रथ्यादीपानां स्थाने कृत्रिमचन्द्रं निर्मातुं चीनेन प्रयतते।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Monday, October 22, 2018
आरक्षकस्मृतिदिने कण्ठस्तम्भितो भूत्वा प्रधानमन्त्री।
नवदिल्ली> आरक्षकस्मृतिदिने आरक्षकाणां त्यागं बलिदानं च स्मृत्वा प्रधानमन्त्री नरेन्द्रमोदी।
दिल्लीस्थे चाणक्यपुरे राष्ट्रिय आरक्षकस्मृतिमण्डपस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः। आरक्षक सेनायाः त्यागपूर्ण जीवितमधिकृत्य भाषणावसरे तस्य कण्ठः स्तम्भितः। स्वस्य भाषणं मुहूर्तं स्थगयित्वा सदसि सः तूष्णीमतिष्ठत्।
जम्मु-काश्मीरे शान्तिं प्राप्तुं प्रयत्नं कृतवतः, आतङ्कवादान् विरुद्ध्य युद्धं कृतवतः सैनिकान् स्मरणीयोः दिनमिदम्। धीरान् सैनिकान् आरक्षकसेनाः प्रति राष्ट्रं ऋणबद्धं भवति इत्यपि मोदिना उक्तम्। प्रतिसंवत्सरम् ओक्टोबर् मासस्य २१ तमे दिनाङ्के भवति राष्ट्रियारक्षक-दिनाचरणम्।Sunday, October 21, 2018
भारतीपूजा सुसम्पन्ना
बिजिलाकिषोरः
तामरश्शेरी > तामरश्शेरी स्थानीयसमित्याः भारतीपूजा कार्यक्रमः रविवासरे प्रातः तामरश्शेरि लक्ष्मीनारायणमन्दिरे अभवन्। संस्कृतभारत्याः उत्तरसम्भागस्य कार्यदर्शी श्री रणजित् महाभागः मुख्यभाषणं कृतवान्। यत्र संस्कृतं नास्ति तत्र संस्कृतिः न भवति, अखण्डभारतस्य निर्मितिः तदा एव भवति यदा सर्वै सस्कृतेनभाषणं करोति। कार्यक्रमेस्मिन् पञ्चाशदधिकाः भागं गृहीतवन्तः। स्थानीयसमितेः अध्यक्षः श्री दामोदरः अध्यक्षपदमलंकृतवान्।कार्यदर्शी श्री उण्णिकृष्णः स्वागतं श्री जयदेवः कृतज्ञतां च समर्पितवन्तौ।
नवदिल्ली > कोण्ग्रस् दलस्य विरिष्ठनेता तथा उत्तरप्रदेशस्य उत्तरखण्डस्य च भूतपूर्वः मुख्यमन्त्री एन् डि तिवारी [९३] हृदयाघातेन दिवं गतः। संवत्सराधिकेन सः रोगशय्यावलम्बी आसीत्।
अविभक्ते उत्तरप्रदेशे तिवारी त्रिवारं मुख्यमन्त्रिपदम् अलङ्कृतवान्। ततः उत्तरखण्डराज्यस्य मुख्यमन्त्री अभवत्। राजीव् गान्धिनः प्रधानमन्त्रित्वस्य अधीने केन्द्रमन्त्रिसभायां आर्थिक-वाणिज्य-विदेशकार्यविभागेषु मन्त्री आसीत्। आन्ध्रप्रदेशस्य राज्यपालपदं च अनेनालंकृतम्।
कृषकाणां ऋणधनम् बच्चन् महोदयेन प्रत्यर्पयते।
यु पि राज्यस्य ८५० संख्यकानां कृषकाणां वित्तकोशस्य ऋणधनम् अमिताभ् बच्चन् महोदयेन प्रत्यर्पयते।
मुम्बै> उत्तर प्रदेशस्य कृषकेभ्यः शान्ति-वाक्यमुक्त्वा महानटः अमिताभ् बच्चन् महोदयः। यु पि राज्यस्य ८५० कृषकाणां धनऋणानि अमिताभ् बच्चन् महोदयेन प्रत्यर्पयन्ते। समीपकाले महाराष्ट्रस्य ३५० कृषकाणां ऋणानि तेन प्रत्यर्पितानि इति महोदयस्य 'ब्लोग्' माध्यमतः ज्ञायते। स्वस्य ईदृशप्रवर्तनानि आराष्ट्रं कर्तुं प्रत्नः करोति इति तेन ब्लोग् माध्यमे लिखितम्।Saturday, October 20, 2018
मान् बुक्कर् पुरस्कारः अन्ना बेण्सिन् कृते।
- रम्या पी यू।
लण्डन्- अस्य वर्षस्य मान् बुक्कर् पुरस्कारः उत्तर अयर्लण्डस्थायै लेखिकायै अन्ना बेण्स् कृते। "मिल्क् मान्"(क्षीरविक्रेता) इति परीक्षणात्मकधारावाहिन्यै पुरस्कारः प्राप्तः। बुक्कर् पुरस्कारेण आद्रियमाणा प्रप्रथमा ऐरिष् लेखिका भवति अन्ना। लण्डने गैड्शालायाम् प्रवृत्ते कार्यक्रमे ब्रिटिशकिरीटाधिकारिणः चाल्सस्य भार्या कामिला पारकरः अन्नायै पुरस्कारं समर्पितवती। पञ्चाशत् सहस्रम्(५००००) ब्रिटिशपौण्ड् एव पुरस्कारधनम्। ब्रिटणतः अमरीकातः च द्वौ लेखकौ कानडातः एकश्च अन्नया सह पुरस्काराय अन्तिमपट्टिकायाम् आसन्। बेल्फास्ट् स्वदेशिन्याः अन्नायाः तृतीया धारावाहिनी भवति "मिल्क्मान्"। ऐरिष्पश्चात्तले प्रवृत्ता कथा एव धारावाहिन्याः इतिवृत्तम्।
राजस्थाने सिक्का रोगाणुबाधितानां संख्या १०९ अतिगता
जयपुरम् > राजस्थाने सिक्का रोगग्रस्तानां संख्या नवाधिकशतम् अधिगताः। जयपुरे नूतनतया नवाः रोगग्रस्थाः। एक नवति रोगिणः समीचीनया चिकित्सया रोगान्मुक्तिः अभवत् इति राज्यस्थरीय स्वास्थ्यविभागेन आवेदितम्। रोगसंक्रमितप्रदेशेषु मशकनाशक प्रवर्तनानि त्वरितरीत्या क्रियन्ते। राज्य राजधानीसमीपे शस्त्रीनगरे एव रोगाणु सङ्क्रमः अधिकतया व्याप्तःI सेप्तम्बर् मासस्य २१ दिनाङ्के आसीत् राजस्थानस्य सिकारोगाणु सङ्क्रमणस्य प्रथमावेदनम् बहिरागतम्। ईडिस् ईजिप्ति मशकाः सिकारोगाणुव्यापनं कुर्वन्ति। गर्भवत्यः स्त्रियः एव अणुव्यापनेन अधिकतया पीडिताः।
Friday, October 19, 2018
पञ्चाबे रेल् यानदुर्घटना - ५० अधिकाः जनाः हताः।
अमृतसर् > पञ्चाबराज्ये अमृतसरसमीपे धोबीघाट् मध्ये महती रेल् यानदुर्घटना। अत्र सम्पन्ने दसरा आघोषवेलायां रेल् यानं जनसमूहं प्रति उत्प्रविश्य पञ्चाशदधिकाः जनाः हताः। आघोषमनुबन्ध्य रावणरूपं रेल् मार्गे अग्निसात्क्रियमाणम् आसीदिति श्रूयते।
धोबीघाट् मध्ये सायं ६.३० वादने आसीत् दुर्घटना। तत्र इदानीं महान् जनरोषः अनुभूयते।
सीमारक्षणाय नूतनविद्या, २४ होरापर्यन्तम् सुरक्षाकार्याय घटीबन्धनं नावश्यकम्।
बिक्कानीर् >सीमारक्षणाय नूतनविद्यायाः नियोजनायै केन्द्रसर्वकारः उद्युक्तो भविष्यति इति आभ्यन्तरमन्त्रिणा राजनाथसिंहेन उक्तम् । अनेन अहर्निशं सुरक्षायै सैनिकानां क्लेशः लधूकर्तुं शक्यते । जम्मुकाश्मीरे प्रयोगं कृत्वा विजयं प्रप्ता भवति (Integrated boarder management system)इयं विद्या। सीमा सैनिकान् प्रति अयुधपूजापर्वणि भाषमाणः आसीत् राजनाथसिंहः। सीमायां परिधायकं निर्माय सीमापालनं सुकरं सफलं च मा भविष्यतः I किन्तु नूतनातन्त्रांशविद्या सीमारक्षणं पूर्णतया सफलं करिष्यति इत्यपि मन्त्रिणा उक्तम्।
Thursday, October 18, 2018
युवतीप्रवेशः - शबरिगिरौ सङ्घर्षः , निरोधाज्ञा।
पम्पा > शबरीशमन्दिरे अपि वयोभेदं विना महिलाः प्रवेष्टुम् अर्हाः इति सर्वोच्चन्यायालयस्य विधिं प्रतिरुध्य शबरिगिरिपरिसरे सङ्घर्षान्तरिक्षः। सङ्घर्षः परिधिम् उल्ललंघयत् इत्यतः चतुर्षु प्रदेशेषु जनपदाधिकारिणा निरोधाज्ञा प्रख्यापिता।
निलक्कल् , इलवुङ्कल्, पम्पा , सन्निधानम् इत्येतेषु प्रदेशेषु एव निरोधाज्ञा उद्घोषिता। ह्यः निलक्कल् प्रदेशे सम्पन्ने सङ्घर्षे चतस्रः वनिताः अभिव्याप्य ११ माध्यमप्रवर्तकाः आहताः। अधुनातनकाले वर्तमानान् आचारान् उल्लङ्घयन् शास्तृदर्शनं कर्तुम् काश्चन महिलाः आगतवत्यः इति संघर्षस्य हेतुः।
Subscribe to:
Posts (Atom)