प्रशासने अगन्तुं शक्यते चेत् शिखावृत्तिना सह प्रतिदास्यामः - निर्वाचनायोगं प्रति मयावती।
लख्नौ> निर्वचनप्रचारणस्य काले आत्मानं विरुद्ध्य ४८ होरात्मकस्य निवारणं प्रख्यापितस्य निर्वाचनायोगस्य प्रक्रमान् विरुद्ध्य बी एस् पि नेतृणी मायावती रोषाकुला अभवत्। निर्वाचन नियमान् उल्लङ्घितवती इति उक्त्वा आसीत् आयोगस्य प्रक्रमः। निर्वाचननियमान् उल्लङ्ख्य वेदिकासु प्रभाषं कृतवान् इत्यनेन यूपि मुख्यमन्त्रिणे योगीने आदित्यनाथाय निर्वाचन प्रचारणात् ७२ होरात्मकं निवारणम् आयाेगेन प्रख्यापितम् आसीत्I आयोगस्य निर्णयः पक्षावलम्बितः इति मायावत्या उक्तम्। प्रशासने अगन्तुं शक्यते चेत् शिखा वृत्तिना सह प्रतिदास्यामः इति मायावत्या उक्तम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, April 16, 2019
फ्रान्स् राष्ट्रे पुरातनं 'नेत्रदाम्' क्रैस्तवाराधनालयः अग्निसात्कृतः।
पारीस् > फ्रान्स् राष्ट्रस्थः ८५० संवत्सरैः पुरातनः नेत्रदाम नामकः क्रैस्तवाराधनालयः गतसोमवासरे अग्निबाधायां विशीर्णः अभवत्। आराधनालयस्य नवीकरणप्रवर्तनानां मध्ये आसीदग्निबाधा। मुख्यगोपुरं छदिश्च अग्निसात्कृते।
१२तमे शतके आसीदस्य आराधनालयस्य निर्मितिः। यावच्छीघ्रम् अस्य पुनर्निमितिं करिष्यतीति फ्रान्स् राष्ट्रपतिना इम्मानुवल् मक्रोण् महाभागेन उक्तम्।
लोकसभानिर्वाचनं द्वितीयसोपानं गुरुवासरे ; घोषप्रचारणम् अद्य समाप्यते।
नवदिल्ली > भारते १७तमलोकसभानिर्वाचनस्य द्वितीयसोपानं गुरुवासरे सम्पत्स्यते। १३ राज्येषु ९७ मण्डलेष्वेव निर्वाचनम्। एतेषु स्थानेषु घोषप्रचारणम् अद्य सायं समाप्यते।
द्वितीयसोपाने अधिकतमानि मण्डलानि तमिळनाडु राज्ये विद्यन्ते - ३९। कर्णाटकस्य १४, उत्तरप्रदेशस्य ८ , महाराष्ट्रस्य १० मण्डलेषु परश्वः मतदानं भविष्यति। असं - ५, बीहारः - ५, ओडीषा - ५, छत्तीसगढ़ - ३, वेगः - ३, जम्मुकाश्मीरः - २, त्रिपुरं - १, पुतुश्शेरी - १ एतान्येव द्वितीयकोपाने जनहितकांक्षीणि अन्यानि मण्डलानि
Monday, April 15, 2019
भारते दक्षिण-पश्चिमकालीना वर्षा सामान्येन भविष्यति
नवदिल्ली> कृषिमण्डलेषु समाश्वासं वितरति इदम् आवेदम्। अस्मिन् संवत्सरे दक्षिण-पश्चिमकालीना वर्षा सामान्यतया भविष्यति इति वातावरण-निरीक्षण-केन्देण आवेदितम्। दीर्घकालीन-मापानाङ्कस्य ९६% वृष्टिः भविष्यति इति भूवैज्ञानिक विभागसचिवः राजीवः दिल्याम् आयोजिते वार्ताहरमेलने अवदत्।
जूण् मासतः सेप्तम्बर् मासपर्यन्तं भवति दक्षिण-पश्चिम वर्षाकालः। राष्ट्रस्य अर्धाधिकभागस्य भूमेः जललब्धिः दक्षिण-पश्चिम वर्षाकालम् आश्रित्य भवति।
Sunday, April 14, 2019
यू ए ई राष्ट्रे शक्ता वर्षा- जाग्रता निर्देशः प्रसारितः।
दुबाय्> मेघगर्जनेन सौदामिन्या सहितायां महत्यां वृष्ट्यां निमज्जितं यु ए ई राष्ट्रम्। विविध भागेषु वातः वृष्टिः च अनुवर्तते इति कारणेन रविवासरस्य पूर्वाह्ने ११:३० पर्यन्तं जाग्रता सूचना प्रसारिता अस्ति। शनिवासरात् आरभ्य अनुवर्तिता भवति वृष्टिः। वृष्ट्या सह करकाः (Hali) अपि पतितानि। पूर्वदेशेषु एदन् अल्गयिल्, प्रदेशेषु विद्यमानेषु गिरिशिखरेषु मेघविस्फोटः अभवत्। गतागतसुविधा स्थगिता।
दिनद्वयात् पूर्वं अन्तरिक्षः मेघाच्छादितः आसीत्। मध्याह्ने एव आतपः। अन्यस्मिन् काले शीतवातस्य वीजनम् आसीत्। इदानीं सर्वकारेण अतिसुरक्षाप्रक्रमाः स्वीकृताः।Saturday, April 13, 2019
जालियन् वालाबाग् वधम् - १०० संवत्सराणि अतीतानि।
तस्मिन् दिने १५०० निरपराधि जनाः हताः। स्वतन्त्रताभिवाञ्छया जालियन् वाला बाग् चत्वरे समागताः समान्यजनाः ब्रिट्टणस्य सैनिकनेतृणा रजिनाल्ड डयर् नामकेन गोलिकाशस्त्र प्रयोगेण निहताः। १९१९ एप्रिल् १३ वैशाखिदिने आसीत् तत्।
सर्वं स्मरिष्यामः ।भारतस्य स्वातन्त्र्यं पालयिष्यामः ।
भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति- राजनाथ सिंहः।
नवदिल्ली> राष्ट्रविद्रोहनियमः निराकरिष्यते इत्युक्त्वा प्रकाशितं कोण्ग्रस् दलस्य सङ्कल्पपत्रिकां विरुद्ध्य केन्द्र आभ्यन्तरमन्त्रिणा राजनाथसिंहेन स्वस्य विरुद्धाभिमतः प्रकाशितः। भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति इति तेन उक्तम्। गुजरात् राज्यस्थ कच् देशे सामायोजिते निर्वाचनपदसञ्चलने भाषमाणः आसीत् सः।
अष्टोत्तरशतं दीपप्रज्वलनेन संस्कृताचार्यस्य अष्टोत्तरशततमः जन्मदिनाघोषः।
के पि अच्युतपिषारटि। |
पट्टाम्पी > संस्कृतप्रचारः जीवितव्रतत्वेन स्वीकृतवतः आचार्यस्य १०८तमं जन्मदिनं अक्षरदेवतायाः पुरतः १०८ दीपान् प्रज्वाल्य आघुष्टम्। के पि अच्युतपिषारटि नामकः वन्द्यवयोधिकः इदानीमपि संस्कृतभाषाप्रचाराय मग्नः भवति। प्रतिदिनं अनेकाः शिष्याः 'पुतुश्शेरि मन' नामके तस्य भवने सन्देहनिवारणाय नवज्ञानार्जनाय च तम् उपगच्छन्ति। शिष्याणां परिवाराङ्गानाम् अभ्युदयकाङ्क्षिणां च नेतृत्वे कोटुमुण्ट मण्णियम्पूर् सरस्वतीमन्दिरे आसीत् १०८ दीपानां प्रज्वालनम्।
पण्डितराज इति प्रख्यातस्य पुन्नश्शेरि नीलकण्ठशर्मणः शिष्येषु वयोभिः ज्येष्ठतमो भवति के पि अच्युतपिषारटिः। यशःशरीरः संस्कृतपण्डितः ग्रन्थकारश्च के पि नारायण पिषारटिः तस्य ज्येष्ठः आसीत्। बाल्ये ज्येष्ठ आसीत् देववाण्यां तस्य गुरुः। अनन्तरं पुन्नश्शेरि नम्पिनः 'सारस्वतोद्योतिनी' नामिकायां पाठशालायां संवत्सरचतुष्टयं संस्कृतं पठित्वा 'साहित्यशिरोमणि' बिरुदं संप्राप्तवान्।
ततः तृप्रयार् पेरिङ्ङोट्टुकर विद्यालये संस्कृताध्यापनेन अच्युतपिषारटि वर्यः स्वस्य संस्कृतसपर्यां प्रारब्धवान्। अनन्तरं सप्त वा अष्ट विद्यालयेषु सः औद्योगिकवृत्तिरूपेण संस्कृतामृतं पर्यवेषयत्। विरामानन्तरं स्वभवनमेव पाठशालामकरोत्। ततः इदानीमपि शिष्येभ्यः ज्ञानसुधा प्रवहति।संस्कृतसाहित्य व्याकरणादिषु शास्त्रेषु तस्य अगाधं पाण्डित्यमास्वाद्य शिष्याः अभिरमन्ति च।
Friday, April 12, 2019
लोकसभा-निर्वाचनस्य प्रथमसोपानम् समाप्तम्। आन्ध्राप्रदेशे आक्रमणेषु द्वौ हतौ।
नवदिल्ली> लोकसभा निर्वाचनस्य प्रथम सोपानं सम्पन्नम्। २० राज्येषु ९१ मण्डलेषु एव अद्य मतदान मभवत् । लब्धां गणनाम् अनुसृत्य सिक्किं ६०% मिसोरम् ६०% नागालान्ट् ७८%, मणिपुरम् ७ ८.२%, त्रिपुर ८१%, असं(५) ६८%, प. बंगाल् (२) ८१ %, आन्टमान् निक्कोबार् (१) ७०.६७%, आन्ध्रं (२५) ६६ %, उत्तराखण्डम् (५) ५७.८५%, जमुकाश्मीर् (२) ५४.४९%, तेलङ्काना (१५) ६०%, छत्तीस् गढ् (१) ५६%, अरुणाचल् (२) ६६%, बिहार् (४) ५०%, लक्षद्वीप् (१) ६६%, महाराष्ट्रम् (७)५६%, मेघालयम् (२) ६७.१६%, ओडीषा (४) ६८%, यु पि (८) ६३६९% इति क्रमेण अस्ति मतदान स्थितिः।
आन्ध्राप्रदेशे दुरापन्ने कलहे द्वाै निहतौ। वै एस् आर् कोण्ग्रस् टी डी पि दलयोः प्रवर्तकौ भवतः एतौ।Thursday, April 11, 2019
लोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य।
कोच्ची > सप्तसोपानयुतस्य भारतलोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य सम्पद्यते। विंशति राज्येषु ९१ मण्डलेष्वेव मतदानविनियोगः। तथा च त्रयाणां राज्यानां विधानसभानिर्वाचनमपि अद्य सम्पद्यते।
आन्ध्राप्रदेशस्य आहत्य ४०मण्डलेषु २५ मण्डलेषु अद्य निर्वाचनं भविष्यति। तेलुङ्कानस्य १७, उत्तरप्रदेशस्य ८, महाराष्ट्रस्य ७, असमराज्यस्य ५, उत्तराखण्डस्य ५ मण्डलेषु च अद्य जनाधिकारः विनियुज्यते। अद्यैव जनहिताय प्रतीक्ष्यमाणानि इतराणि राज्यानि मण्डलानि च - बीहारः [४], ओडीषा [४], अरुणाचलप्रदेशः [२], मेघालयः [२], पश्चिमवंगः [२], जम्मुकाश्मीरः [२], छत्तीसगढ़, मणिप्पूर्, मिसोराम्, नागालान्ट्, सिक्किम्, त्रिपुरं, अन्तमान्-निक्कोबार्, लक्षद्वीपः [एकैकं] च। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः सिक्किम राज्येषु विधानसभानिर्वाचनानि च अद्य प्रचलन्ति।
Subscribe to:
Posts (Atom)