OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, June 21, 2018
Wednesday, June 20, 2018
उष्णवातेन ओडीषायां विद्यालयोद्धाटनम् विस्तारितम्।
भुवनेश्वरम्> शक्तेन उष्णवातेन ओडीषायां विद्यालयोद्धाटनम् विस्तारितम्। उष्णकालविरामानन्तरं विद्यलयोद्घाटने एव विलम्बः। जूण्मासस्य२६ दिनाङ्के उद्घाटनं भविष्यति इति मुख्यमन्त्री नवीन पटनायकः अवदत्। एप्रिल्मासस्य २५ दिनाङ्के पिधानं कृतं विद्यालयं जुण्मासस्य १८ दिनाङ्के उद्घाटयितुं निश्चितमासीत् ।
कूपीजले विषांशः।
तिरुवनन्तपुरम्- > केरलराज्ये विक्रीते कूपीजले विषसान्निध्यम्। विना शुद्धीकरणं जलविक्रयणं कृतानां दशसंस्थानां प्रवर्तनं निरोद्धुं भक्ष्यसुरक्षाविभागेन निर्देशः दत्तः। तान् प्रति नियमक्रियाः अपि आरब्धाः। मक्टोवल्स्, गोल्डन् वाली, ग्रीन्वाली इत्यादि प्रमुखानां कूपीजलानां शुद्धता भक्ष्यसुरक्षाविभागेन निरीक्षिता। ब्लू ऐरिस्, अशोका, मौण्ड् मिस्ट् अक्वा सेयर् , बेसिक्, टिप्लोमाट्, बिस्ट्रोल्, इत्यादीन् इतः परं विक्रयणं न कुर्यादिति निर्दिष्टम्। संस्थाभिः जलादानं शुचित्वं विना कुर्वन्ति इति निरीक्षणे व्यक्तं जातम्। भक्ष्यसुरक्षा विभागस्य आवेदनं भक्ष्यसुरक्षा अध्यक्षाय राजमाणिक्याय प्रदत्तम्।
राष्ट्रे विक्रीतेषु कूपीजलेषु दशसु त्रीणि मलिनजलयुक्तानि इति केन्द्र-भक्ष्यमन्त्रिणा सी आर् चैधरिणा लोकसभायां प्रख्यापितम्। पलास्तिक-चूर्णयुक्तानि भूरिशानि कूपीजलानि। तानि अर्बुदादि अतिमारक रुग्णहेतूनि भवन्ति।
राष्ट्रे विक्रीतेषु कूपीजलेषु दशसु त्रीणि मलिनजलयुक्तानि इति केन्द्र-भक्ष्यमन्त्रिणा सी आर् चैधरिणा लोकसभायां प्रख्यापितम्। पलास्तिक-चूर्णयुक्तानि भूरिशानि कूपीजलानि। तानि अर्बुदादि अतिमारक रुग्णहेतूनि भवन्ति।
Tuesday, June 19, 2018
जप्पान् राष्ट्रे शक्तं भूचलनम्- त्रयः मारिताः।
टोकियो>पश्चिम जापानस्य ओसाकि देशे भूचलने त्रयः हताः। हतेषु एका बालिका भवति। उपद्विसहस्रं क्षताः। रिक्टर् मापिकायां ६.१ इति तीव्रं इति अङ्कितम् अस्ति। स्थावरजङ्गमवस्तूनां नाशः अधिकतरः अभवत्। नववयस्कया बालिकया सह त्रयः मारीताः। जनाः भयचकिताः अभवन्। हृदयस्तम्भनेन बहवः अातुरालयं प्रविष्टाः। भौमोपरितलात् १० किलोमीट्टर् अधः एव चलनस्य प्रभवकेन्द्रः। भित्तिपातेन एव वृद्धः बालिका च मृतौ। सुरक्षानुबन्धतया रेल्यानसेवा स्थगिता। मिहाम तकाहाम अोहि अणुनिलयानां सुरक्षादोषाः न सन्ति इति कान्सायि विद्युच्छक्तिविभागेन ज्ञापितः।
Monday, June 18, 2018
भारतस्य पादकन्दुकक्रीडासंघाय अनुज्ञा
-रजीश् नम्पीशः
नवदल्ही > अस्मिन् वर्षे आगस्तमासे इन्टोणेष्या मध्ये आरभ्यमाने 'एष्यन् गेय्म्स्' मध्ये भागं कर्तुं पादकन्दुकक्रीडासंघाय सर्वकारस्य अनुमतिः लब्धा इति सूचना।गेय्म्स् मध्ये पादकन्दुकक्रीडासंघस्य भागभाक्त्वविषये पूर्वम् अनिश्चितत्वमासीत्। नूतननिर्णयः पादकन्दुकक्रीडाप्रेमिणां कृते आह्लाददायकः भवति। एष्यायाः उत्तमाः संघाः गेय्म्स् मध्ये भागं करिष्यन्तीत्यतः तै साकं क्रीडनाय अवसरः भारतसंघाय उपकारकः भवेत् इति परिशीलकेन कोण्स्टन्टैन् महोदयेन अभिप्रेतम्।
काश्मीरे विस्फोटनं पञ्चदश जनाः व्रणिताः
श्रीनगरम् > काश्मीरे जायमाने विस्फोटने पञ्चदश जनाः व्रणिताः । गन्दर् बाल् जनपदस्य मनस् बाल् क्रीडोद्याने एव घटना जाता। अवक्षयवस्तूनां पात्रे अासीत् विस्फोटकम् इति अारक्षकैः उक्तम्। व्रणितानाम् अवस्था न गुरुतरा। घटनाम् अधिकृत्य अन्वेषणम् आरब्धम् इति अरक्षकैः उक्तम्।
Sunday, June 17, 2018
जलशुद्धीकरणाय आगिरणम् (sponge ) नूतनप्रत्यभिज्ञानेन भारतीयवनिता।
टोरेन्टो> जलेविद्यमानानां मालिन्यानां गिलनाय नूतनम् आगिरणं निर्मीय भारवंशजा अनुसन्धात्री। हैद्राबाद् नगरात् अमेरिकां प्राप्तवती पावणी चेरुकुपळ्ळी नामिका भवति एषा। अगिरणी उपयुज्य लघुव्ययेन जलशुद्धीकरणः शक्यते इति विशेषता अस्ति अस्याः अनुसन्धानाय। टोरन्टो विश्वविद्यालयस्य शोधच्छात्रा भवति पावणी। विश्वविद्यालयस्यल यन्त्रतन्त्रविभागेल भवति तस्याः अनुसन्धानम्। समान्य अागिरणमेव एतदर्थम् उपयुज्यते। जले विलीना जैवरासमालिन्यनि एवं निष्कासितुं शक्यते। पोली यूरत्तिन् उपयुज्य निर्मितः विद्युत् कणेन निभृतम् आगिरणम् जलमालिन्यात् अयोण् कणान् इति ज्ञात्वा एव नूतनाशयानाम् प्रकाशनम्।
अमेरिक्कायाः उत्पन्नानानां कृते भारतमपि करः वर्धितः
-डा. अभिलाष् जे
नवदेहली> चैना अनन्तरं भारतेनापि अमेरिक्कायाः व्यापार युद्धं प्रति कठिना प्रतिक्रिया प्रतिक्रिया प्रारब्धा।अमेरिक्कातः आगतानां त्रिंशत् उत्पन्नानां करः पञ्चाशत् प्रतिशतं वर्धितुं केन्रसर्वकारः प्रयत्नः आरब्धः।
वर्धितकराणां उत्पन्नानां सारांशं विशदीकृत्य भारतं विश्व व्यापार संस्थां औपचार्कतया न्यवेदयत्।भारतात् गतानां अयसः अलुमिनियम् उत्पन्नानां करः अमेरिक्कया वर्धितः आसीत्। २४.१ कोटि डोलर् अमेरिक्का भारतस्य उपरि स्थापितः आसीत्।एतस्य प्रतिक्रिया रूपेण अस्ति भारतस्य प्रवृत्तिः।
फिफा विश्वचषकपादकन्दुकक्रीडा - अर्जन्टीनादलं बन्धयित्वा ऐस्लण्ट् ।
-रजीश् नम्पीशः
स्पार्टक् > भूतपूर्वविश्वचषकजेतारं अर्जण्टीनादलं १-१ इत्यङ्के बन्धयित्वा ऐस्लण्ट्दलं फिफा विश्वचषकपादकन्दुकक्रीडायां स्वसान्निध्यं न्यवेदयत्। प्रमुखक्रीडकः मेसी ऐस्लेण्ट् क्रीडकस्य अपराधेन लब्धम् पेनाल्टिं नष्टीकृत्य क्रीडायां दुरन्तनायकः अभवत्। क्रीडायां १९तमे निमेषे अगूरो लक्ष्यं प्राप्य अर्जण्टीनादलं अग्रे नीतः आसीत्। किन्तु चतुर्निमेषाभ्यन्तरे एव फिन्बोगनसन् द्वारा ऐस्लण्ट् लक्ष्यस्य प्रतिदानमकरोत्। ततः परं क्रीडायाः ६४तमे निमेषे पेनाल्टिरूपेण लब्धः सुवर्णावसरः मेसिनः अश्रद्धया नष्टः अभवत्। एतत् तु क्रीडायाः गतिनिर्णये कारणमभवत्। अनया क्रीडया द्वयोरपि दलयोः अङ्कमेकं लब्धम्।
Subscribe to:
Posts (Atom)