OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, November 6, 2018
Monday, November 5, 2018
ऋणं स्वीकृत्य निलीय वासं कुर्वतां पट्टिका न प्रदत्ता-
आर् बि ऐ वित्तकोशाय केन्द्रीय सूचनायोगस्य सूचनापत्रम्।
नवदिल्ली> भारतीय रिसर्व् बैंकस्य निर्वाहकाय ऊर्जित पट्टेलाय केन्द्रीय सूचानायाेगेन कारणं वक्तुं पत्रं प्रेषितम्। ऋणं स्वीकृत्य प्रत्यर्पणविमुखानां पट्टिका बहिः प्रकाशनीया इति सर्वोच्चन्यायालयस्य आदेशं प्रति अनादारं कृतवान् इत्यनेनैव पत्रं प्रेषितम्। पञ्चाशत् कोटिरूप्यकाणि ततः उपरि च ऋणं स्वीकृत्य प्रत्यर्पणे विमुखानां नाम प्रकाशनीयः इत्यासीत् न्यायालयस्य आदेशः। ✔
पाक् चाराय सुप्रधानविवरणाणि प्रदत्तानि - बि एस् एफ् सैनिकः गृहीतः।
पञ्चाब्> सीम्नः सुरक्षारोधाणां मार्गाणां च चित्रैःसह विवरणानि पाकिस्थानाय प्रदत्तानि इत्यनेन सीमासैनिकः गृहीतः। षेय्क् रियासुद्दीन् नामकः एव बि एस् एफ् बौद्धिकप्रमुखैः गृहीतः। मासान्तराणि यावत् एषः बौद्धिकप्रमुखानां निरीक्षणे आसीत्। महाराष्ट्रस्थे लातूर् जनपदस्थे रेनपुरदेशीयः भवति एषः रियासुदीनः। द्वौ करदूरवाण्यौ सप्त 'सिम्' पत्रं च अस्य पार्श्वतः गृहीतः। पाकिस्थानस्य गुप्तान्वेषण विभागस्य प्रणिधये सिराज् फैसल नामकाय एव अनेन विवरणानि प्रदत्तानि।✔
केरलीयविद्यालये छात्रनायकः नेपालदेशीयः।
कोच्ची> माङ्कायि सर्वकारविद्यालये छात्रनायकस्थाने नेपालदेशीयः चितः। काठ्मण्डु स्वदेशी समीरः भवति एषः। दशमकक्ष्यायाः छात्रः भवति अयम्। विद्यालयछात्रनेतुः स्थाने प्रप्रथमतया भवति विदेशराष्ट्रपौरस्य प्रवेशः।
एषः सकुटुम्बं केरलम् आगत्य चत्वारि वर्षाणि अतीतानि। अत्र आगत्य वर्षचतुष्टयेन मलयालभाषायां सामान्य ज्ञानमपि सम्प्राप्तम्। तस्य अनुजौ अपि अस्मिन्नेव विद्यालये पठतः। पिता त्रिप्पूणितुरा देशे अवक्षिप्तवस्तूनां समाहरणं कुर्वन्नस्ति।
(छायाग्रहणम् - मलयालमनोरमा)✔
(छायाग्रहणम् - मलयालमनोरमा)✔
Sunday, November 4, 2018
पलास्तिकनिर्मार्जनेन पारिस्थितिक सुस्थितिः
-बिजिलाकिषोरः
भुवनेश्वरम्> ओडीषा सर्वकारेण भुवनेश्वरम्, कटक्, बर्हापुरम्, साम्पाल् , रूर्केला, पुरीत्यादिषु पञ्चसु नगरेषु ५० मैक्रोणतः अधः विद्यमानाः पलास्तिकस्यूताः तिरस्कर्तुं निश्चतमस्ति। नियमलंघनं कृतानां गृहाणां पक्षतः २००, ५००, १००० इति क्रमेण शुल्कः स्वीक्रियते। आपणात् ५००, १०००, २००० एवं भक्षणशालातः १०००,२०००,५००० च स्वीक्रियते। सर्वैरपि नियमाः पालनीयाः इति अधिकारिणः उद्घोषितवन्तः।✔
श्रीलङ्का - विधानसभासम्मेलनं बुधवासरे इति सभापतिः।
कोलम्बो > शासनप्रतिसन्धिः विद्यमाने श्रीलङ्काराष्ट्रे नवम्बर् सप्तमदिनाङ्के विधानसभामेलनम् आयोजयिष्यतीति सभापति कारु जयसूर्यः अवदत्। एतदर्थं राष्ट्रपतेः मैत्रीपालसिरिसेनस्य निर्देशः लब्ध इति तेनोक्तम्।
रनिल् विक्रमसिंहं प्रधानमन्त्रिपदात् निष्कास्य राष्ट्रपतिः, महिन्द राजपक्से नामकं तत्स्थाने नियुक्तवान् इत्यनेन राष्ट्रे सञ्जातः शासनप्रतिसन्धिः कलुषितः अनुवर्तते।✔
हरितपत्रं - कार्कश्यनिर्णये मृदुत्वं स्वीकृत्य ट्रम्पः।
वाषिङ्टण् > अधिनिवेशिताभ्यां स्थिरवासाय अनुज्ञां दीयमानां हरितपत्रिकां [ग्रीन् कार्ड्] निरस्तुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन पूर्वस्वीकृते कर्कशनिर्णये तस्य अधुना किंचित् मृदुसमीपनं। बहुसंवत्सरैः प्रतीक्ष्यमाणानां लक्षशः अधिनिवेशितानां कृते हरितपत्राङ्गीकरणविषये पुनर्वीचिन्तनं भवति, तेषां विषये यत् कर्तव्यं, तत् निर्वहणं सर्वं सम्पन्नम् इति ट्रम्पेणोक्तम्।
षट् लक्षात्परं भारतीयेभ्यः आश्वासदायकः पदक्षेपो भवत्ययम्। एप्रिल् मासस्य गणनामनुसृत्य ६,३२,२१९ जनाः हरितपत्रं प्रतीक्ष्यमाणाः सन्ति। तेषु अनेके बहुसंवत्सरेभ्यः पूर्वमेव अपेक्षितवन्तः। तेभ्यः स्थिरवासाय अनुज्ञा अचिरादेव लप्स्यते। स्वस्य नयप्रख्यापनप्रभाषणे ट्म्पेण विशदीकृतम्।✔
Saturday, November 3, 2018
शबरिगिरौ अद्य आरभ्य निरोधाज्ञा।
पत्तनंतिट्टा > 'चित्रा आट्टविशेषपूजा' इति अनुष्ठानविशेषाय सोमवासरे सायं शबरीशमन्दिरं आराधनाय उद्घाट्यते। अद्य आरभ्य दिनत्रयपर्यन्तं सन्निधानं परिसरप्रदेशाश्च अतिसुरक्षामण्डलरूपेण प्रख्यापिताः। वटश्शेरिक्करा , निलय्कल् , इलवुङ्कल् , पम्पा , सन्निधानं एषु प्रदेशेषु १४४ तम राजशासनसंहितामनुसृत्य निरोधाज्ञा प्रख्यापिता।
सर्वोच्चन्यायालयस्य युवतीप्रवेशानुकूलं विधिम् पुरस्कृत्य अत्र सङ्घर्षः वर्तते इत्यस्मात् कारणादेव ईदृशः आदेशः।✔
उद्योग-समारंम्भकेभ्यः मोदिनः दीपावली दिनपारितोषिकम् - ५९ निमेषाभ्यन्तरे कोटि रूप्यकाणि ऋणरूपेण प्रदास्यते।
नवदिल्ली> लघुव्यापार-समारम्भकाणां कृते नवपञ्चाशत् निमेषेभ्यन्तरे कोटि रूप्यकाणि ऋणरूपेण प्रदातुं योजना प्रख्यापिता। दीपावलीदिन-पारितोषिकरूपेण भवति प्रधानमन्त्रिणः मोदिनः इदं ख्यापनम्। अतिवेगेन ऋणधनप्राप्त्यर्थं नूतना अन्तर्जालसुविधा सज्जीक्रियते। अनया सुविधया एकहोराभ्यन्तरे ऋणं प्रदातुं शक्यते इति प्रधानमन्त्रिणा उक्तम्।
पण्यसेवनकरविभागे पञ्जीकृतेभ्यः प्रतिशतं द्वयोः रूप्यकयोः न्यूनता शिखावृद्धिक्रमे भविष्यति। एतदपि नूतनसमारंभकेभ्यः केन्द्रसर्वकारस्य दीपावलीदिन-पारितोषिकं भवति इत्यपि मोदिना उच्यते। दिल्ल्यां विज्ञानभवने लघुव्यापारसमारम्भकेभ्यः साहाययोजनायाः उद्घाटनं कृत्वा भाषमाणः आसीत् सः।
Subscribe to:
Posts (Atom)