हिमाचलप्रदेशे शक्ता वर्षा, भूपातश्चI
षिम्ल > वृष्टिदुरितात् भीत्या हिमाचल प्रदेशः। अविरतं वर्षन्तं वृष्ट्यां राज्यस्य विविधभागेषु जलोपप्लवः भूपातः च अभवताम्। पृथक् भूयस्थाषु बन्धितान् मोचितुं रक्षाप्रवर्तनानि अनुवर्तन्ते। प्रधाननद्यः कूल्याः च सम्पूर्णाः अभवन्। अष्ट जनपदेषु विद्यालयानां विरामः ख्यापितः इति वार्ताहरसंस्थया ए एन् ऐ द्वारा आवेदितम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, September 25, 2018
Monday, September 24, 2018
आयुष्मान् भारतयोजना प्रधानमन्त्रिणा मोदिना उद्घाटिताl
राञ्ची > सर्वकारस्य अधीने विद्यमानासु परियोजनासु भुवनस्य बृहत्तमा योजनेति विशेषेण 'आयुष्मान् भारत् - प्रधानमन्त्री जन आरोग्य योजना' (A B - P M J A Y) प्रधानमन्त्रिणा नरेन्द्रमोदिना समुद्घाटिता। लोके सर्वत्र विद्यमानाः गवेषकाः सामाजिकशास्त्रज्ञाश्च इमां परियोजनाम् आदर्शों कारयिष्यन्तीति उद्घाटनसमारोहे प्रधानमन्त्रिणा प्रोक्तम्। पण्डित दीनदयालु उपाध्यायस्य जन्मदिने, सेप्टम्बर् २५ दिनाङ्के योजनेयं प्राबल्ये भविष्यति। आर्थिकमण्डले पराङ्मुखे वर्तमानेभ्यः पञ्चाशत्कोटि भारतीयेभ्यः आरोग्यक्षेमविधानपरिरक्षां प्रमाणीकरोत्यनया योजनया।
योजनाव्ययस्य ६०% केन्द्रसर्वकारेण, ४०% राज्यसर्वकारेण च धार्यते।२२ राज्येषु केन्द्रशासनप्रदेशेषु अपि अस्याः प्रारम्भप्रवर्तनानि आरब्धानि।
Sunday, September 23, 2018
संस्कृताध्ययनाय केन्द्रसर्वकारीय साहाय्यः
नवदिल्ली > विविधकक्ष्यासु संस्कृतं अध्येतृभ्यः छात्रवृत्तिः लभते मानवविभव - मन्त्रालयस्य नियन्त्रणे विद्यमानेन राष्ट्रिय संस्कृतसंस्थानम् इति विश्वविद्यालयेन सह योजनेऽयं समारभ्यते। गतवर्षादारभ्य संस्कृताध्ययनं कुर्वतः अस्मिन्वर्षे अध्ययनम् अनुवर्तमाणः छात्राणां कृते एव छात्रवृत्तिः। प्रतिशतं षष्ट्यङ्कगृहीताः एव अर्हाः। पृष्टतः विद्यमानेभ्यः ५५% पट्टिक विभागे अन्तर्गतेभ्यः ५०% अङ्कः च आवश्यकः।
अङ्गीकृतविद्यालयाः ओक्तोबर् ३१तम दिनाङ्कतः पूर्वं पञ्जीकरणं कार्यम् । छात्राणां कृते पञ्जीकरणय नवंबर् ९ दिन पर्यन्तं समयः अस्ति।
छात्रवृत्ति क्रमः९-१०- २५०
प्राक्शास्त्री / +२ - ३००
शास्त्री / BA - ४००
आचार्य /MA - ५००
विद्यावारिधि /PHD - १५००
इति क्रमेण प्रतिमासं लभते I दूरवाणी - ०११-२८५२२४९९३, संबन्ध्य २२९ , Email- rskssch@yahoo.com , अन्तर्जालद्वारा पञ्जीकरणं कार्यम्। अन्तर्जालसङ्केतः -www.sanskrit.nic.in www.scholarship.nic.in
प्रवेशनानुमतिं निष्कास्यते
-बिजिला किषोरः
वाषिङ्टण् > आमेरिकाराष्ट्रेट्रेण एच् १ बी प्रवेवनानुमतिपत्रं प्रप्तवतां आश्रितैः दीयमानं एच् ४ उद्योगानुमतिं निष्कासयितुं विचिन्त्यते। तदर्थं कोलंबिया न्यायालये सर्वकारेण विषयमिदं ज्ञापितम्।दशसहस्राधिकान् भारतीयान् स्पृशते अयं परिष्कारः।
२०१५ तः समानरीत्या उद्योगं दत्तवन्तः । ७०००० जनाः एच् ४ अनुमत्या उद्योगं कुर्वन्ति। प्रतिशतं ९४ स्त्रियः अमेरिकायां उद्योगिनः भवन्ति। एच् ४ प्रवेशनानुमतिं जूण् मासतः निरुद्धयते इति यु एस् आभ्यन्तर संस्थया प्रख्यापितम्। ओबामा सर्वकारेण प्रख्यापितम् एच् ४ आश्रितानुतिं ड्रम्प् महोदयेन निष्कास्यते। प्रतिशतं ९० भारतीयाः अनेन दुरितमनुभूयन्ते।
कटनौकाप्रयाणम् - आहतः सञ्चालकः अन्विष्यते।
कोच्ची > कटनौकया भुवनपर्यटनाय प्रस्थितः भारतीयः नाविकः अभिलाष् टोमी नामकः प्रयाणमध्ये भारतमहासमुद्रे दुर्घटनाविधेयः अभवत्। तं रक्षितुं प्रयत्नः आरब्धः।
'गोल्डण् ग्लोब् रेस्' नामकं कटनौकाप्रयाणं , एकाकी सन् कदापि स्थगनं विना समुद्रेण भुवनं परितः भ्रमणं कृत्वा आरब्धस्थानं प्रत्यागम्यमानः स्पर्धाविशेषः अस्ति अस्यां स्पर्धायां भागं स्वीकर्तुं चितः एकैकः एष्यीयः भवति केरलीयः अभिलाष् टोमी। ओस्त्रेलियास्थात् 'पेर्त्' प्रदेशात् त्रिसहस्रं कि मी दूरे एव अभिलाषः दुर्घटनाग्रस्तः अभवत्। १२० कि मी जवेन घट्टिते वाते नौकास्थः स्तम्भः भग्नः सन् अभिलाषस्य शरीरे पतितः। किन्तु सः समुद्रे सुरक्षितः इति ज्ञातमस्ति।
'आयुष्मान् भारतस्य' उद्घाटनम् अद्य।
नवदिल्ली > राष्ट्रिय स्वास्थ्यरक्षा अभियोजना , 'आयुष्मान् भारतम्' प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य झार्खण्डराज्ये उद्घाट्यते।
केन्द्रसर्वकारस्य प्रशंस्यतरा योजना भवतीयम्। राष्ट्रस्य १०.४७ कोटिसंख्याकेभ्यः परिवारेभ्यः प्रतिसंवत्सरं पञ्चलक्षरूप्यकाणां स्वास्थ्यपरिरक्षाप्रदानमेव अस्याः योजनायाः लक्ष्यम्। उद्घाटनस्य अंशतया झार्खण्डराज्यस्य ५७लक्षं जनानां कृते अभियोजनायाः गुणप्राधान्यानि वर्ण्यमानाः लेखाः प्रधानमन्त्रिणा एव प्रेषिताः च।
Saturday, September 22, 2018
द्विचक्रिकाम् अनन्तरं क्रेष्यावः, तदर्थं सञ्चितं भण्डारे स्थापितं धनम् अनुः आञ्जनेयश्च दुरिताश्वासनिधिम् प्रति दत्तवन्तौ।।
रम्या पी यू।
पत्तनंतिट्टा> स्वकीयैका द्विचक्रिका तयोः स्वप्नमासीत्। तदर्थम् पितृभ्यां दत्तानि कानिचिन्नाणकानि निधिसंरक्षणरूपेण भण्डारघटे स्थापितवन्तौ। भण्डारपूर्तिमनुसृत्य द्विचक्रिकासञ्चारस्य स्वप्नयाथार्थ्यदिनाय प्रतीक्षमाणौ चास्ताम्। राज्यनाशकम् प्रलयानन्तरं नवकेरलनिर्माणाय राज्यवासिनःधनांशदानाय सर्वकारेण अपेक्षिताः इति सहोदराविमौ ज्ञातवन्तौ। तदा सङ्कोचं विना कोटुमण् एस् सी वी सर्वकारप्राथमिकविद्यालयस्य द्वितीयकक्ष्याच्छात्रः आञ्जनेयः प्रथमकक्ष्याच्छात्रः अनुः च भण्डारैस्सह विद्यालयम् प्राप्तवन्तौ, दुरिताश्वासनिधये दातुम् अध्यापकहस्ते दत्तवन्तौ च। द्वयोः सम्पाद्यम् आहत्य एकोत्तराष्टशतत्रिसहस्रं रूप्यकाणि। एतदपि संयोज्य आहत्य एतस्मात् विद्यालयात् पञ्चदशसहस्रं रूप्यकाणि दुरिताश्वासनिधये प्रायच्छत्।
Friday, September 21, 2018
यु पि राज्ये अज्ञातज्वरेण ७९ जनाः मारिताः।
लखनौ> उत्तरप्रदेशे गत षट्सप्ताहाभ्यन्तरे अज्ञातज्वरबाधया ७९ जनाः मृताः। स्वास्थ्यविभागेन अत्यधिका जाग्रता ख्यापिता। जनेभ्यः भीतिं निवारयितुं कर्कशप्रक्रमः अपि स्वीकृतः। स्वास्थ्य-विभागस्य नेतृत्वे जनसञ्चयेषु बोधनप्रक्रिया अपि समारब्धा।
बेरेलिदेशे एव अधिके जनाः मृताः। तस्मिन् २४, बदौणि २३, हर्दोियि१२, सीतापुरं ८, बेरैचि ६, पिलिभित्ति ४, षा जहान् पुरि २ इतिक्रमेण भवति मृतानां संख्या। ज्वरस्य व्यापनं निवारयितुं प्रक्रमाः स्वीकृताः इति स्वास्थ्य विभागेनोक्तम्। मृत्युकारणं मृतानां विवरणानि इत्यादीनि निरीक्ष्यन्ते इति स्वास्थविभागमन्त्री सिद्धार्थनाथसिंहः अवदत्। सर्वकार-भिषग्वराणां संघत्रयं रोगबाधितमण्डलेषु नियुक्तम्। अवश्यकानि औषधानि वितरणाय समाहृतानि च।
तलाखत्रितयस्य दण्ड्यापराधकल्पनं - त्वरितादेशाय अनुज्ञा।
नवदिल्ली > विपक्षदलस्य वैरुध्यप्रदर्शनेन राज्यसभायां लग्नं तलाखत्रितयविधेयकं त्वरितादेशाज्ञारूपेण पुनरानेतुं केन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। एकस्मिन्नेव समये त्रिवारं विवाहभग्नकं वाक्यम् (तलाखत्रितयं) उक्त्वा भार्याम् अपास्यते चेत् तत् दण्ड्यापराधो भविष्यति।
वाचा, लिखितेन, 'इलक्ट्रोणिक्' माध्यमैः, जङ्गमदूरवाणीभिः वा एकस्मिन् समये तलाखत्रितयोक्तिः संवत्सरत्रयस्य कारागारवासं द्रव्यदण्डं च लभ्यमानः अपराधः भविष्यति! तलाखत्रितयविधेया महिला जीवनांशार्हा भविष्यति। महिलायाः परिवारस्य वा आवेदनानुसारमेव व्यवहारप्रक्रमः स्यात्! यदि भर्ता अनुरञ्जनाय प्रक्रमते तर्हि न्यायाधीशस्य सान्निध्ये अनुरञ्जनं साध्यते। तलाखत्रितयापराधः आरक्षकेभ्यः प्रातिभाव्यार्हः न भवति। महिलायाः आवेदनश्रवणानन्तरम्आवश्य़कं चेत् न्यायाधीशेन प्रातिभाव्यं दातुमर्हति।
Thursday, September 20, 2018
मुसलमानविभागान् एवं सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वम्- इति मोहनभागवतः।
- रम्या पी यू।
नवदिल्ली> मुसलमानविभागान् तथा सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वमिति राष्ट्रियस्वयंसेवकसङ्घस्य अध्यक्षः मोहनभागवतः। माहम्मदीयानां स्थानराहित्यमिति अवस्था हिन्दुत्वं नास्ति इति सः अवदत्। राष्ट्रिय स्वयं सेवक सङ्घस्य त्रिदिनसञ्चालनस्य द्वितीयदिने भाषमाणः आसीत् सः। हिन्दुत्वमित्युक्ते भारतीयता एव। तच्च सर्वानपि अन्तर्भावयति। समग्रसमाजस्य एकीकरणमेव सङ्घलक्ष्यम्। वसुधैव कुटुम्बकम् सङ्घस्य दर्शनं च। राष्ट्रे जातासु घटनासु सङ्घस्य स्वकीयदर्शनानि वर्तन्ते। किन्तु सर्वकारस्य नयेषु प्रवर्तनेषु वा कदापि न व्यवहरामः। सर्वकारस्य प्रवर्तनानि रा स्व से सङ्घः स्वाधीनीकरोति इति आरोपणानि सः प्राक्षिपद्दूरम्। सङ्घस्य प्रारम्भादेव राजनैतिकात् बहिः तिष्ठामः। सङ्घः कदापि निर्वाचने स्पर्धते। उत निर्वाचनराजनैतिकस्य भागश्च न भवति। कस्यापि राजनैतिकदलस्य भारवाहकाः भवितुं सङ्घप्रवर्तकाः न शक्नुवन्ति सः योजितवान्।
Subscribe to:
Posts (Atom)