OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, May 19, 2018
क्यूबाराष्ट्रे विमानापघातेन शताधिकाः मृताः।
क्यूबाराष्ट्रे १०४ यात्रिकैः ९ विमानकर्मकरैः सह विमानम् अपघाते पतितम्। शताधिकाः मृताः गुरुतरया क्षतेन त्रयः आतुरालयं प्रविष्टाः। हवान प्रदेशस्थ होसेमार्ति विमाननिलयात् उड्डयनं कृत्वा विलम्बं विना अपघातम् अभवत् । क्यूब सर्वकारस्य बोयिङ् ७३७ विमानम् एव भग्नम्। पूर्वदेशस्थ होल्ग्विन् नगरं प्रति गच्छत् आसीत् विमानम्। विमाननिलयस्य समीपे क्षेत्रे पतित्वा विस्फोटनम् अभवत्l भूरिजनाः अपघातेन मृताः इति क्यूबस्य राष्ट्रपतिः मिग्वेल डियासः अवदत्।
तैलस्य मूल्यम् न्यूनीकरणीयम् - सौदिं प्रति भारतम्।
नवदिल्ली> तैलेन्धनस्य निरन्तरमूल्यवर्धनं नियन्त्रितुं प्रक्रमः स्वीकरणीयः इति केन्द्र पेट्रोलियं मन्त्री धर्मेन्द्रप्रधानः सौदीअरेब्यराष्ट्रं प्रति अवदत्। तैलस्य मूल्यवर्धनं भारतस्य सम्पद् व्यवस्थायां प्रतिकूलताया बाधते इति सौदी अरेब्याराष्ट्रस्य व्यवसाय विभागमन्त्रिणा साकं कृते दूरवाणीभाषणे सूचितम्। प्रेट्रोल् तैलस्य मूल्यं बारल् मितस्य ८० डोलर् समागच्छति इत्यनेन कारणेन आसीत् दूरवाणी भाषणम् । उभययोः राष्ट्रयोः साह्यकरणे तथा तैल विपण्यः इदानीन्तन अवस्थाम् अधिकृत्य च आसीत् भाषणम् इति औद्योगिकावेदनम्। उत्पादकैः सह भाषणं कृत्वा समस्यापरिहाराय क्रियान्वयः भविष्यति इति सौदीराष्ट्रेण उक्तम्॥
Friday, May 18, 2018
सर्वकारोद्योगिनां जैविकविशेषताम् अनुमीय उपस्थित्यालेखनम्।
तिरुवनन्तपुरम्> केरलराज्ये सर्वकारोद्योगिनां कृते उपस्थितिमुद्रणाय विशेषविधानं सज्जीक्रियते इति केरलस्य मुख्यमन्त्री पिणरायिविजयः अवदत्I ओक्टोबर् मासादारभ्य नूतनसंविधानस्य निवेशः भविष्यति। सर्वकारीयसेवनानि शक्तीकर्तुं सर्वकारेण प्रामुख्यं कल्पते। एवं चेत् प्रातः आगत्य हस्ताक्षरंकृत्वा अन्यत्र गतवतां बाधा भविष्यति। जनानां सौविध्यमेव उद्योगिनां लक्ष्यं भवितव्यम् इत्यपि तेनोक्तम्।
राज्यपालस्य यद्यूरप्पनिमन्त्रणं विरुद्घ्य दत्तानां परिदेवनानाम् अवलोकनम् सर्वोच्चन्यायालयेन अद्य क्रियते।
दिल्ली> कर्णाटकसर्वकारायोजनायै यद्यूरप्पः राज्यपालेन आमन्त्रितः इति विषयमधिकृत्य सर्वोच्चन्यायालये न्यायव्यवहारं प्रचलिष्यते। भूरिपक्षम् उक्त्वा तेन राज्यपालस्य समक्षं प्रदत्तौ लेखौ अपि न्यायालयस्य पुरतः समर्पयिष्ये। बि एस् यद्यूरप्प मुख्यमन्त्रित्वेन अनुवर्तिष्यते वा इति सर्वे अवलोकयन्ति।
आर् एस् पुर देशे पाकिस्थानस्य गोलिकाप्रहरः - सीमासैनिकः मृतः।
श्रीनगरम्> गोलिकाप्रहरस्थगनवाचम् उल्लङ्घ्य पाकिस्थानः जम्मु काश्मीरस्थ आर् एस् पुरदेशे पुनरपि गोलिकाप्रहरमकरोत्I प्रवृते अत्याचारे सीमसुरक्षाभटः हतः। प्रदेशवासिषु द्वौ क्षतौ। नियन्त्रणरेखाम् उल्लङ्घ्य पाकिस्थानेन आक्रमणं कृतम् इति अस्ति आवेदनम्। सीमाप्रदेशस्थानां विद्यालयानां कृते सर्वकारेण विरामः ख्यापितः।
Thursday, May 17, 2018
कर्णाटके भा ज पा दलाय आमन्त्रणम्।
बेङ्गलुरु > कर्णाटके राजनैतिकाकाङ्क्षायाः तात्कालिकविरामः। १०४ स्थानानि प्राप्तवत् भाजपादलं मन्त्रिसभारूपवत्करणाय राज्यपालेन वाजुभायि वालवर्येण आमन्त्रितम्। दलनेतुः यदूर्यप्पस्य मन्त्रिमण्डलरूपवत्करणस्य अधिकारवादः राज्यपालेन अङ्गीकृतः आसीत्। विधानसभायां भूरिपक्षनिर्णयाय १५ दिनात्मकः कालश्च लब्धः।
Wednesday, May 16, 2018
विद्युत् चतुश्चक्रिकाणां द्विलक्षं तथा विद्युत् द्विचक्रिकाणां च कृते त्रिंशत् सहस्ररुप्यकाणां च न्यूनत्वम्।
डॉ अभिलाष् जे
नवदेहली - राष्ट्रे पेट्रोल् टीसल् यानानि सम्पूर्णतया निष्कास्य परिस्थिति मित्र यानानां व्यापनाय केन्द्रसर्वकारेण ९४०० कोटि रूप्यकाणां योजना आविष्क्रियते। एतेन वायुमलिनीकरणं न्यूनीकर्तुं शक्यते। अतः अस्मिन् क्षेत्रे निक्षेपं प्रोत्साहयितुं बहूनि सौविध्यानि दातुं सर्वकारेण आलोच्यते। पुरातनानां यानानां नाशं कृत्वा नूतनानां विद्युत् यानानां स्वीकरणाय अधिकाधिकं सार्धद्विलक्षात्मकं रूप्यकाणि न्यूनीकृत्य सर्वकारः दास्यति।वेगवतां सार्धैकलक्षोपरि मूल्यवतां द्विचक्रयानानां कृते त्रिंशत् सहस्ररूप्यकाणि तथा एकलक्षात्मकरूप्यकाणां द्विचक्रयानानां कृते विंशतिसहस्ररुप्यकाणां पञ्चलक्षात्मक त्रिचक्रिकाणां पञ्चसप्तति सहस्ररुप्यकाणां पञ्चदशलक्षात्मकस्य चतुस्चक्रिकाणां कृते द्विलक्षपर्यन्तं, दशलक्षवतां लघु व्यवसायिक यानानां कृते सार्धद्विलक्षं त्रिकोटि रूप्यकवतां बस्यानानां कृते पञ्चाशत् लक्षं च सर्वकारेण न्यूनीकरिष्यते। परिष्कारोयं निबन्धनाधिष्ठतं स्यात्।
आगामिनि पञ्चवर्षेषु एतादृशपरिवर्तनाय १५०० कोट्रूप्यकाणां व्ययः भविष्यति। विद्युत् चार्जिङ् केन्द्राणि स्थापितुं १००० कोटि रूप्यकाणां व्ययः भविष्यति। प्रायः पञ्चलक्षयानानि एवं परिवर्तयन्ति। तेषु भूरिशः अशीतिप्रतिशतं द्विचक्र त्रिचक्रयानानि स्युः। एतादृशपरिवर्तनेन यानक्षेत्रे बहु बृहद् परिवर्तनं भविष्यति।
दिल्याम् अन्तिमे यामे धूलीवातः - व्यापकनाशः
नवदिल्ली> भारतराजधान्याम् अतिप्रभाते त्रिवादनात् आरभ्य जातेन वातेन महान् नाशः जातः। ७० कि.मी वेगेन वातः वाति स्म। वाहनानाम् उपरि वृक्षाः पतिताः। भवनानि भग्नानि। रविवासरात् आरभ्य इतःपर्यन्तं ८० जनाः मृताः । उत्तरप्रदेशे ५१ जनाः मृताः।
जम्मुकाश्मीर: हिमाचल प्रदेशः, उत्तरखण्डः, उत्तरप्रदेशस्य दक्षिणभगाः इत्येदेषु देशेषु वज्रपातः वातः च शक्तिं प्राप्स्यतः इति केन्द्रवातावाणविभागेन पूर्व सूचना प्रदत्ता। राजस्थानम् पश्चिमबंगालः बीहारः छत्तीस्घट् इत्येतेषु राज्येषु अपि धूलीवातः भविष्यति इत्यपि पूर्वसूचना अस्ति।
Tuesday, May 15, 2018
डॉ. वाई.एन्. राव् वर्यस्य ‘संस्कृत-पाठान् पठत’ इति पाठ्यक्रमस्य चक्रम्-8 इत्यस्य आरम्भः अभवत्
हैदराबाद्> डॉ. वाई.एन्. राव्-वर्यः 80-वर्षीयः हैदराबाद्-नगरस्थः (तेलङ्गाणा राज्ये, भारते) लब्धप्रतिष्ठः भाषावैज्ञानिकः अस्ति। सः षड्भ्यः वर्षेभ्यः देवभाषां – संस्कृतं पाठयन्नस्ति तदर्थम् अन्तर्जालमाध्यमेन ‘संस्कृत-पाठान् पठत’ इति आधारभूत-संस्कृत-पाठ्यक्रमं ई-मेल – द्वारा निश्शुल्कं चालयति च। डॉ. राव्-वर्यः पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उपर्युक्तपाठ्यक्रमं चालयति।
उपर्युक्तपाठ्यक्रमस्य सप्तचक्राणि सफलतया समाप्य सः 8-मस्य चक्रस्य 18-02-2018-दिनाङ्के प्रारम्भं कृतवान् अस्ति। अस्मिन् पाठ्यक्रमे 52 साप्ताहिकाः पाठाः भवन्ति। अस्मिन् पाठ्यक्रमे 2,500 छात्राः प्रवेशं प्राप्तवन्तः। तेषु 85 छात्राः आस्ट्रेलिया, दुबाई, जर्मनी, ओमन्, सौदीअरेबिया, स्विट्जर्लैण्ड्, यू.के., यू.एस्.ए., इत्यादि-विभिन्न-अन्य-देशेभ्यश्च सन्ति। अतीव रुचिकरविषयः तु विविधदेशेभ्यः, मातृभाषाभ्यः, धर्मेभ्यः, विश्वासेभ्यः च, 7-तः 87-पर्यन्त-वयस्काः च सन्ति अस्मिन् पाठ्यक्रमे।
यदा एषः 52-साप्ताहिक-पाठानां पाठ्यक्रमः समाप्तः भवति तदा अन्तर्जाल-माध्यमेन आन्-लाइन् वेब्-आधारित-परीक्षा भविष्यति। तस्यां परीक्षायाम् उत्तीर्णानां छात्राणां प्रतिभापाटवानुसारं श्रेण्यः दीयन्ते। श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उत्तीर्णच्छात्राणां प्रमाणपत्राणि दीयन्ते।
श्रीमान् जे.एस्. शास्त्री-वर्यः 62-वर्षीयः महाराष्ट्र वित्तकोशतः सेवानिवृत्तः सहायक-महानिदेशकः अस्मिन् पवित्रकार्ये डॉ. वाई.एन्. राव् महोदयेन साकं मिलित्वा निरन्तरं सहकारं कुर्वन् अस्ति।
Subscribe to:
Posts (Atom)