मृत्युः एकादश जातः। हिमाचलराज्ये प्रलये बस् यानानि गतानि।
षिंला->हिमाचल प्रदेश राज्ये शनिवारादारभ्य जातया अतिवृष्ट्या जाते प्रलये एकादशजनाः मृताः।प्रलये विनोदयात्रा बस् यानं अप्लवत्।स्थगितं यानं जलमर्देन नद्यां अपतत्। तानि दृश्यानि समूहमाध्यमेषु प्रसारयन्ति।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, September 27, 2018
लूक्का मोड्रिच्च् 'फिफा'याः श्रेष्ठक्रीडकः।
लण्टन् > अस्मिन् संवत्सरे भुवनस्य श्रेष्ठतमः पादकन्दुकक्रीडकः क्रोडयेष्यादलस्य मध्यभागक्रीडकः लूक्का मोड्रिच्च्! लण्टन् नगरे फिफासंस्थया एवायं पुरस्कारः प्रख्यापितः । रष्या भुवनचषक-पादकन्दुकक्रीडायां क्रोयेष्यादलस्य अन्तिमपादप्राप्तेः तथा 'रयल् माड्रिड्' दलस्य चाम्प्यन्स् लीग् विजयस्य च कारणभूतः आसीदयं त्रयस्त्रिंशत् वयस्कः।
श्रेष्ठा वनिताक्रीडकपुरस्कारं ब्रसील् राष्ट्रस्य वनिताक्रीडकदलस्य नायिका मार्ता वियेरा डासिल्वा इत्याख्या प्राप्तवती।
दण्ड्यापराधव्यवहारवर्तिनः अपि स्पर्धासमर्थाः भवेयुः - सर्वोच्च न्यायालयः।
नवदिल्ली > सर्वेच्चन्यायालयस्य शासनसंविधानपीठेन विहितं यत् ये दण्ड्यापराधव्यवहारेषु उपधाम् अभिमुखीकुर्वन्ति तान् निर्वाचनप्रतिस्पर्धायाः निवारयितुं न शक्यते। यतः जनप्रतिनिधिसभायाः अधिकारान् अतिक्रमितुं न्यायालयस्य शासनसंविधानपरो व्याघातः अस्ति। किञ्च तीव्रापराधेषु उपधाविधेयानां नैतिकमण्डलप्रप्तिं अवरोद्धुम् विधानसभया अनुशासनं कार्यम्।राजनैतिकमण्डले वर्तमाना अपराधिनः जनाधिपत्याय भीषा इति स्पष्टीकृतेन नीतिपीठेन तन्नियन्त्रयितुं मार्गनिर्देशा अपि विज्ञापिताः। स्थानाशिनः निर्वाचनाभियोगेन निर्दिष्टे पत्रे तेषां सर्वे वृत्तान्ताः दातव्याः! यदि स्थानाशी कस्यचित् राजनैतिक दलस्य प्रतिनिधिः तर्हि तस्मिन् वर्तमानाः अपराधव्यवहारवृत्तान्ताः सूचयितव्याः!
Wednesday, September 26, 2018
कमान्टर् अभिलाष् टोमी रक्षितः।
'गोल्डन् ग्लोब् रेसिङ्' स्पर्धायाः मध्ये क्षतः नाविकः अभिलाष् टोमी रक्षितः इति नाविक सेनायाः ट्वीट् ट्विट्टर् मध्ये समागतम् । फ्रञ्च् फिषरीस् पेट्रोलिङ् वेसल् ओसरीसेन एव अभिलाषः रक्षितः।
इदानीं सह सुरक्षितः इति नाविकसेनया विशदीकृतः। फ्रञ्च् मत्स्य बन्धनयानात् आस्ट्र्डां द्वीपे सः नीतः। चिकित्सादिकाः आरब्धाःI पटनौकायाः पटदण्डः भग्नीभूय मध्यभङ्गेन पीडितः अस्ति अतः 'स्ट्रच्यर्' आवश्यकम् इति फ्रान्स् राष्ट्रस्य धावन नियन्त्रण संस्थां प्रति न्यवेदित वानासीत् ।
अतिवृष्टिः,जलोपप्लवेन तटाकात् रासमालिन्यानि उत्स्रवति।
-बिजिलाकिषोरः
बेङ्गलूरु> सोमवासरे प्रवृत्तातायां अतिवृष्ठ्यां बलन्धूर् तटाकः जलपूर्णः जातः। ततः रासमालिन्यायुक्तजलं वीथ्यां अपतत्। रासमालिन्यस्य दुष्प्रभावेन तटाकस्य जलं फेनकायते । रास प्रवर्तनेन वायुः मलिनीकृतम्, वाहनचालनं दुष्करमभवत्।
नगरे विद्यमान मलिनीकृततटाकः भवत्ययम्। अस्य पार्श्वे १४०० कोटि रूप्यकस्य पानजलपद्धतिः अपि वर्तते। सरसितः अग्निबाधा सर्वसाधारणं भवति। ५००० सैनिकानां सप्तहोरापर्यन्तप्रयत्नेन एव जनुवरिमासे प्रवृत्तातायाः अग्निबाधायाः निवारणमभवत्।
रेलयाने स्त्रीणाम् प्रति अतिक्रमः उग्रदण्डनं स्यात्।
रम्या पी यू।
नवदिल्ली > रेलयानेषु स्त्रियः उपरि अतिक्रमं कुर्वतां कृते वर्षत्रयाणां कारागारवासं प्राप्तुं व्यवस्था क्रियमाणा वर्तते। एतदनुबन्धनिवेदनं रेलसंरक्षणसेना (आर् पी एफ्) अङ्गीकाराय समर्पयत्। ये तथा अतिक्रमं कुर्वन्ति तेषामुपरि कर्कशदण्डनं विधातुम् अनुमतिः आवश्यकी इति तेषाम् अभिप्रायः। एतदर्थं विद्यमानरेलनियमेषु परिवर्तनं स्वीकरणीयेति आर् पी एफ् आवश्यमुन्नयति।
अधुना रेलयाने स्रीणामुपरि अतिक्रमाय दीयमानं दण्डनम् भारतदण्डननियमानुसारम् (ऐ पी सी) भवति। एवंकृतः अक्रमी अधिकतमतया एकवर्षस्य दण्डनम् एव अधुना सहते। रेलयाने स्त्रीणामुपरि अतिक्रमाः वर्धिताः इत्यस्मात् एषः निर्देशः। निर्देशे अङ्गीकृते नाम रेलारक्षकाणां साहाय्यं विनैव अक्रमिणः उपरि दण्डनविधिम् निर्देष्टुम् आर् पी एफ् शक्नोति।
Tuesday, September 25, 2018
युवकस्य अनियन्त्रित-द्विचक्रिका चालनेन
राजवीथ्यां वाहनापघातः
-बिजिलाकिषोरः
कोट्टयम् > मूवाटुपुष़ माराडिदेशे युवकस्य नियन्त्रणाधीत द्विचक्रिका चालनेन वाहनापघातः जातः। अपघातानन्तरं आतुरालयगमनकाले युवकस्य मृत्युः अभत् । सर्ववकारस्य ( के एस् आर् टी सी) यानेन सह असीत् द्वि चक्रिरिकायाः घट्टनम्। यानं सम्पूर्णतया अग्निना नाशितम्।बस् याने विद्यमानाः यात्रिकाः प्रदेशवासिभिः रक्षिताः। मूवाटुपुष़ातः कोट्टयपर्यन्तं गम्यमान यानमासीत् इदम्। इन्धनसम्भरणीतः डीसल् बहिर्निसृमिति ज्वलनस्य कारणम्। अग्निशमनसेनायाः अवसरोचित- प्रयत्नेन दुरन्तस्य व्याप्तिः न्यूनीकृता।
हिमाचलप्रदेशे शक्ता वर्षा, भूपातश्चI
षिम्ल > वृष्टिदुरितात् भीत्या हिमाचल प्रदेशः। अविरतं वर्षन्तं वृष्ट्यां राज्यस्य विविधभागेषु जलोपप्लवः भूपातः च अभवताम्। पृथक् भूयस्थाषु बन्धितान् मोचितुं रक्षाप्रवर्तनानि अनुवर्तन्ते। प्रधाननद्यः कूल्याः च सम्पूर्णाः अभवन्। अष्ट जनपदेषु विद्यालयानां विरामः ख्यापितः इति वार्ताहरसंस्थया ए एन् ऐ द्वारा आवेदितम्।Monday, September 24, 2018
आयुष्मान् भारतयोजना प्रधानमन्त्रिणा मोदिना उद्घाटिताl
राञ्ची > सर्वकारस्य अधीने विद्यमानासु परियोजनासु भुवनस्य बृहत्तमा योजनेति विशेषेण 'आयुष्मान् भारत् - प्रधानमन्त्री जन आरोग्य योजना' (A B - P M J A Y) प्रधानमन्त्रिणा नरेन्द्रमोदिना समुद्घाटिता। लोके सर्वत्र विद्यमानाः गवेषकाः सामाजिकशास्त्रज्ञाश्च इमां परियोजनाम् आदर्शों कारयिष्यन्तीति उद्घाटनसमारोहे प्रधानमन्त्रिणा प्रोक्तम्। पण्डित दीनदयालु उपाध्यायस्य जन्मदिने, सेप्टम्बर् २५ दिनाङ्के योजनेयं प्राबल्ये भविष्यति। आर्थिकमण्डले पराङ्मुखे वर्तमानेभ्यः पञ्चाशत्कोटि भारतीयेभ्यः आरोग्यक्षेमविधानपरिरक्षां प्रमाणीकरोत्यनया योजनया।
योजनाव्ययस्य ६०% केन्द्रसर्वकारेण, ४०% राज्यसर्वकारेण च धार्यते।२२ राज्येषु केन्द्रशासनप्रदेशेषु अपि अस्याः प्रारम्भप्रवर्तनानि आरब्धानि।
Sunday, September 23, 2018
संस्कृताध्ययनाय केन्द्रसर्वकारीय साहाय्यः
नवदिल्ली > विविधकक्ष्यासु संस्कृतं अध्येतृभ्यः छात्रवृत्तिः लभते मानवविभव - मन्त्रालयस्य नियन्त्रणे विद्यमानेन राष्ट्रिय संस्कृतसंस्थानम् इति विश्वविद्यालयेन सह योजनेऽयं समारभ्यते। गतवर्षादारभ्य संस्कृताध्ययनं कुर्वतः अस्मिन्वर्षे अध्ययनम् अनुवर्तमाणः छात्राणां कृते एव छात्रवृत्तिः। प्रतिशतं षष्ट्यङ्कगृहीताः एव अर्हाः। पृष्टतः विद्यमानेभ्यः ५५% पट्टिक विभागे अन्तर्गतेभ्यः ५०% अङ्कः च आवश्यकः।
अङ्गीकृतविद्यालयाः ओक्तोबर् ३१तम दिनाङ्कतः पूर्वं पञ्जीकरणं कार्यम् । छात्राणां कृते पञ्जीकरणय नवंबर् ९ दिन पर्यन्तं समयः अस्ति।
छात्रवृत्ति क्रमः९-१०- २५०
प्राक्शास्त्री / +२ - ३००
शास्त्री / BA - ४००
आचार्य /MA - ५००
विद्यावारिधि /PHD - १५००
इति क्रमेण प्रतिमासं लभते I दूरवाणी - ०११-२८५२२४९९३, संबन्ध्य २२९ , Email- rskssch@yahoo.com , अन्तर्जालद्वारा पञ्जीकरणं कार्यम्। अन्तर्जालसङ्केतः -www.sanskrit.nic.in www.scholarship.nic.in
Subscribe to:
Posts (Atom)