाय्यार्थं तेषां दुरितानां परिहाराय अज्ञातः कश्चन मनुष्यः लोकपर्यटनम् आरब्धवान्। जीव-कारुण्य प्रर्वर्तननिरतः एषः कः इति कोऽपि न जानन्ति। स्वस्य नाम मुखं वा लोकस्य पुरतः प्रदर्शयितुम् एषः न अभिलषति। तथापि जनाः जानन्ति एषः यु ए ई देशीयः इति। अस्य आदर्शभूतानां कारुण्यप्रवर्तनानां विषये भवति इदानीं जनानां मध्ये चर्चा।
अस्य महात्मनः प्रवर्तनानि 'खल्बी इत्व्म इन्' इति नाम्नि यु ए इ समयः रात्रौ ७:१५ वादने अबुदाबि दूरदर्शने, सप्त वादने ए बि सि मध्ये तथा खल्बि इतमान् इति यू ट्यूब् वाहिन्यां च प्रसृताः वर्तन्ते। किन्तु कार्यक्रमे ईदृशस्य प्रवर्तनस्य पृष्ठतः कः इति काऽपि सूचना नास्ति। 'वामहस्तम् अज्ञात्वा दक्षिणहस्तेन दानं करणीयम्' इति उपदेशः सः पालयति।
Thursday, May 9, 2019
श्रीशङ्करजन्मदिनाघोषः - अद्य कालट्यां महापरिक्रमः सन्यासिसङ्गमश्च।
कालटी > अद्वैतवेदान्तसंस्थापकस्य श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्यामद्य सम्पद्यते। महापरिक्रमः , पूर्णानदीपूजा , नक्रघट्टस्नानं, सन्यासिसङ्गमः इत्येतैः कार्यक्रमैः जन्मदिनाघोषः आयोजयिष्यते।
आदिशङ्करकीर्तिस्तम्भमण्डपे प्रभाते दशवादने सन्यासिसङ्गमः सम्पद्यते। भारतस्य नानाराज्येभ्यः शतशः सन्यासिनः भागभाजः भवन्ति। सायं सम्पद्यमाने महापरिक्रमे सन्यासिनः सांस्कृतिकनेतारः सहस्रशः बहुजनाश्च भागं कुर्वन्ति।
श्रृङगेरीमठस्य अधीनतायां वर्तमाने आदिशङ्करजन्मभूमिमन्दिरे मन्दिराचारान् विहाय शास्त्रार्थविद्वत्सभा , रथोत्सवः इत्यादयः आयोज्यमानाः सन्ति। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे सायं षट्वादने ३२ मातृजनान् 'मातृपञ्चकस्तोत्रा'लापनेन आद्रियन्ते।
Wednesday, May 8, 2019
नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।
-डा.अभिलष् जे
तृश्शूर्> संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. सि के जयन्ती शिल्पशालायाः उद्घाटनं करिष्यति। चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति। डा.महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।
Tuesday, May 7, 2019
एस् एस् एल् सि परीक्षायां ९८.११%विजयः!
अनन्तपुरी > केरले गतमार्च् मासे सम्पन्नायां दशमीकक्ष्यापरीक्षायां [एस् एस् एल् सी] प्रतिशतं ९८.११ छात्राः उपर्यध्ययनाय अर्हतां प्राप्तवन्तः। परीक्षां लिखितवत्सु ४,३४,७२९ छात्रेषु ४,२६,५१३ छात्राः उत्तीर्णाः। ३७,३३४ छात्राः सर्वेषु विषयेषु A+ पदं प्राप्तवन्तः। १०० % विजयः १७०३ विद्यालयैः लब्धः!
उत्कृष्टविजयं प्राप्तवत्सु जनपदेषु पत्तनंतिट्टा प्रथमस्थानं प्राप। विद्याभ्यासजनपदेषु आलप्पुषाजनपदस्थः कुट्टनाट् प्रथमस्थानं प्राप।
Monday, May 6, 2019
रष्यायां सौदामिन्या विमानं दग्धं ; ४१ मरणानि।
मोस्को > तडित्ताडनेन विमानस्य पुच्छाग्रे सम्पन्नायाम् अग्निबाधायां ४१ यात्रिकाः मृताः। रूस् राष्ट्रे 'षेरेमेत्योवो' विमाननिलयात् ७८ यात्रिकैः उड्डयितं 'सुखोय् सूपर् जट् - १००' विमाने एव अग्निबाधा सञ्जाता। झटित्येव विमानं भूमिगतं कृतमपि ४१ यात्रिकाः मृत्युमुपगताः , ६ दाहव्रणिताः अभवन्। एतदाभ्यन्तरे विमानं पूर्णतया दग्धम्।
'मुर्मान्' नगरं प्रति प्रस्थिते विमाने उड्डयनवेलायामेव सौदामिनीस्पर्शमभवत्। झटित्येव उत्तरणाय अनुमतिः लब्धा अपि प्रयत्नः विफलो जातः। द्वितीयप्रयत्नेन एव उत्तरणं साधितम्।
Subscribe to:
Posts (Atom)