OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 11, 2018

    फ्रान्स् अन्तिमपादं प्रविष्टम्। 
मोस्को > २१तमपादकन्दुकमहोत्सवस्य प्रथमे उपान्त्यपादप्रतिद्वन्द्वे   फ्रान्स् दलेन बल्जियं दलं पराजितम्।  प्रत्यादानरहितेन एकेन लक्ष्यकन्दुकेन आसीत् फ्रान्स् दलस्य विजयः। स्पर्धायाः प्रथमार्धे सामुवल् उम् टिटि नामकेनैव लक्ष्यकन्दुकं प्राप्तम्।

Tuesday, July 10, 2018

स्त्रियः यानं चालितवत्यः- सौदिराष्ट्रे ३०,००० चालकाः बहिरगच्छन्।
    रियादः>सौदिराष्ट्रे वनिताभ्यः यानचालकानुमतिपत्रम् अलभन्त। अत एव गार्हिकयानचालकानाम् आवश्यकता न्यूना अभवत्। एवं षण्मासाभ्यन्तरे त्रिंशत्सहस्रं वैदेशिकयानचालकाः स्वराष्ट्रं प्रति प्रेषिताः।  सार्वजनिकगणना संस्थया  उक्तम्। स्वदेशीवत्करणयेजनया कर्मविनष्टानाम् प्रतिदिनसङ्ख्या 2602 इति भवति। आगमिष्यमाणे संवत्सरे २५% तः ५०% भविष्यति कर्मनष्टम्। त्रिसहस्राधिकं  भारतवाहनचालकाः सन्ति इदानीं सौदि राष्ट्रे।
प्रार्थना साफल्यम् - ताय्लान्टे गुहायां पतितेषु ८ छात्राः बहिरानीताः। 
     बाङ्कोक् > विश्वजनतायाः प्रार्थना सफलतां प्राप्नोति। ताय्लान्टराष्ट्रे तां लुवाङ् नामिकायां गुहायां सप्ताहद्वयात् पूर्वं निपतितेषु परिशीलकसहितेषु १२ पादकन्दुकक्रीडकेषु छात्रेषु ८ बालकाः रक्षादौत्यसेनया बहिर्नीताः। रविवासरे एव रक्षाप्रयत्नः प्रारब्धः। तीव्रे कठिने च प्रथमचरणे चत्वारः बालकाः बहिर्नीताः।  ह्यः अन्ये चत्वारश्च बहिरागताः।
लवणं विना खादिष्यामः। लवणस्य दौर्लभ्यं भविष्यति। 
-डा अभिलाष् जे
    राज्कोट्>अतिरूक्षं लवणदौर्लम् आगच्छतीति संस्तुतिः। लवणस्य उत्पादने न्यूनता नास्ति चेदपि लवणं नेतुं रेल्यानानि न लभन्ते इत्यतः क्षामः संजातः। अष्ट लक्षं टण् मितं लवणं गुजरात् राज्यस्य कच् मध्ये गान्धीधाम क्षेत्रे वर्तते।
   गुजरात् राज्ये विंशति लवणसंस्करणशालाः सन्ति। तेषु चतुर्दश गान्धीधामे एव वर्तते। रेल्यानानि सर्वाणि कच्चे कट्ल मुद्रा टुण इत्यादि क्षेत्रेभ्यः कृषिसामग्र्यः नेतुं प्रवर्तन्ते।
2016-तमे  55,000 शिशवः अप्रत्यक्षाः।
    नवदिल्ली> बालापहरणम् इति अारोप्य व्याजसन्देशाः प्रसार्यमाणाः सन्ति। बालकन् अपहृतवान् इत्युक्त्वा केचन हताः। अवसरेस्मिन् भीतितां वार्तां प्रसार्य केन्द्रीय आभ्यन्तरमन्त्रालयः।
    2016-तमे एव 55,000 शिशवः राष्ट्रस्य विविधभागेभ्यः अपहृताः इति गणितेन प्रकाश्यते। घटनेयं प्रतिसंवत्सरं प्तिशतं त्रिंशत् इति क्रमेण वर्धमाना अस्ति।  2016-तमे 54,723 शिशवः अपहृताः। किन्तु  40.4 ℅ घटनायां अपराधव्यवहारपत्रमपि न समर्पितम्। व्यवहारे आगतेषु घटनासु  22.7 ℅एव दण्डिताः 2015-तमे 41,893,  2014-तमे 37,854 संख्यामितानि विकल्पनियामकविधानानि पञ्चीकृतानि। 2017 तमस्य  आवेदनम् इतःपर्यन्तम् न प्रकाशितम्। 

Monday, July 9, 2018

सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनमद्य कनाडाया: वैङ्कूवरनगरे
-पुरुषोत्तमशर्म
    केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: अद्य कनाडादेशस्य वैंकूवरनगरे जुलाई मासस्य नवमदिनाङ्कात् त्रयोदशदिनाङ्कं यावत् आयोक्ष्यमाणस्य सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनं करिष्यति ।
     अस्मिन् सम्मेलने पञ्चशताधिकसंस्कृतविद्वांस: चत्वारिंशद्देशानां शिष्टमण्डलानि च सहभागं करिष्यन्ति। विभिन्नविषयेषु शोधपत्रै: संस्कृतज्ञानस्य  आदानप्रदानं भविष्यति। ऐतिहासिके साहित्ये वैदिकसाहित्ये च  महिलानां शिक्षा संस्कृतं बौद्धधर्म: मनुस्मृति: योगशाला मीमांसा गार्गीया-ज्योतिषनुसन्धानादिविषयेषु विशेषचर्चा भविष्यति । 
     पञ्चदिवसीयसम्मेलनस्योद्देश्यं जगति दैनन्दिनव्यवहारे संस्कृतभाषाप्रयोग: संस्कृतसंवर्धनं साहित्यप्रसारश्च विद्यते। विश्वसंस्कृतसम्मेलनस्ययोजनं जगिति पृथक्-पृथग्राष्टेषु वर्षत्रयान्तराले भवति। भारते इदानीं यावत्  त्रिवारं विश्वसंस्कृतसम्मेलनमभवत् । अस्मिन् वर्षे  भारतीयशिष्टमण्डल दश विद्वांस: द्वौ अधिकारिणौ च विद्यन्ते।
गूगिल् निर्मितबुद्धिसङ्घेषु भारतस्य  तान्त्रिकनवोन्मेषशालिरपि।  निष्कृतिः 1.2 कोटिः। 
    बंगलूरु> द्वाविंशति वर्षदेशीयाय भारततन्त्रज्ञाय  गूगिलस्य निर्मितबुद्धिसङ्घं प्रति निमन्त्रणम्। निष्कृतिः 1.2 कोटिः आदित्य पलिवाल् इति विद्यार्थिने भवति अयं दुर्लभावसरप्राप्तिः। मुम्बै देशीयः आादित्यः बंगलूरु नगरस्थे ऐ ऐ टि मध्ये छात्रः भवति।
     सेरच् एन्जिन् (अन्वेषणयन्त्रम्) भीमेन गूगिलेन कृते आगोलतल परीक्षायामेव आदित्यस्य चयनमभवत्। आहत्य 6000 संख्यामितः परीक्षार्थिनः आासन् । तेषु   50 कुशलाः एव चिताः।  जूलै मासस्य  16 दिनाङ्के सः गूगिलेन सह मिलिष्यति।  आधुनिकयुगे अग्रे सरन्तां गूगिल् संस्थायां कर्मणे निमन्त्रितः इत्यनेन सन्तुष्टिरस्तीति सः अवदत्।

Sunday, July 8, 2018

पादकन्दुकोत्सवः - इङ्लण्ट्-क्रोयेष्या पूर्वान्तिमस्पर्धा। 
     मोस्को > फिफा विश्वपादकन्दुकमहोत्सवस्य प्रपूर्वान्तिमस्पर्धानां तृतीये चरणे इंग्लैंड दलः स्वीडन दलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य पूर्वान्तिमस्पर्धां प्राविशत्! चतुर्थे चरणे आतिथेयकं रूस् राष्ट्रं क्रोयेष्या राष्ट्रं प्रति पराजितमभवत्! उत्साहोज्वले अस्मिन् प्रतिद्वन्दे अतिरिक्तसमये अपि २-२ इति समस्थितिं भूत्वा 'पेनाल्टी षूटौट्' मध्ये एव ४-३ इति लक्ष्यकन्दुकक्रमेण क्रोयेष्या पूर्वान्तिमवेदिकां प्राविशत्।
उद्योगसंस्थाः छात्रैः पाठं पाठिताः।
       चेन्नै> उद्योगमहासंस्थां नियन्त्रितुं सर्वकारोടपि अशक्तः इति भवति अनुभवः। ताः संस्थाः नियमलङ्घनं कुर्वन्ति। नियमस्य पारं गच्छन्ति। किन्तु तूत्तुक्कुटीस्थस्य सुब्बय्य बालिका- उच्चतरविद्यालयस्य कैश्चन छात्रैः कांश्चन उद्योगसंस्थाः परिस्थितिपाठः पाठिताः। उपयोगानन्तरं मार्गेषुपरित्यक्तानां भक्ष्यवस्तूनां चाकलेयानां  पलास्तिक आवरणानि सञ्चित्य तेषां स्वामिसंस्थां प्रति प्रेषिनि। तेभिः सह पत्रमपि आसीत्। तस्मिन् एवं लिखितम्- उत्तमम् स्वादुभोज्यम्- किन्तु समागतपरम्परायै अस्माकम् अपेक्षा अस्ति यत् - पलास्तिकवस्तुना परिस्थितिक्लेशान् अधिकतया अनुभूयन्ते। अतः युष्माकं विक्रयवस्तूनि  परिस्थित्यनुकूलतया आवरणं कुरु। इति।
 विद्यालय-कलाशालाछात्राः एकस्मिन् वासरे उपयेगानन्तरं ताभिः परित्यक्तानि 20,224 विविधप्रकारावरणानि सञ्चितानि। तूत्तुक्कुटि नगरपालिकायाः साह्येन आसीत्  इयं येजना  . सञ्चितानि पलास्तिकवसतूनि नगरपालिकया उद्योगसंस्थां प्रति प्रेषितानि।

Saturday, July 7, 2018

फ्रान्स् बल्जियं दलौ पूर्वान्तिमचक्रं  प्रविष्टौ। ब्रसील् बहिर्गतः। 
     निष्नी > फिफा विश्वपादकन्दुक स्पर्धायां फ्रन्स् बल्जियं राष्ट्रे पूर्वान्तिमचक्रं प्रविष्टे। ह्यः सम्पन्नायां प्रतियोगितायां  प्रत्यर्पणरहितेन लक्ष्यकन्दुकद्वयेन फ्रान्स् दलः उरुग्वेदलं पराजितवान्। राफेल् वरन् अन्टोय्न् ग्रीस् मान् च फ्रान्स् दलाय लक्ष्यकन्दुकौ प्राप्तवन्तौ।
    उत्साहसम्पन्ने प्रतियोगितान्तरे प्रबलं ब्रसील् दलं पराजित्य बल्जियं दलः पूर्वान्तिमस्पर्धां प्रविष्टः। लक्ष्यकन्दुकक्रमः २- १।